किरातार्जुनीयम् - प्रसंग ६
'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.
रुचिराकृतिः कनकसानुं अथो परमः पुमानिव पतिं पततां ।
धृतसत्पथस्त्रिपथगां अभितः स तं आरुरोह पुरुहूतसुतः ॥६.१॥
तं अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥६.२॥
अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः ।
परिरेभिरेऽभिमुखं एत्य सुखाः सुहृदः सखायं इव तं मरुतः ॥६.३॥
उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।
मुदं अस्य माङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रं अपां॥ ६.४॥
अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसां ।
स ददर्श वेतसवनाचरितां प्रणतिं बलीयसि समृद्धिकरीं॥ ६.५॥
प्रबभूव नालं अवलोकयितुं परितः सरोजरजसारुणितं ।
सरिदुत्तरीयं इव संहतिमत्स तरङ्गरङ्गि कलहंसकुलं॥ ६.६॥
दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः ।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान्॥ ६.७॥
अनुहेमवप्रं अरुणैः समतां गतं ऊर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीं अभिननन्द रुतैः ॥६.८॥
सितवाजिने निजगदू रुचयश्चलवीचिरागरचनापटवः ।
मणिजालं अम्भसि निमग्नं अपि स्फुरितं मनोगतं इवाकृतयः ॥६.९॥
उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता ।
स ददर्श केतकशिखाविशदं सरितः प्रहासं इव फेनं अपां॥ ६.१०॥
बहु बर्हिचन्द्रिकनिभं विदधे धृतिं अस्य दानपयसां पटलं ।
अवगाढं ईक्षितुं इवैभपतिं विकसद्विलोचनशतं सरितः ॥६.११॥
प्रतिबोधजृम्भणविभीनमुखी पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥६.१२॥
शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः ।
स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥६.१३॥
उपलभ्य चञ्चलतरङ्गहृतं मदगन्धं उत्थितवतां पयसः ।
प्रतिदन्तिनां इव स सम्बुबुधे करियादसां अभिमुखान्करिणः ॥६.१४॥
स जगाम विस्मयं उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।
प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमं अपां पटलं॥ ६.१५॥
स ततार सैकतवतीरभितः शफरीपरिस्फुरितचारुदृशः ।
ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगां उपयतीः सरितः ॥६.१६॥
अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।
मनसः प्रसत्तिं इव मूर्ध्नि गिरेः शुचिं आससाद स वनान्तभुवं॥ ६.१७॥
अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।
धृतिं आततान तनयस्य हरेस्तपसेऽधिवस्तुं अचलां अचलः ॥६.१८॥
प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर्मुनितां ।
श्रमं आदधावसुकरं न तपः किं इवावसादकरं आत्मवतां॥ ६.१९॥
शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥६.२०॥
अधरीचकार च विवेकगुणादगुणेषु तस्य धियं अस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥६.२१॥
मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः ।
सहजेतरे जयशमौ दधती बिभरांबभूव युगपन्महसी ॥६.२२॥
शिरसा हरिन्मणिनिभः स वहन्कृतजन्मनोऽभिषवणेन जटाः ।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥६.२३॥
धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः ।
रजयांचकार विरजाः स मृगान्कं इवेशते रमयितुं न गुणाः ॥६.२४॥
अनुकूलपातिनं अचण्डगतिं किरता सुगन्धिं अभितः पवनं ।
अवधीरितार्तवगुणं सुखतां नयता रुचां निचयं अंशुमतः ॥६.२५॥
नवपल्लवाञ्जलिभृतः प्रचये बृहतस्तरून्गमयतावनतिं ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयतां उपयतीं वसुधां॥ ६.२६॥
पतितैरपेतजलदान्नभसः पृषतैरपां शमयता च रजः ।
स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥६.२७॥
महते फलाय तदवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः ।
न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यं अनुभावगुणः ॥६.२८॥
तदभूरिवासरकृतं सुकृतैरुपलभ्य वैभवं अनन्यभवं ।
उपतस्थुरास्थितविषादधियः शतयज्वनो वनचरा वसतिं॥ ६.२९॥
विदिताः प्रविश्य विहितानतयः शिथिलीकृतेऽधिकृतकृत्यविधौ ।
अनपेतकालं अभिरामकथाः कथयांबभूवुरिति गोत्रभिदे ॥६.३०॥
शुचिवल्कवीततनुरन्यतमस्तिमिरच्छिदां इव गिरौ भवतः ।
महते जयाय मघवन्ननघः पुरुषस्तपस्यति तपज्जगतीं॥ ६.३१॥
स बिभर्ति भीषणभुजंगभुजः पृथि विद्विषां भयविधायि धनुः ।
अमलेन तस्य धृतसच्चरिताश्चरितेन चातिशयिता मुनयः ॥६.३२॥
मरुतः शिवा नवतृणा जगती विमलं नभो रजसि वृष्टिरपां ।
गुणसम्पदानुगुणतां गमितः कुरुतेऽस्य भक्तिं इव भूतगणः ॥६.३३॥
इतरेतरानभिभवेन मृगास्तं उपासते गुरुं इवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये परवान्स तेन भवतेव नगः ॥६.३४॥
उरु सत्त्वं आह विपरिश्रमता परमं वपुः प्रथयतीव जयं ।
शमिनोऽपि तस्य नवसंगमने विभुतानुषङ्गि भयं एति जनः ॥६.३५॥
ऋषिवंशजः स यदि दैत्यकुले यदि वान्वये महति भूमिभृतां ।
चरतस्तपस्तव वनेषु सदा न वयं निरूपयितुं अस्य गतिं॥ ६.३६॥
विगणय्य कारणं अनेकगुणं निजयाथवा कथितं अल्पतया ।
असदप्यदः सहितुं अर्हति नः क्व वनेचराः क्व निपुणा मतयः ॥६.३७॥
अधिगम्य गुह्यकगणादिति तन्मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षं उदितं मघवा नयवर्त्मगाः प्रभवतां हि धियः ॥६.३८॥
प्रणिधाय चित्तं अथ भक्ततया विदितेऽप्यपूर्व इव तत्र हरिः ।
उपलब्धुं अस्य नियमस्थिरतां सुरसुन्दरीरिति वचोऽभिदधे ॥६.३९॥
सुकुमारं एकं अणु मर्मभिदां अतिदूरगं युतं अमोघतया ।
अविपक्षं अस्त्रं अपरं कतमद्विजयाय यूयं इव चित्तभुवः ॥६.४०॥
भववीतये हतबृहत्तमसां अवबोधवारि रजसः शमनं ।
परिपीयमाणं इव वोऽसकलैरवसादं एति नयनाञ्जलिभिः ॥६.४१॥
बहुधा गतां जगति भूतसृजा कमनीयतां समभिहृत्य पुरा ।
उपपादिता विदधता भवतीः सुरसद्मयानसुमुखी जनता ॥६.४२॥
तदुपेत्य विघ्नयत तस्य तपः कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः सुखसङ्गिनं प्रति सुखावजितिः ॥६.४३॥
अविमृष्यं एतदभिलष्यति स द्विषतां वधेन विषयाभिरतिं ।
भववीतये न हि तथा स विधिः क्व शरासनं क्व च विमुक्तिपथः ॥६.४४॥
पृथुदाम्नि तत्र परिबोधि च मा भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतां अवतां न वधूष्वघानि विमृष्यन्ति धियः ॥६.४५॥
आशंसितापचितिचारु पुरः सुराणां आदेशं इत्यभिमुखं समवाप्य भर्तुः ।
लेभे परां द्युतिं अमर्त्यवधूसमूहः सम्भावना ह्यधिकृतस्य तनोति तेजः ॥६.४६॥
प्रणतिं अथ विधाय प्रस्थिताः सद्मनस्ताः स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव स्तिमितं अमरभर्तुर्द्रष्टुं अक्ष्णां सहस्रं॥ ६.४७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP