किरातार्जुनीयम् - प्रसंग १५
'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.
अथ भूतानि वार्त्रघ्न- शरेभ्यस्तत्र तत्रसुः ।
भेजे दिशः परित्यक्त- महेष्वासा च सा चमूः ॥१५.१॥
अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यतीव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥१५.२॥
खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्वानरं नरं॥ १५.३॥
आस्थां आलम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिं आयाति महतां माहात्म्यं अनुकम्पया ॥१५.४॥
स सासिः सासुसूः सासो येयायेयाययाययः ।
ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन्॥ १५.५॥
त्रासजिह्मं यतश्चैतान्मन्दं एवान्वियाय सः ।
नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः ॥१५.६॥
अथाग्रे हसता साचि- स्थितेन स्थिरकीर्तिना ।
सेनान्या ते जगदिरे किंचिदायस्तचेतसा ॥१५.७॥
मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥१५.८॥
विवस्वदंशुसंश्लेष- द्विगुणीकृततेजसः ।
अमी वो मोघं उद्गूर्णा हसन्तीव महासयः ॥१५.९॥
वनेऽवने वनसदां मार्गं मार्गं उपेयुषां ।
वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥१५.१०॥
पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।
गुर्वीं कां आपदं हन्तुं कृतं आवृत्तिसाहसं॥ १५.११॥
नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥१५.१२॥
मन्दं अस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥१५.१३॥
न नोननुन्नोऽनुन्नेनो न ना नानानना ननु ।
नुन्नोऽनुन्नो न नुन्नेनो नानेनानुन्ननुन्न नुथ् ॥१५.१४॥
वरं कृतध्वस्तगुणादत्यन्तं अगुणः पुमान् ।
प्रकृत्या ह्यमणिः श्रेयान्नालंकारश्च्युतोपलः ॥१५.१५॥
स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः ।
स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥१५.१६॥
भवद्भिरधुनाराति- परिहापितपौरुषैः ।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्सहः ॥१५.१७॥
वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किंतया ॥१५.१८॥
अयं वः क्लैब्यं आपन्नान्दृष्टपृष्ठानरातिना ।
इच्छतीशश्च्युताचारान्दारानिव निगोपितुं॥ १५.१९॥
ननु हो मथना राघो घोरा नाथमहो नु न ।
तयदातवदा भीमा माभीदा बत दायत ॥१५.२०॥
किं त्यक्तापास्तदेवत्व- मानुष्यकपरिग्रहैः ।
ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मान्यता ॥१५.२१॥
निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥१५.२२॥
तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥१५.२३॥
निर्भिन्नपातिताश्वीय- निरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूत- रुधिराम्बुनदाकुले ॥१५.२४॥
देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥१५.२५॥
प्रनृत्तशववित्रस्त- तुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीर- विक्रुष्टहतसादिनि ॥१५.२६॥
ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वं अकर्षति ॥१५.२७॥
आसुरे लोकवित्रास- विधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तं इह पौरुषं॥ १५.२८॥
इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किंचित्तत्र तस्थेऽन्धकारिणा ॥१५.२९॥
मुनीषुदहनातप्तांल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना ॥१५.३०॥
दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शंकरं तत्र शंकरं॥ १५.३१॥
महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारं इवेशानं आशश्वास पताकिनी ॥१५.३२॥
स बभार रणापेतां चमूं पश्चादवस्थितां ।
पुरः सूर्यादुपावृत्तां छायां इव महातरुः ॥१५.३३॥
मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥१५.३४॥
तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥१५.३५॥
परिमोहयमाणेन शिक्षालाघवलीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥१५.३६॥
अवद्यन्पत्रिणः शम्भोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥१५.३७॥
चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥१५.३८॥
स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः ।
धृतोल्कानलयोगेन तुल्यं अंशुमता बभौ ॥१५.३९॥
पार्थबाणाः पशुपतेरावव्रुर्विशिखावलिं ।
पय्ॐउच इवारन्ध्राः सावित्रीं अंशुसंहतिं॥ १५.४०॥
शरवृष्टिं विधूयोर्वीं उदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥१५.४१॥
तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥१५.४२॥
द्युवियद्गामिनी तार- संरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतां इव संहतिः ॥१५.४३॥
विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यं समाश्रित्य न चकम्पे कपिध्वजः ॥१५.४४॥
जगतीशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षीकृताशंसो नागराज इवाबभौ ॥१५.४५॥
विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना ।
गाण्डीवधन्वनः खेभ्यो निश्चचार हुताशनः ॥१५.४६॥
स पिशङ्गजटावलिः किरन्नुरुतेजः परमेण मन्युना ।
ज्वलितौषधिजातवेदसा हिमशैलेन समं विदिद्युते ॥१५.४७॥
शतशो विशिखानवद्यते भृशं अस्मै रणवेगशालिने ।
प्रथयन्ननिवार्यवीर्यतां प्रजिगायेषुं अघातुकं शिवः ॥१५.४८॥
शम्भो धनुर्मण्डलतः प्रवृत्तं तं मण्डलादंशुं इवांशुभर्तुः ।
निवारयिष्यन्विदधे सिताश्वः शिलीमुखच्छायवृतां धरित्रीं॥ १५.४९॥
घनं विदार्यार्जुनबाणपूगं ससारबाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं ससार बाणोऽयुगलोचनस्य ॥१५.५०॥
रुजन्परेषून्बहुधाशुपातिनो मुहुः शरौघैरपवारयन्दिशः ।
चलाचलोऽनेक इव क्रियावशान्महर्षिसंघैर्बुबुधे धनंजयः ॥१५.५१॥
विकाशं ईयुर्जगतीशमार्गणा विकाशं ईयुर्जगतीशमार्गणाः ।
विकाशं ईयुर्जगतीशमार्गणा विकाशं ईयुर्जगतीशमार्गणाः ॥१५.५२॥
सम्पश्यतां इति शिवेन वितायमानं लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यं ।
अङ्गान्यभिन्नं अपि तत्त्वविदां मुनीनां र्ॐआञ्चं अञ्चिततरं बिभराम्बभूवुः ॥१५.५३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP