उल्लेखालंकारः - लक्षण २

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


अत्रैकैकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेख: संकीर्ण:

‘ वनितेति वदन्त्येतां लोका: सर्वे वदन्तु ते । यूनां परिणता सेयं तपस्येति मतं मम ॥’

अत्र विषयतावच्छेदकस्य परसंमतत्वेन निषेध्यतयोपन्यासादपह्लुत्या संकीर्ण: ।

अप्पयदीक्षितास्तु-“ एवमपि यदि-‘ कान्त्या चन्द्रं विदु: केचित्सौरभेणाम्बुजं परे । वक्त्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम्‍ ॥’

इत्यपह्‍नवोदाहरणविशेषेऽतिव्याप्ति: शड्कया, तदानीनमेकधोलेखनं


निषेधास्पृष्टत्वेन विशेषणीयम्‍ । तत्राद्योल्लेखनद्वयं परमतत्वोपन्याससाम-र्थ्याद्नम्यमाननिषेधमिति नातिव्याप्ति: ” इत्याहु: । तन्न । ‘ द्विविधश्चाय-मुल्लेख: शुद्धोऽलंकरान्तरसंकीर्णश्च’ इत्युक्त्वा “ श्रीकण्ठजनपदवर्णने, ‘ यस्तपोवनमिति मुनिभिरगृह्यत’ इत्यादौ शुद्ध: , ‘ यमनगरभिति शत्रुभि:, वज्रपञ्जरमिति शरणागतै:’ इत्यादौ भ्रान्तिरूपकादिसंकीर्ण: ” इति स्वय-मेवोक्तत्वात्‍ । इहाप्यपह्लुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात्‍ । यदि चैवंविधापह्लुतिवारणाय निषेधास्पृष्टत्वं विशेषणमुच्यते तदा-

‘ कपाले मार्जार: पय इति करांल्लेढि शशिन-स्तरुच्छिद्रप्रोतान्बिसमिति करी संकलयति । रतान्ते तल्पस्थान्हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रयमति ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP