उल्लेखालंकारः - लक्षण ५
रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.
‘ विद्वत्सु विमलज्ञाना विरक्ता यतिषु स्थिता: । स्वीयेषु तु गरोद्नारा नानाकारा: क्षितौ खला: ॥’
अत्र विद्वदादिसहचरभेदप्रयुक्तं खलानामनेकविधत्वम् । एवमन्येषां संबन्धिनां भेदेऽप्यूह्यम् ।
संकीर्णो यथा-
‘ गगने चन्द्रिकायन्ते हिमायन्ते हिमाचले । पृथिव्यां सागरायन्ते भूपाल तव कीर्तय: ॥’
अत्रोपमया आपातत: प्रतीयमानथा पर्यवसितया चोत्प्रेक्षया ।
‘ उपरि करवालधाराकारा: क्रूरा भुजंगमपुंगवात् । अन्त: साक्षाट्ट्राक्षादीक्षागुरवो जयन्ति केऽपि जना: ॥’
अत्रोपमाव्यतिरेकाभ्यां तयो: समुच्चयेनोत्प्रेक्षया च संकीर्ण: ।
‘ यम: प्रतिमहीभृतां हुतवहोऽसि तन्नीवृतां सतां खलु युधिष्ठिरो धनपतिर्धनाकाड्क्षिणाम् । गृहं शरणीमच्छतां कुलिशकोटिभिर्निर्मितं त्वमेक इह भूतले बहुविधो विधात्रा कृत: ॥’
अत्र कविना यमत्वादिना रूपेण राज्ञो रूपवत: कारणादूपकेण, विपक्षभूपालादीनामेतस्मिन्नायाते यमत्वादिना भ्रान्तिरपि संभवतीति भ्रान्तिमता, विपक्षभूपालदिभिरनेकैर्ग्रहीतृंभिर्यमत्वादिभिरनेकैर्धर्मैरुल्लेख-नाप्तागुक्तोल्लेखप्रकारेण च सह संकीर्णोयं संबन्धिषष्ठयन्तभेदप्रयुक्त-वण्र्यानेकविधत्वक उल्लेख: ।
N/A
References : N/A
Last Updated : January 17, 2018
TOP