उल्लेखालंकारः - लक्षण ६

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्रेदं बोध्यम्‍-प्रथमनिरूपितोल्लेखप्रकारे ‘ यं महाविष्णुरिति वैष्णवा:, शिव इति शैवा:, यज्ञुपुरुष इति याज्ञिका:, स्वभाव इति

लौकायतिका:, ब्रह्मेत्यौपनिषदा वदन्ति सो‍ऽयमादिपुरुषो हरि: ’ इत्यादौ तत्तद्‍ग्रहीतृकतत्तत्प्रकारकज्ञानसमुदायस चमत्कारजनकताया अनुभवसि-द्धत्वेनालंकारत्वम्‍ । द्वितीये तु प्रकारे ‘ य: शिष्टेषु सदयो दुष्टेषु कराल: ’ इत्यादौ तत्तद्विषयभेदभिन्नस्य प्रकारसमुदायमात्रस्य तथात्वम्‍ । न तु विद्यमानस्यापि ज्ञानांशस्य, चमत्कारित्वेनाननुभवात्‍ । चमत्कारनिबन्धनो ह्यंलकारभाव उपमादीनाम्‍ । अत एवास्माभि: विषयाद्यन्यतमानेकत्व-प्रयुक्तमेकस्य वस्तुनो‍ऽनेकप्रकारत्वम्‍ ’ इति द्वितीय उल्लेखो लक्षित: ।

एवं च ‘ लक्षणद्वयान्तातरत्वमुल्लेखसामान्यलक्षणतावच्छेदकम्‍’ इत्याहु: । परे तु ‘ प्रकारद्वयेऽपि वर्ण्यवृत्तित्वेन भासमानप्रकारसमुदाय एवोल्लेख: । ’ इत्यपि वदन्ति ।

अथोल्लेखस्य ध्वनि:-

यथा-

‘ अनल्पतापा: कृतकोटिपापा गदैकशीर्णा भवदु:खजीर्णा: । विलोक्य गड्रां विचलत्तरड्राममी समस्ता: सुखिनो भवन्ति ॥’

अत्र पूर्वार्धोदीरितानां चतुर्णां विलोकनकर्तृऋणां सुखित्वोक्त्या क्तमेण तापपापरोगभवनाशकत्वप्रकारकाणि ग्रहणान्याक्षिप्यन्ते । अयं च शुद्धस्यो-ल्लेखस्य ध्वनि: ।

संकीर्णस्य यथा-

‘ स्मयमानाननां तत्र तां विलोक्य विलसिनीम्‍ । चकोराश्चञ्चरीकाश्च मुदं परतरां ययु: ॥ ’

अत्र ध्वन्यमानया एकैकग्रहणरूपया भ्रान्त्या तदुभयसमुदायात्मा उल्लेख: संकीर्ण: । न चात्र भ्रान्तेरेव चमत्कार इति शक्यापह्लव उल्लेख: ।

अनेककर्तृकानेकधाग्रहणस्यालंकारान्तरविविक्तविषयस्य चमत्कृतेरिहापि सत्त्वात्‍ ।

द्वितीयस्योल्लेखस्य ध्वनिर्यथा-

‘ भासयति व्योमगता जगदखिल्म कुमुदिनीर्विकासयति । कीर्तिस्तव धरणिगता सगरसुतायासमफलतां नयते ॥’

अत्राधिकरणभेदप्रयुक्तमेकस्यामेव कीर्तौ चन्द्रिकात्वसागरत्वरूपाने-कविधत्वं रूपकसंकीर्णं ध्वन्यते ।

इति रसगंगाराधरे उल्लेखप्रकरणम्‍ ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP