भावनाष्टकम् - अंगनामंगनामन्तरे विग्रहं ...
देवी देवतांची अष्टके आजारपण किंवा कांही घरगुती त्रास होत असल्यास घरीच देवासमोर म्हणण्याची ईश्वराची स्तुती होय.
Traditionally,the ashtakam is recited in homes, when some one has health or any domestic problems.
अंगनामंगनामन्तरे विग्रहं
कुण्डलोद्भासितं दिव्यकर्णद्वयम् ।
बिभृतं सुस्थितं योगपीठोत्तमे
सन्ततं भावये श्रीपतीशात्मजम् ॥१॥
मोहनीयाननं शृङ्गपर्वस्थितं
काननेषु प्रियावासमत्यद्भुतम् ।
दीनसंरक्षणकं वासवेनार्चितं
सन्ततं भावये श्रीपतीशात्मजम् ॥२॥
कोमळम् कुन्तळं स्निग्धमत्यद्भुतं
बिभृतं मोहनं नीलवर्णाञ्चितम् ।
कामदं निर्मलं भूतवृन्दावृतं
सन्ततं भावये श्रीपतीशात्मजम् ॥३॥
अंबरं दिव्यनीलद्युतिं शोभनं
अंबुवर्णोपमं गात्रशोभाकरम् ।
बिम्बमत्यद्भुताकारजं बिभृतं
सन्ततं भावये श्रीपतीशात्मजम् ॥४॥
वाहनं तुङ्गमश्वोत्तमं सुन्दरं
सैन्धवं संश्रितं विश्ववश्याकृतिम् ।
बान्धवं बन्धुहीनाश्रितं मोहनं
सन्ततं भावये श्रीपतीशात्मजम् ॥५॥
भासितं वक्षसा हारमुक्ताञ्चितं
देवदेवार्चितं केरळेसुस्थितम् ।
भूसुरैर्वन्दितं दिव्यपीठस्थितं
सन्ततं भावये श्रीपतीशात्मजम् ॥६॥
पावनं पङ्कजं दिव्यपादद्वयं
बिभृतं भक्तसंघ प्रशोभ्यंघ्रिकम् ।
कामदं मोक्षदं तारकं सादरं
सन्ततं भावये श्रीपतीशात्मजम् ॥७॥
विग्रहं मङ्गळं सर्वकामार्थदं
अग्रिमैर्वन्दितं दीनरक्षात्मकम् ।
भूषणैर्मण्डितं मालयाराजितं
सन्ततं भावये श्रीपतीशात्मजम् ॥८॥
इति भावनाष्टकं संपूर्णम् ॥
N/A
References : N/A
Last Updated : July 11, 2016
TOP