विष्णुस्मृतिः - अध्यायः ११
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अथाग्निः ॥११.१॥
षोडशाङ्गुलं तावदन्तरं मण्डलसप्तकं कुर्यात् ॥११.२॥
ततः प्राङ्मुखस्य प्रसारितभुजद्वयस्य सप्ताश्वत्थपत्राणि करयोर्दद्यात् ॥११.३॥
तानि च करद्वयसहितानि सूत्रेण वेष्टयेत् ॥११.४॥
ततस्तत्राग्निवर्णं लोहपिण्डं पञ्चाशत्पलिकं समं न्यसेत् ॥११.५॥
तं आदाय नातिद्रुतं नातिविलम्बितं मण्डलेषु पादन्यासं कुर्वन्व्रजेत् ॥११.६॥
ततः सप्तमं मण्डलं अतीत्य भूमौ लोहपिण्डं जह्यात् ॥११.७॥
यो हस्तयोः क्वचिद्दग्धस्तं अशुद्धं विनिर्दिषेत् ।
न दग्धः सर्वथा यस्तु स विशुद्धो भवेन्नरः ॥११.८॥
भयाद्वा पातयेद्यस्तु दग्धो वा न विभाव्यते ।
पुनस्तं हारयेल्लोहं समयस्याविशोधनात् ॥११.९॥
करौ विमृदितव्रीहेस्तस्यादावेव लक्षयेत् ।
अभिमन्त्र्यास्य करयोर्लोहपिण्डं ततो न्यसेत् ॥११.१०॥
त्वं अग्ने सर्वभूतानां अन्तश्चरसि साक्षिवत् ।
त्वं एवाग्ने विजानीषे न विदुर्यानि मानवाः ॥११.११॥
व्यवहाराभिशस्तोऽयं मानुषः शुद्धिं इच्छति ।
तदेनं संशयादस्माद्धर्मतस्त्रातुं अर्हसि ॥११.१२॥
N/A
References : N/A
Last Updated : November 11, 2016
![Top](/portal/service/themes/silver/images/up.gif)
TOP