किरातार्जुनीयम्‌ - प्रसंग ७

'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि  पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.


श्रीमद्भिः सरथगजैः सुराङ्गनानां गुप्तानां अथ सचिवैस्त्रिलोकभर्तुः ।
संमूर्छन्नलघुविमानरन्ध्रभिन्नः प्रस्थानं समभिदधे मृदङ्गनादः ॥७.१॥

सोत्कण्ठैरमरगणैरनुप्रकीर्णान्निर्याय ज्वलितरुचः पुरान्मघोनः ।
रामाणां उपरि विवस्वतः स्थितानां नासेदे चरितगुणत्वं आतपत्रैः ॥७.२॥

धूतानां अभिमुखपातिभिः समीरैरायासादविशदलोचनोत्पलानां ।
आनिन्ये मदजनितां श्रियं वधूनां उष्णांशुद्युतिजनितः कपोलरागः ॥७.३॥

तिष्ठद्भिः कथं अपि देवतानुभावादाकृष्टैः प्रजविभिरायतं तुरङ्गैः ।
नेमीनां असति विवर्तनई रथौघैरासेदे वियति विमानवत्प्रवृत्तिः ॥७.४॥

कान्तानां कृतपुलकः स्तनाङ्गरागे वक्त्रेषु च्युततिलकेषु मौक्तिकाभस् ।
सम्पेदे श्रमसलिलोद्गमो विभूषा रम्याणां विकृतिरपि श्रियं तनोति ॥७.५॥

राजद्भिः पथि मरुतां अभिन्नरूपैरुल्कार्चिः स्फुटगतिभिर्ध्वजाङ्कुशानां ।
तेजोभिः कनकनिकाषराजिगौरैरायामः क्रियत इव स्म सातिरेकः ॥७.६॥

रामाणां अवजितमाल्यसौकुमार्ये सम्प्राप्ते वपुषि सहत्वं आतपस्य ।
गन्धर्वैरधिगतविस्मयैः प्रतीये कल्याणी विधिषु विचित्रता विधातुः ॥७.७॥

सिन्दूरैः कृतरुचयः सहेमकक्ष्याः स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः ।
सादृश्यं ययुररुणांशुरागभिन्नैर्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥७.८॥

अत्यर्थं दुरुपसदादुपेत्य दूरं पर्यन्तादहिममयूखमण्डलस्य ।
आशानां उपरचितां इवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर्बलानि ॥७.९॥

आमत्तभ्रमरकुलाकुलानि धुन्वन्नुद्भूतग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः संतापं विरमयति स्म मातरिश्वा ॥७.१०॥

सम्भिन्नैरिभतुरगावगाहनेन प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः ।
तत्पूर्वं प्रतिविदधे सुरापगाया वप्रान्तस्खलितविवर्तनं पयोभिः ॥७.११॥

क्रान्तानां ग्रहचरितात्पथो रथानां अक्षाग्रक्षतसुरवेश्मवेदिकानां ।
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः सम्पीडक्षुभितजलेषु तोयदेषु ॥७.१२॥

तप्तानां उपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।
युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥७.१३॥

संवाता मुहुरनिलेन नीयमाने दिव्यस्त्रीजघनवरांशुके विवृत्तिं ।
पर्यस्यत्पृथुमणिमेखलांशुजालं संजज्ञे युतकं इवान्तरीयं ऊर्वोः ॥७.१४॥

प्रत्यार्द्रीकृततिलकास्तुषारपातैः प्रह्लादं शमितपरिश्रमा दिशन्तः ।
कान्तानां बहुमतिं आययुः पयोदा नाल्पीयान्बहु सुकृतं हिनस्ति दोषः ॥७.१५॥

यातस्य ग्रथिततरङ्गसैकताभे विच्छेदं विपयसि वारिवाहजाले ।
आतेनुस्त्रिदशवधूजनाङ्गभाजां संधानं सुरधनुषः प्रभा मणीनां॥ ७.१६॥

संसिद्धाविति करणीयसंनिबद्धैरालापैः पिपतिषतां विलङ्घ्य वीथीं ।
आसेदे दशशतलोचनध्वजिन्या जीमूतैरपिहितसानुरिन्द्रकीलः ॥७.१७॥
आकीर्णा मुखनलिनैर्विलासिनीनां उद्भूतस्फुटविशदातपत्रफेना ।
सा तूर्यध्वनितगभीरं आपतन्ती भूभर्तुः शिरसि नभोनदीव रेजे ॥७.१८॥

सेतुत्वं दधति पय्ॐउचां विताने संरम्भादभिपततो रथाञ्जवेन ।
आनिन्युर्नियमितरश्मिभुग्नघोणाः कृच्छ्रेण क्षितिं अवनामितस्तुरङ्गाः ॥७.१९॥

माहेन्द्रं नगं अभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।
सादृश्यं निलयननिष्प्रकम्पपक्षैराजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः ॥७.२०॥

उत्सङ्गे समविषमे समं महाद्रेः क्रान्तानां वियदभिपातलाघवेन ।
आ मूलादुपनदि सैकतेषु लेभे सामग्री खुरपदवी तुरङ्गमाणां॥ ७.२१॥

सध्वानं निपतितनिर्झरासु मन्द्रैः संमूर्छन्प्रतिनिनदैरधित्यकासु ।
उद्ग्रीवैर्घनरवशङ्कया मयूरैः सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानां॥ ७.२२॥

सम्भिन्नां अविरलपातिभिर्मयूखैर्नीलानां भृशं उपमेखलं मणीनां ।
विच्छिनां इव वनिता नभोन्तराले वप्राम्भःस्रुतिं अवलोकयांबभूवुः ॥७.२३॥

आसन्नद्विपपदवीमदानिलाय क्रुध्यन्तो धियं अवमत्य धूर्गतानां ।
सव्याजं निजकरिणीभिरात्तचित्ताः प्रस्थानं सुरकरिणः कथंचिदीषुः ॥७.२४॥

नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं पर्यस्यन्नवसलिलारुणं वहन्ती ।
आतेने वनगहनानि वाहिनी सा घर्मान्तक्षुभितजलेव जह्नुकन्या ॥७.२५॥

सम्भोगक्षमगहनां अथोपगङ्गं बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश्च्युतकुसुमाचितां सहाया वृत्रारेरविरलशाद्वलां धरित्रीं॥ ७.२६॥

भूभर्तुः समधिकं आदधे तदोर्व्याः श्रीमत्तां हरिसखवाहिनीनिवेशः ।
संसक्तौ किं असुलभं महोदयानां उच्छ्रायं नयति यदृच्छयापि योगः ॥७.२७॥

सामोदाः कुसुमतरुश्रियो विविक्ताः सम्पत्तिः किसलयशालिनीलतानां ।
साफल्यं ययुरमराङ्गनोपभुक्ताः सा लक्ष्मीरुपकुरुते यया परेषां॥ ७.२८॥

क्लान्तोऽपि त्रिदशवधूजनः पुरस्ताल्लीनाहिश्वसितविलोलपल्लवानां ।
सेव्यानां हतविनयैरिवावृतानां सम्पर्कं परिहरति स्म चन्दनानां॥ ७.२९॥

उत्सृष्टध्वजकुथकङ्कटा धरित्रीं आनीता विदितनयैः श्रमं विनेतुं ।
आक्षिप्तद्रुमगहना युगान्तवातैः पर्यस्ता गिरय इव द्विपा विरेजुः ॥७.३०॥

प्रस्थानश्रमजनितां विहाय निद्रां आमुक्ते गजपतिना सदानपङ्के ।
शय्यान्ते कुलमलिनां क्षणं विलीनं संरम्भच्युतं इव शृङ्खलं चकाशे ॥७.३१॥

आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन्यन्तारं न विगणयांचकार नागः ॥७.३२॥

आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण ।
संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥७.३३॥

आघ्राय क्षणं अतितृष्यतापि रोषादुत्तीरं निहितविवृत्तलोचनेन ।
सम्पृक्तं वनकरिनां मदाम्बुसेकैर्नाचेमे हिमं अपि वारि वारणेन ॥७.३४॥

प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।
किञ्जल्कव्यवहितताम्रदानलेखैरुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥७.३५॥

आकीर्णं बलरजसा घनारुणेन प्रक्षोभैः सपदि तरङ्गितं तटेषु ।
मातङ्गोन्मथितसरोजरेणुपिङ्गं माञ्जिष्ठं वसनं इवाम्बु निर्बभासे ॥७.३६॥

श्रीमद्भिर्नियमितकन्धरापरान्तैः संसक्तैरगुरुवनेषु साङ्गहारं ।
सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः प्रस्यन्दिप्रचलितगण्डशैलशोभा ॥७.३७॥

निःशेषं प्रशमितरेणु वारणानां स्रोतोभिर्मदजलं उज्झतां अजस्रं ।
आमोदं व्यवहितभूरिपुष्पगन्धो भिन्नैलासुरभिं उवाह गन्धवाहः ॥७.३८॥

सादृश्यं दधति गभीरमेघघोषैरुन्निद्रक्षुभितमृगाधिपश्रुतानि ।
आतेनुश्चकितचकोरनीलकण्ठान्कच्छान्तानमरमहेभबृंहितानि ॥७.३९॥

सास्रावसक्तकमनियपरिच्छदानां अध्वश्रमातुरवधूजनसेवितानां ।
जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानां॥ ७.४०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP