विष्णुस्मृतिः - अध्यायः १६
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
समानवर्णासु पुत्राः सवर्णा भवन्ति ॥१६.१॥
अनुलोमासु मातृसवर्णाः ॥१६.२॥
प्रतिलोमास्वार्यविगर्हिताः ॥१६.३॥
तत्र वैश्यापुत्रः शूद्रेणायोगवः ॥१६.४॥
पुल्कसमागधौ क्षत्रियापुत्रौ वैश्यशूद्राभ्यां ॥१६.५॥
चण्डालवैदेहकसूताश्च ब्राह्मणीपुत्राः शूद्रविट्क्षत्रियैः ॥१६.६॥
संकरसंकराश्चासंख्येयाः ॥१६.७॥
रङ्गावतरणं आयोगवानां ॥१६.८॥
व्याधता पुल्कसानां ॥१६.९॥
स्तुतिक्रिया मागधानां ॥१६.१०॥
वध्यघातित्वं चण्डालानां ॥१६.११॥
स्त्रीरक्सा तज्जीवनं च वैदेहकानां ॥१६.१२॥
अश्वसारथ्यं सूतानां ॥१६.१३॥
चण्डालानां बहिर्ग्रामनिवसनं मृतचैलधारणं इति विशेषः ॥१६.१४॥
सर्वेषां च समानजातिभिर्विवाहः ॥१६.१५॥
स्वपितृवित्तानुहरणं च ॥१६.१६॥
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥१६.१७॥
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः ।
स्त्रीबालाद्यवपत्तौ च बाह्यानां सिद्धिकारणम् ॥१६.१८॥
N/A
References : N/A
Last Updated : November 11, 2016
![Top](/portal/service/themes/silver/images/up.gif)
TOP