किरातार्जुनीयम्‌ - प्रसंग २

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


विहितां प्रियया मनःप्रियां अथ निश्चित्य गिरं गरीयसीं ।
उपपत्तिमदूर्जिताश्रयं नृपं ऊचे वचनं वृकोदरः ॥२.१॥

यदवोचत वीक्ष्य मानिनी परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं वचनं तद्विदधीत विस्मयं॥ २.२॥

विषमोऽपि विगाह्यते नयः कृततीर्थः पयसां इवाशयः ।
स तु तत्र विशेषदुर्लभः सदुपन्यस्यति कृत्यवर्त्म यः ॥२.३॥

परिणामसुखे गरीयसि व्यथकेऽस्मिन्वचसि क्षतौजसां ।
अतिवीर्यवतीव भेषजे बहुरल्पीयसि दृश्यते गुणः ॥२.४॥

इयं इष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा गुणगृह्या वचने विपश्चितः ॥२.५॥

चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिं आगता ।
कथं एत्य मतिर्विपर्ययं करिणी पङ्कं इवावसीदति ॥२.६॥

विधुरं किं अतः परं परैरवगीतां गमिते दशां इमां ।
अवसीदति यत्सुरैरपि त्वयि सम्भावितवृत्ति पौरुषं॥ २.७॥

द्विषतां उदयः सुमेधसा गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिं इच्छता फलसम्पत्प्रवणः परिक्षयः ॥२.८॥

अचिरेण परस्य भूयसीं विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिं उपेक्षते कृती कुरुते तत्प्रतिकारं अन्यथा ॥२.९॥

अनुपालयतां उदेष्यतीं प्रभुशक्तिं द्विषतां अनीहया ।
अपयान्त्यचिरान्महीभुजां जननिर्वादभयादिव श्रियः ॥२.१०॥

क्षययुक्तं अपि स्वभावजं दधतं धाम शिवं समृद्धये ।
प्रणमन्त्यनपायं उत्थितं प्रतिपच्चन्द्रं इव प्रजा नृपं॥ २.११॥

प्रभवः खलु कोशदण्डयोः कृतपञ्चाङ्गविनिर्णयो नयः ।
स विधेयपदेषु दक्षतां नियतिं लोक इवानुरुध्यते ॥२.१२॥

अभिमानवतो मनस्विनः प्रियं उच्चैः पदं आरुरुक्षतः ।
विनिपातनिवर्तनक्षमं मतं आलम्बनं आत्मपौरुषं॥ २.१३॥

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतं आयतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥२.१४॥

तदलं प्रतिपक्षं उन्नतेरवलम्ब्य व्यवसायवन्ध्यतां ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥२.१५॥

अथ चेदवधिः प्रतीक्ष्यते कथं आविष्कृतजिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यज्याश्चिरं आस्वाद्य नरेन्द्रसम्पदः ॥२.१६॥

द्विषता विहितं त्वयाथवा यदि लब्धा पुनरात्मनः पदं ।
जननाथ तवानुजन्मनां कृतं आविष्कृतपौरुषैर्भुजैः ॥२.१७॥

मदसिक्तमुखैर्मृगाधिपः करिभिर्वर्तयति स्वयं हतैः ।
लघयन्खलु तेजसा जगन्न महानिच्छति भूतिं अन्यतः ॥२.१८॥

अभिमानधनस्य गत्वरैरसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशुविलासचञ्चला ननु लक्ष्मीः फलं आनुषङ्गिकं॥ २.१९॥

ज्वलितं न हिरण्यरेतसं चयं आस्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः सुखं उज्झन्ति न धाम मानिनः ॥२.२०॥

किं अवेक्ष्य फलं पयोधरान्ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः सहते नान्यसमुन्नतिं यया ॥२.२१॥

कुरु तन्मतिं एव विक्रमे नृप निर्धूय तमः प्रमादजं ।
ध्रुवं एतदवेहि विद्विषां त्वदनुत्साहहता विपत्तयः ॥२.२२॥

द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवायतः ।
प्रसहेत रणे तवानुजान्द्विषतां कः शतमन्युतेजसः ॥२.२३॥

ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि ।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥२.२४॥

इति दर्शितविक्रियं सुतं मरुतः कोपपरीतमानसं ।
उपसान्त्वयितुं महीपतिर्द्विरदं दुष्टं इवोपचक्रमे ॥२.२५॥

अपवर्जितविप्लवे शुचय्हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥२.२६॥

स्फुटता न पदैरपाकृता न च न स्वीकृतं अर्थगौरवं ।
रचिता पृथगर्थता गिरां न च सामर्थ्यं अपोहितं क्वचिथ् ॥२.२७॥

उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदं ईदृगनीदृगाशयः प्रसभं वक्तुं उपक्रमेत कः ॥२.२८॥

अवितृप्ततया तथापि मे हृदयं निर्णयं एव धावति ।
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥२.२९॥

सहसा विदधीत न क्रियां अविवेकः परं आपदां पदं ।
वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयं एव सम्पदः ॥२.३०॥

अभिवर्षति योऽनुपालयन्विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥२.३१॥

शुचि भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंक्रिया ।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥२.३२॥

मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनां ।
सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनं॥ २.३३॥

स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥२.३४॥

शिवं औपयिकं गरीयसीं फलनिष्पत्तिं अदूषितायतिं ।
विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥२.३५॥

अपनेयं उदेतुं इच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते ॥२.३६॥

बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः ।
क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥२.३७॥

समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मतां ।
अधितिष्ठति लोकं ओजसा स विवस्वानिव मेदिनीपतिः ॥२.३८॥

क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिवश्यता ।
शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ॥२.३९॥

किं असामयिकं वितन्वता मनसः क्षोभं उपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां भवता धीरतयाधरीकृतः ॥२.४०॥

श्रुतं अप्यधिगम्य ये रिपून्विनयन्ते स्म न शरीरजन्मनः ।
जनयन्त्यचिराय सम्पदां अयशस्ते खलु चापलाश्रयं॥ २.४१॥

अतिपातितकालसाधना स्वशरीरेन्द्रियवर्गतापनी ।
जनवन्न भवन्तं अक्षमा नयसिद्धेरपनेतुं अर्हति ॥२.४२॥

उपकारकं आयतेर्भृशं प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां न तितिक्षासमं अस्ति साधनं॥ २.४३॥

प्रणतिप्रवणान्विहाय नः सहजस्नेहनिबद्धचेतसः ।
प्रणमन्ति सदा सुयोधनं प्रथमे मानभृतां न वृष्णयः ॥२.४४॥

सुहृदः सहजास्तथेतरे मतं एषां न विलङ्घयन्ति ये ।
विनयादिव यापयन्ति ते धृतराष्ट्रात्मजं आत्मसिद्धये ॥२.४५॥

अभियोग इमान्महीभुजो भवता तस्य ततः कृतावधेः ।
प्रविघाटयिता समुत्पतन्हरिदश्वः कमलाकरानिव ॥२.४६॥

उपजापसहान्विलङ्घयन्स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां किं उ लोकाधिकधाम राजकं॥ २.४७॥

असमापितकृत्यसम्पदां हतवेगं विनयेन तावता ।
प्रभवन्त्यभिमानशालिनां मदं उत्तम्भयितुं विभूतयः ॥२.४८॥

मदमानसमुद्धतं नृपं न वियुङ्क्ते नियमेन मूढता ।
अतिमूढ उदस्यते नयान्नयहीनादपरज्यते जनः ॥२.४९॥

अपरागसमीरणेरितः क्रमशीर्णाकुलमूलसन्ततिः ।
सुकरस्तरुवत्सहिष्णुना रिपुरुन्मूलयितुं महानपि ॥२.५०॥

अणुरप्युपहन्ति विग्रहः प्रभुं अन्तःप्रकृतिप्रकोपजः ।
अखिलं हि हिनस्ति भूधरं तरुशाखान्तनिघर्षजोऽनलः ॥२.५१॥

मतिमान्विनयप्रमाथिनः समुपेक्षेत समुन्नतिं द्विषः ।
सुजयः खलु तादृगन्तरे विपदन्ता ह्यविनीतसम्पदः ॥२.५२॥

लघुवृत्तितया भिदां गतं बहिरन्तश्च नृपस्य मण्डलं ।
अभिभूय हरत्यनन्तरः शिथिलं कूलं इवापगारयः ॥२.५३॥

अनुशासतं इत्यनाकुलं नयवर्त्माकुलं अर्जुनाग्रजं ।
स्वयं अर्थ इवाभिवाञ्छितस्तं अभीयाय पराशरात्मजः ॥२.५४॥

मधुरैरवशानि लम्भयन्नपि तिर्यञ्चि शमं निरीक्षितैः ।
परितः पटु बिभ्रदेनसां दहनं धाम विलोकनक्षमं॥ २.५५॥

सहसोपगतः सविस्मयं तपसां सूतिरसूतिरेनसां ।
ददृशे जगतीभुजा मुनिः स वपुष्मानिव पुण्यसंचयः ॥२.५६॥

अथोच्चकैरासनतः परार्ध्यादुद्यन्स धूतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः शृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥२.५७॥

अवहितहृदयो विधाय स अर्हां ऋषिवदृषिप्रवरे गुरूपदिष्टां ।
तदनुमतं अलंचकार पश्चात्प्रशम इव श्रुतं आसनं नरेन्द्रः ॥२.५८॥

व्यक्तोदितस्मितमयूखविभासितोष्ठस्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः ।
तन्वन्तं इद्धं अभितो गुरुं अंशुजालं लक्ष्मीं उवाह सकलस्य शशाङ्कमूर्तेः ॥२.५९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP