विष्णुस्मृतिः - अध्यायः ६२
स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.
अथ द्विजातीनां कनीनिकामूले प्राजापत्यं नाम तीर्थं ॥६२.१॥
अङ्गुष्ठमूले ब्राह्मं ॥६२.२॥
अङ्गुल्यग्रे दैवं ॥६२.३॥
तर्जनीमूले पित्र्यं ॥६२.४॥
अनग्न्युष्णाभिरफेनिलाभिः अशूद्रैककरावर्जिताभिरक्षाराभिरद्भिः शुचौ देशे स्वासीनोऽन्तर्जानु प्राङ्मुखश्चोदङ्मुखो वा तन्मनाः सुमनाश्चाचामेत् ॥६२.५॥
ब्राह्मेण तीर्थेन त्रिराचामेत् ॥६२.६॥
द्विः प्रमृज्यात् ॥६२.७॥
खान्यद्भिर्मूर्धानं हृदयं स्पृशेत् ॥६२.८॥
हृत्कण्ठतालुगाभिश्च यथासंख्यं द्विजातयः ।
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः ॥६२.९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP