विष्णुस्मृतिः - अध्यायः ६१
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अथ पालाशं दन्तधावनं नाद्यात् ॥६१.१॥
नैव श्लेष्मातकारिष्टविभीतकधवधन्वनजं ॥६१.२॥
न च बन्धूकनिर्गुण्डीशिग्रुतिल्वतिन्दुकजं ॥६१.३॥
न च कोविदारशमीपीलुपिप्पलेङ्गुदगुग्गुलुजं ॥६१.४॥
न पारिभद्रकाम्लिकामोचकशाल्मलीशणजं ॥६१.५॥
न मधुरं ॥६१.६॥
नाम्लं ॥६१.७॥
नोर्ध्वशुष्कं ॥६१.८॥
न सुषिरं ॥६१.९॥
न पूतिगन्धि ॥६१.१०॥
न पिच्छिलं ॥६१.११॥
न दक्षिणापराभिमुखः ॥६१.१२॥
अद्याच्चोदङ्मुखः प्राङ्मुखो वा ॥६१.१३॥
वटासनार्कखदिरकरञ्जबदरसर्जनिम्बारिमेदापामार्गमालतीककुभबिल्वानां अन्यतमं ॥६१.१४॥
कषायं तिक्तं कटुकं च ॥६१.१५॥
कनीन्यग्रसमस्थौल्यं सकूर्चं द्वादशाङ्गुलम् ।
प्रातर्भूत्वा च यतवाग्भक्षयेद्दन्तधावनम् ॥६१.१६॥
प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौ देशे प्रयत्नतः ।
अमावास्यां न चाश्नीयाद्दन्तकाष्ठं कदाचन ॥६१.१७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP