किरातार्जुनीयम् - प्रसंग ८
'किरातार्जुनीयम्' प्रसिद्ध प्राचीन संस्कृत ग्रंथांपैकी एक होय. या काव्याचे रचनाकार महाकवि भारवी होत. किरातरूपधारी शिव आणि पांडु पुत्र अर्जुन यांच्यातील धनुर्युद्ध आणि वार्तालाप यावर आधारित हे काव्य आहे.
अथ स्वमायाकृतमन्दिरोज्ज्वलं ज्वलन्मणि व्य्ॐअसदां सनातनं ।
सुराङ्गना गोपतिचापगोपुरं पुरं वनानां विजिहीर्षया जहुः ॥८.१॥
यथायथं ताः सहिता नभश्चरैः प्रभाभिरुद्भासितशैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः क्षणद्युतीनां दधुरेकरूपतां॥ ८.२॥
निवृत्तवृत्तोरुपयोधरक्लमः प्रवृत्तैनिर्ह्रादिविभूषणारवः ।
नितम्बिनीनां भृशं आदधे धृतिं नभःप्रयाणादवनौ परिक्रमः ॥८.३॥
घनानि कामं कुसुमानि बिभ्रतः करप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनैर्यथोत्तरेच्छा हि गुणेषु कामिनः ॥८.४॥
तनूरलक्तारुणपाणिपल्लवाः स्फुरन्नखांशूत्करमञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो विलेपनामोदहृताः सिषेविरे ॥८.५॥
निपीयमानस्तबका शिलीमुखैरशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनैरमन्ददष्टौष्ठकरावधूननं॥ ८.६॥
करौ धुनाना नवपल्लवाकृती वृथा कृथा मानिनि मा परिश्रमं ।
उपेयुषी कल्पलताभिशङ्कया कथं न्वितस्त्रस्यति षट्पदावलिः ॥८.७॥
जहीहि कोपं दयितोऽनुगम्यतां पुरानुशेते तव चञ्चलं मनः ।
इति प्रियं कांचिदुपैतुं इच्छतीं पुरोऽनुनिन्ये निपुणः सखीजनः ॥८.८॥
समुन्नतैः काशदुकूलशालिभिः परिक्वणत्सारसपङ्क्तिमेखलैः ।
प्रतीरदेशैः स्वकलत्रचारुभिर्विभूषिताः कुञ्जसमुद्रयोषितः ॥८.९॥
विदूरपातेन भिदां उपेयुषश्च्युताः प्रवाहादभितः प्रसारिणः ।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो वनप्रहासा इव वारिबिन्दवः ॥८.१०॥
सखीजनं प्रेम गुरूकृतादरं निरीक्षमाणा इव नम्रमूर्तयः ।
स्थिरद्विरेफाञ्जनशरितोदरैर्विसारिभिः पुष्पविलोचनैर्लताः ॥८.११॥
उपेयुषीणां बृहतीरधित्यका मनांसि जह्रुः सुरराजयोषितां ।
कपोलकाषैः करिणां मदारुणैरुपाहितश्यामरुचश्च चन्दनाः ॥८.१२॥
स्वगोचरे सत्यपि वित्तहारिणा विलोभ्यमानाः प्रसवेन शाखिनां ।
नभश्चराणां उपकर्तुं इच्छतां प्रियाणि चक्रुः प्रणयेन योषितः ॥८.१३॥
प्रयच्छतोच्चैः कुसुमानि मानिनी विपक्षगोत्रं दयितेन लम्भिता ।
न किंचिदूचे चरणेन केवलं लिलेख बाष्पाकुललोचना भुवं॥ ८.१४॥
प्रियेऽपरा यच्छति वाचं उन्मुखी निबद्धदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकं आहितं वृथा विवेद पुष्पेषु न पाणिपल्लवं॥ ८.१५॥
सलीलं आसक्तलतान्तभूषणं समासजन्त्या कुसुमावतंसकं ।
स्तनोपपीडं नुनुदे नितम्बिना घनेन कश्चिज्जघनेन कान्तया ॥८.१६॥
कलत्रभारेण विलोलनीविना गलद्दुकूलस्तनशालिनोरसा ।
बलिव्यपायस्फुटर्ॐअराजिना निरायतत्वादुदरेण ताम्यता ॥८.१७॥
विलम्बमानाकुलकेशपाशया कयाचिदाविष्कृतबाहुमूलया ।
तरुप्रसूनान्यपदिश्य सादरं मनोधिनाथस्य मनः समाददे ॥८.१८॥
व्यपोहितुं लोचनतो मुखानिलैरपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः प्रियं जघानोन्नतपीवरस्तनी ॥८.१९॥
इमान्यमूनीत्यपवर्जिते शनैर्यथाभिरामं कुसुमाग्रपल्लवे ।
विहाय निःसारतयेव भूरुहान्पदं वनश्रीर्वनितासु संदधे ॥८.२०॥
प्रवालभङ्गारुणपाणिपल्लवः परागपाण्डूकृतपीवरस्तनः ।
महीरुहः पुष्पसुगन्धिराददे वपुर्गुणोच्छ्रायं इवाङ्गनाजनः ॥८.२१॥
वरोरुभिर्वारणहस्तपीवरैश्चिराय खिन्नान्नवपल्लवश्रियः ।
समेऽपि यातुं चरणाननीश्वरान्मदादिव प्रस्खलतः पदे पदे ॥८.२२॥
विसारिकाञ्चीमणिरश्मिलब्धया मनोहरोच्छायनितम्बशोभया ।
स्थितानि जित्वा नवसैकतद्युतिं श्रमातिरिक्तैर्जघनानि गौरवैः ॥८.२३॥
समुच्छ्वसत्पङ्कजकोशक्ॐअलैरुपाहितश्रीण्युपनीवि नाभिभिः ।
दधन्ति मध्येषु वलीविभङ्गिषु स्तनातिभारादुदराणि नम्रतां॥ ८.२४॥
समानकान्तीनि तुषारभूषणैः सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः ।
चितानि घर्माम्बुकणैः समन्ततो मुखान्यनुत्फुल्लविलोचनानि च ॥८.२५॥
विनिर्यतीनां गुरुस्वेदमन्थरं सुराङ्गनानां अनुसानुवर्त्मनः ।
सविस्मयं रूपयतो नभश्चरान्विवेश तत्पूर्वं इवेक्षणादरः ॥८.२६॥
अथ स्फुरन्मीनविधूतपङ्कजा विपङ्कतीरस्खलितोर्मिसंहतिः ।
पयोऽवगाढुं कलहंसनादिनी समाजुहावेव वधूः सुरापगा ॥८.२७॥
प्रशान्तघर्माभिभवः शनैर्विवान्विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बं इवात्तशीकरस्तरङ्गमालान्तरगोचरोऽनिलः ॥८.२८॥
गतैः सहावैः कलहंसविक्रमं कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः सुरस्त्रियः साम्यगुणान्निरासिरे ॥८.२९॥
विभिन्नपर्यन्तगमीनपङ्क्तयः पुरो विगाढाः सखिभिर्मरुत्वतः ।
कथंचिदापः सुरसुन्दरीजनैः सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥८.३०॥
विगाढमात्रे रमणीभिरम्भसि प्रयत्नसंवाहितपीवरोरुभिः ।
विभिद्यमाना विससार सारसानुदस्य तीरेषु तरङ्गसंहतिः ॥८.३१॥
शिलाघनैर्नाकसदां उरःस्थलैर्बृहन्निवेशैश्च वधूपयोधरैः ।
तटाभिनीतेन विभिन्नवीचिना रुषेव भेजे कलुषत्वं अम्भसा ॥८.३२॥
विधूतकेशाः परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः प्रकम्पं ईयुः सभया इवोर्मयः ॥८.३३॥
विपक्षचित्तोन्मथना नखव्रणास्तिरोहिता विभ्रममण्डनेन ये ।
हृतस्य शेषानिव कुङ्कुमस्य तान्विकत्थनीयान्दधुरन्यथा स्त्रियः ॥८.३४॥
सरोजपत्त्रे नु विलीनषट्पदे विलोलदृष्टेः स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसन्ततेर्द्विरेफवृन्दं नु निशब्दनिश्चलं॥ ८.३५॥
अगूढहासस्फुटदन्तकेसरं मुखं स्विदेतद्विकसन्नु पङ्कजं ।
इति प्रलीनां नलिनीवने सखीं विदांबभूवुः सुचिरेण योषितः ॥८.३६॥
प्रियेण संग्रथ्य विपक्षसंनिधावुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥८.३७॥
असंशयं न्यस्तं उपान्तरक्ततां यदेव रोद्धुं रमणीभिरञ्जनं ।
हृतेऽपि तस्मिन्सलिलेन शुक्लतां निरास रागो नयनेषु न श्रियं॥ ८.३८॥
द्युतिं वहन्तो वनितावतंसका हृताः प्रलोभादिव वेगिभिर्जलैः ।
उपप्लुतास्तत्क्षणशोचनीयतां च्युताधिकाराः सचिवा इवाययुः ॥८.३९॥
विपत्त्रलेखा निरलक्तकाधरा निरञ्जनाक्षीरपि बिभ्रतीः श्रियं ।
निरीक्ष्य रामा बुबुधे नभश्चरैरलंकृतं तद्वपुषैव मण्डनं॥ ८.४०॥
तथा न पूर्वं कृतभूषणादरः प्रियानुरागेण विलासिनीजनः ।
यथा जलार्द्रो नखमण्डनश्रिया ददाह दृष्टीश्च विपक्षयोषितां॥ ८.४१॥
शुभाननाः साम्बुरुहेषु भीरवो विलोलहाराश्चलफेनपङ्क्तिषु ।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं न लेभिरे ताः परभागं ऊर्मिषु ॥८.४२॥
ह्रदाम्भसि व्यस्तवधूकराहते रवं मृदङ्गध्वनिधीरं उज्झति ।
मुहुस्तनैस्तालस्समं समाददे मनोरमं नृत्यं इव प्रवेपितं॥ ८.४३॥
श्रिया हसद्भिः कलमानि सस्मितैरलंकृताम्बुः प्रतिमागतैर्मुखैः ।
कृतानुकूल्या सुरराजयोषितां प्रसादसाफल्यं अवाप जाह्वनी ॥८.४४॥
परिस्फुरन्मीनविघट्टितोरवः सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः सखीजनस्यापि विलोकनीयतां॥ ८.४५॥
भयादिवाश्लिष्य झषाहतेऽम्भसि प्रियं मुदानन्दयति स्म मानिनी ।
अकृत्रिमप्रेमरसाहितैर्मनो हरन्ति रामाः कृतकैरपीहितैः ॥८.४६॥
तिरोहितान्तानि नितान्तं आकुलैरपां विगाहादलकैः प्रसारिभिः ।
ययुर्वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥८.४७॥
करौ धुनाना नवपल्लवाकृती पयस्यगाधे किल जातसम्भ्रमा ।
सखीषु निर्वाच्यं अधार्ष्ठ्यदूषितं प्रियाङ्गसंश्लेषं अवाप मानिनी ॥८.४८॥
प्रियैः सलीलं करवारिवारितः प्रवृद्धनिःश्वासविकम्पितस्तनः ।
सविभ्रमाधूतकराग्रपल्लवो यथार्थतां आप विलासिनीजनः ॥८.४९॥
उदस्य धैर्यं दयितेन सादरं प्रसादितायाः करवारिवारितं ।
मुखं निमीलन्नयनं नतभ्रुवः श्रियं सपत्नीवदनादिवाददे ॥८.५०॥
विहस्य पाणौ विधृते धृताम्भसि प्रियेण वध्वा मदनार्द्रचेतसः ।
सखीव काञ्ची पयसा घनीकृता बभार वीतोच्चयबन्धं अंशुकं॥ ८.५१॥
निरञ्जने साचिविलोकितं दृशावयावकं वेपथुरोष्ठपल्लवं ।
नतभ्रुवो मण्डयदि स्म विग्रहे बलिक्रिया चातिलकं तदास्पदं॥ ८.५२॥
निमीलदाकेकरलोचचक्षुषां प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनः श्रमो नु तासां मदनो नु पप्रथे ॥८.५३॥
प्रियेण सिक्ता चरमं विपक्षतश्चुकोप काचिन्न तुतोष सान्त्वनैः ।
जनस्य रूढप्रणयस्य चेतसः किं अप्यमर्षोऽनुनये भृशायते ॥८.५४॥
इत्थं विहृत्य वनिताभिरुदस्यमानं पीनस्तनोरुजघनस्थलशालिनीभिः ।
उत्सर्पितोर्मिचयलङ्घिततीरदेशं औत्सुक्यनुन्नं इव वारि पुरः प्रतस्थे ॥८.५५॥
तीरान्तराणि मिथुनानि रथाङ्गनाम्नां नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारास्तारावितानतरला इव यामवत्यः ॥८.५६॥
संक्रान्तचन्दनरसाहितवर्णभेदं विच्छिन्नभूषणमणिप्रकरांशुचित्रं ।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं सिन्धोर्बभार सलिलं शयनीयलक्ष्मीं॥ ८.५७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP