उल्लेखालंकारः - लक्षण १

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


विश्रान्तिं कामयन्ते रजनिरिति धिया भूतले सर्वलोका:कोका: क्तन्दन्ति शोकानलविकलतया किं च नन्दन्त्युलूका: ॥’

अत्र धूलिजालरूपस्यैकस्य वस्तुनोऽनेकैर्लेककोकोलूकैर्ग्रहीतृभिरेकेनैव रजनीत्वरूपेण प्रकारेण ग्रहणमिति तत्रातिप्रसड्रवारणायानेकप्रकारक-मिति । ग्रहणमिति ग्रहणसमुदायो विवक्षित: । एकत्वं जातौ । अनेक-गृहीतृकस्यैकस्य ग्रहणस्याप्रसिद्धे: । तेन द्वयोर्बहूनां वा ग्रहणं निमित्त-वशादिति तु वस्तुकथनमात्रम्‍ ।

उदाहरणम्‍-
‘ नरैर्वरगतिप्रदेत्यथ सुरै: स्वकीयापगे-त्युदारतरसिद्धिदेत्यखिलसिद्धसंघैरपि । हरेस्तनुरिति श्रिता मुनिमिरस्तसड्रैरियं तनोतु सम शं तनो: सपदि शन्तनोरड्रना ॥’

अत्र च लिप्सारुचिभ्यां निमित्ताभ्यामस्त्यनेकग्रहीतृकवरगतिप्रदा-त्वाद्यनेकप्रकारकग्रहणसमुदायो गड्राविषयकरतिभावो पस्कारक: । शुद्ध एवात्रायमुल्लेखालंकार: , रूपकाद्यमिश्रणात्‍ ।

संकीर्णोऽपि दृश्यते । यथा-
‘ आलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दा: । किं चालि पूर्णमृगलाञ्छनसंभ्रमेण चञ्चूपुटं चटुलयन्ति चिरं चकोरा: ॥ ’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP