उल्लेखालंकारः - लक्षण ३

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


इति त्वदुदाह्लतभ्रान्तावतिप्रसड्र: कथं नाम वार्येत । मार्जाराद्यनेक-ग्रहीतृकानेकधोल्लेखनस्य तत्रापि सत्त्वात्‍ । स्वस्वप्रियाहारलिप्सारूपनिमि-त्तभेदाच्च । तस्मत्संकीर्णनिवारणाय यत्नोऽनर्थक एव ।

संशयसंकीर्णो यथा-

‘ भानुरग्निर्यमो वायं बलि: कर्णोऽथवा शिबि: । प्रत्यर्थिनश्चार्थिनश्व विकल्पन्त इति त्वयि ॥’

अत्र द्वयोर्ग्रहणयो: प्रत्येकं संशयत्वम्‍ । समुदायस्य तूल्लेखता । अयं च स्वरूपमात्रोल्लेखो स्वरूपोल्लेख: प्रागेव निरूपित: ।

फलानामुल्लेखे फलोल्लेखो यथा-

‘ अर्थिनो दातुमेवेति त्रातुमेवेति कातरा: । जातोऽयं हन्तुमेवेति वीरास्त्वां देव जानते ॥’

हेतूनामुल्लेखे हेतूल्लेख: । यथा-

‘ हरिचरणनखरसड्रादेके हरमूर्धसंस्थितेरन्ये । त्वां प्राहु: पुण्यतमामपरे सुरतटिनि वस्तुमाहत्म्यात्‍ ॥’
अथ प्रकारान्तरेणाप्युल्लेखो दृश्यते-यत्रासत्यपि ग्रहीत्रनेकत्वे विषयाश्रयसमानाधिकरणादीनां संबन्धिनामन्यतमानेकत्वप्रयुक्तमेकस्य वस्तुनोऽनेकप्रकारकत्वम्‍ । अयमपि द्विविध: शुद्धो‍ऽलंकारान्तरसंकीर्णश्च ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP