संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|विष्णुस्मृतिः|
अध्यायः ३

विष्णुस्मृतिः - अध्यायः ३

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


अथ राजधर्माः ॥३.१॥

प्रजापरिपालनं ॥३.२॥

वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनं ॥३.३॥

राजा च जाङ्गलं पशव्यं सस्योपेतं देशं आश्रयेत् ॥३.४॥

वैश्यशूद्रप्रायं च ॥३.५॥

तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणां अन्यतमं दुर्गं आश्रयेत् ॥३.६॥

तत्रस्थश्च स्वस्वग्रामाधिपान्कुर्यात् ॥३.७॥

दशाध्यक्षान् ॥३.८॥

शताध्यक्षान् ॥३.९॥

देशाध्यक्षांश्च ॥३.१०॥

ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात् ॥३.११॥

अशक्तो दशग्रामाध्यक्षाय निवेदयेत् ॥३.१२॥

सोऽप्यशक्तः शताध्यक्षाय ॥३.१३॥

सोऽप्यशक्तो देशाध्यक्षाय ॥३.१४॥

देशाध्यक्षोऽपि सर्वात्मना दोषं उच्छिन्द्यात् ॥३.१५॥

आकरशुल्कतरनागवनेश्वाप्तान्नियुञ्जीत ॥३.१६॥

धर्मिष्ठान्धर्मकार्येषु ॥३.१७॥

निपुणानर्थकार्येषु ॥३.१८॥

शूरान्संग्रामकर्मसु ॥३.१९॥

उग्रानुग्रेषु ॥३.२०॥

षण्ढान्स्त्रीषु ॥३.२१॥

प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः षष्ठं अंशं आदद्यात् ॥३.२२॥

सर्वसस्येभ्यश्च ॥३.२३॥

द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च ॥३.२४॥

मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैदलेभ्यः षाष्ठभागं राजा ॥३.२५॥

ब्राह्मणेभ्यः करादानं न कुर्यात् ॥३.२६॥

ते हि राज्ञो धर्मकराः ॥३.२७॥

राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् ॥३.२८॥

स्वदेशपण्याच्च शुल्कांशं दशमं आदद्यात् ॥३.२९॥

परदेशपण्याच्च विंशतितमं ॥३.३०॥

शुल्कस्थानादपाक्रामन्सर्वापहारं आप्नुयात् ॥३.३१॥

शिल्पिनः कर्मजीविनश्च मासेनैकं राज्ञः कर्म कुर्युः ॥३.३२॥

स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः ॥३.३३॥

तद्दूषकांश्च हन्यात् ॥३.३४॥

स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः स्यात् ॥३.३५॥

साधूनां पूजनं कुर्यात् ॥३.३६॥

दुष्टांश्च हन्यात् ॥३.३७॥

शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान्यथार्हम् यथाकालं प्रयुञ्जीत ॥३.३८॥

संधिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालं आश्रयेत् ॥३.३९॥

चैत्रे मार्गशीर्षे वा यात्रां यायात् ॥३.४०॥

परस्य व्यसने वा ॥३.४१॥

परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् ॥३.४२॥

परेणाभियुक्तश्च सर्वात्मना स्वराष्ट्रं गोपायेत् ॥३.४३॥

नास्ति राज्ञां समरे तनुत्यागसदृशो धर्मः ॥३.४४॥

गोब्राह्मणनृपमित्रधनदारजीवितरक्षणात्ये हतास्ते स्वर्गलोकभाजः ॥३.४५॥

वर्णसंकररक्षणार्थं च ॥३.४६॥

राजा परपुरावाप्तौ तत्र तत्कुलीनं अभिषिञ्चेत् ॥३.४७॥

न राजकुलं उच्छिन्द्यात् ॥३.४८॥

अन्यत्राकुलीनराजकुलात् ॥३.४९॥

मृगयाक्षस्त्रीपानाभिरतिं परिहरेत् ॥३.५०॥

वाक्पारुष्यदण्डपारुष्ये च ॥३.५१॥

नार्थदूषणं कुर्यात् ॥३.५२॥

आद्यद्वाराणि नोच्छिन्द्यात् ॥३.५३॥

नापात्रवर्षी स्यात् ॥३.५४॥

आकरेभ्यः सर्वं आदद्यात् ॥३.५५॥

निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् ॥३.५६॥

द्वितीयं अर्धं कोशे प्रवेशयेत् ॥३.५७॥

निधिं ब्राह्मणो लब्ध्वा सर्वं आदद्यात् ॥३.५८॥

क्षत्रियश्चतुर्थं अंशं राज्ञे दद्यात्, चतुर्थं अंशं ब्राह्मणेभ्यः, अर्धं आदद्यात् ॥३.५९॥

वैष्यस्तु चतुर्थं अंशं राज्ञे दद्यात्, ब्राह्मणेभ्योऽर्धं, चतुर्थं अंशं आदद्यात् ॥३.६०॥

शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान्राज्ञे दद्यात्, पञ्चांशान्ब्राह्मणेभ्यः, अंशद्वयं आदद्यात् ॥३.६१॥

अनिवेदितविज्ञातस्य सर्वं अपहरेत् ॥३.६२॥

स्वनिहिताद्राज्ञे ब्राह्मणवर्जं द्वादशं अंशं दद्युः ॥३.६३॥

परनिहितं स्वनिहितं इति ब्रुवंस्तत्समं दण्डं आवहेत् ॥३.६४॥

बालानाथस्त्रीधनानि राजा परिपालयेत् ॥३.६५॥

चौरहृतं धनं अवाप्य सर्वं एव सर्ववर्णेभ्यो दद्यात् ॥३.६६॥

अनवाप्य च स्वकोशादेव दद्यात् ॥३.६७॥

शान्तिस्वस्त्ययनोपायैर्दैवोपघातान्प्रशमयेत् ॥३.६८॥

परचक्रोपघातांश्च शस्त्रनित्यतया ॥३.६९॥

वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनं अव्यङ्गं तपस्विनं पुरोहितं च वरयेत् ॥३.७०॥

शुचीनलुब्धानवहितान्शक्तिसंपन्नान्सर्वार्थेषु च सहायान् ॥३.७१॥

स्वयं एव व्यवहारान्पश्येद्विद्वद्भिर्ब्राह्मणैः सार्धं ॥३.७२॥

व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात् ॥३.७३॥

जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्याः, रिपौ मित्रे च ये समाः, कामक्रोधभयलोभादिभिः कार्यार्थभिरनाहार्याः ॥३.७४॥

राजा च सर्वकार्येषु सांवत्सराधीनः स्यात् ॥३.७५॥

देवब्राह्मणान्सततं एव पूजयेत् ॥३.७६॥

वृद्धसेवी भवेत् ॥३.७७॥

यज्ञयाजी च ॥३.७८॥

न चास्य विषये ब्राह्मणः क्षुधार्तोऽवसीदेत् ॥३.७९॥

न चान्योऽपि सत्कर्मनिरतः ॥३.८०॥

ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् ॥३.८१॥

येषां च प्रतिपादयेत्तेषां स्ववंश्यान्भुवः परिमाणं दानच्छेदोपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिविज्ञापनार्थं दद्यात् ॥३.८२॥

परदत्तां च भुवं नापहरेत् ॥३.८३॥

ब्राह्मणेभ्यः सर्वदायान्प्रयच्छेत् ॥३.८४॥

सर्वतस्त्वात्मानं गोपायेत् ॥३.८५॥

सुदर्शनश्च स्यात् ॥३.८६॥

विषघ्नागदमन्त्रधारी च ॥३.८७॥

नापरीक्षितं उपयुञ्ज्यात् ॥३.८८॥

स्मितपूर्वाभिभाषी स्यात् ॥३.८९॥

वध्येष्वपि न भ्रुंकुटीं आचरेत् ॥३.९०॥

अपराधानुरूपं च दण्डं दण्ड्येषु दापयेत् ॥३.९१॥

सम्यग्दण्डप्रणयनं कुर्यात् ॥३.९२॥

द्वितीयं अपराधं न स कस्यचित्क्षमेत ॥३.९३॥

स्वधर्मं अपालयन्नादण्ड्यो नामास्ति राज्ञां ॥३.९४॥

यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ।
प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति ॥३.९५॥

स्वराष्ट्रो न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः ॥३.९६॥

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥३.९७॥

प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः ।
स कीर्तियुक्तो लोकेऽस्मिन्प्रेत्य स्वर्गे महीयते ॥३.९८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP