पंचम पटल - मूलाधारपद्मविवरणम्
महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.
इदानीं कथयिष्यामि मुक्तस्यानुभवं प्रिये ।
यज्ज्ञात्वा लभते मुक्तिं पापयुक्तोsपि साधक: ॥४६॥
समभ्यर्च्येश्वरं सम्यक् कृत्वा च योगमुत्तमम् ।
गृहयात्सुस्थितो भूत्वा गुरुं सन्तोष्य बुद्धिमान् ॥४७॥
जीवादि सकलं वस्तु दत्त्वा योगविदं गुरुम् ।
सन्तोष्यातिप्रयत्नेन योगोsयं गृह्यते बुधै: ॥४८॥
विप्रान् सन्तोष्प मेधावी नानामङ्गलसंयुत: ।
ममालये शुचीर्भूत्वा गृहीयाच्छुभमात्मन: ॥४९॥
संन्यस्यानेन विधिना प्राक्तनं विग्रहादिकम् ।
भूत्वा दिव्यवपुर्योगी गृहेयाद्वक्ष्यमाणकम् ॥५०॥
पद्मासनस्थितो योगी जनसङ्गविवर्जित: ।
विज्ञाननाडीद्वितयमङ्गुलीभ्यां निरोधयेत् ॥५१॥
सिद्धेस्तदाविर्भवति सुखरूपी निरञ्जन: ।
तस्मिन् परिश्रम: कार्यो येन सिद्धो भवेखलु ॥५२॥
य: करोति सदाभ्यासं तस्य सिद्धर्न दूरत: ।
वायुसिद्धिर्भवेत्तस्य क्रमादेव न संशय: ॥५३॥
सकृद्य: कुरुते योगी पापौघं नाशयेद्ध्रुवम् ।
तस्य स्यान्मध्यमे वायो: प्रवेशो नात्र संशय: ॥५४॥
एतदभ्यासशीलो य: स योगी देवपूजित: ।
अणिमादिगुणान् लब्ध्वा विचरेद्भवनत्रये ॥५५॥
यो यदास्यानिलाभ्यासात्तद्भवेत्तस्य विग्रह: ।
तिष्ठेदात्मनि मेधावी संयुत: क्रीडते भृशम् ॥५६॥
एतद्योगं परं गोप्यं न देयं यस्य कस्यचित् ।
सप्रमाण: समायुक्तस्तमेव कथ्यते: ध्रुवम् ॥५७॥
योगीर पद्मासने तिष्ठत् कण्ठकूपे यदा स्मरन् ।
जिह्वां कृत्वा तालुमूले क्षुत्पिपासा निवर्तते ॥५८॥
कण्ठकूपादध:स्थाने कूर्मनाड्यस्ति शोभना ।
तस्मिन् योगी मनो दत्त्वा चित्तस्थैर्य लभेद्भृशम् ॥५९॥
शिर: कपाले रुद्राक्ष विवरं चिन्तयेद्यदा ।
तदा ज्योति:प्रकाश: स्याद्विद्युत्पुञ्जसमप्रभ: ॥६०॥
एतच्चिन्तनमात्रेण पापानां संक्षयो भवेत् ।
दुराचारोsपि पुरुषो लभते परमं पदम् ॥६१॥
अहर्निशं यदा चिन्तां तत्करोति विचक्षण: ।
सिद्धानां दर्शनं तस्य भाषणं च भवेद्ध्रुवम् ॥६२॥
तिष्ठन् गच्छन् स्वपन् भुञ्जन् ध्यायेच्छून्यमहिर्निशम् ।
तदाकाशमयो योगेअए चिदाकाशे विलीयते ॥६३॥
एतज्ज्ञानं सदा काय योगिना सिद्धिभिच्छता ।
निरन्तरकृताभ्यासान्मम तुल्यो भवेद्ध्रुवम् ।
एतज्ज्ञानबलाद्योगी सर्वेषा वल्लभो भवेत् ॥६४॥
सर्वान् भूतान् जयं कृत्वा निराशीरपरिग्रह: ।
नासाग्रे दृश्यते येन पद्मासनगतेन वै ।
मनसो मरणं तस्य खेचरत्वं प्रसिद्धयति ॥६५॥
ज्योति: पश्यति योगीन्द्र: शुद्धं शुद्धाचलोपमम् ।
तत्रभ्यासबलेनैव स्वयं तद्रक्षको भवेत् ॥६६॥
उत्तानशयने भूमौ सुप्त्वा ध्यायन्निरन्तरम् ।
सद्य: श्रमविनाशाय स्वयं योगी विरक्षण: ॥६७॥
शिर: पश्चात्तु भागस्य ध्याने मृत्युञ्जयो भवेत् ।
भ्रूमध्ये दृष्टिमात्रेण ह्यपर: परिकीर्तित: ॥६८॥
चतुर्विधस्य चान्नस्य रसस्त्रेधा विभज्यते ।
तत्र सारतमो लिंगदेहस्य परिपोषक: ॥६९॥
सप्तधातुमयं पिण्डमेति पुष्णाति मध्यग: ।
याति विण्मूतररूपेण तृतीय: सप्तमो बहि: ॥७०॥
आद्यभागं द्वयं नाड्य: प्रोक्तास्ता: सकला अपि ।
पोषयन्ति वपुर्वायुमापादलमस्तकम् ॥७१॥
नाडीभिराभि: सर्वाभिर्वायु: सञ्चरते यदा ।
तदैवान्नरसो देहे साम्येनेह प्रवर्तते ॥७२॥
चतुर्दशानां तत्रेह व्यापारे मुखभागत: ।
ता अनुग्रत्वहीनाश्च प्राणसञ्चारनाडिका: ॥७३॥
गुदाद्द्वङ्गुलतश्चोर्ध्वं मेढ्रै कांङ्गुलतस्त्वध: ।
एवं चास्ति समं कन्दं समता चतुरङ्गुलम् ॥७४॥
पश्चिमाभिमुखी योनिगुदमेढ्रान्तरालगा ।
तत्र कन्दं समाख्यातं तत्रास्ति कुण्डली सदा ॥७५॥
संवेष्ट्य सकला नाडी: सार्द्धत्रिकुटिलाकृति: ।
मुखे निवेश्य सा पुच्छं सुषुम्णाविवरे स्थिता ॥७६॥
सुप्ता नागोपमा ह्येषा स्फ़ुरन्ती प्रभया स्वया ।
अहिवत् सन्धिसंस्थाना वाग्देवी बीजसंज्ञिका ॥७७॥
ज्ञेया शक्तिरियं विष्णोर्निर्मला स्वर्णभास्वरा ।
सत्त्वं रजतमश्चेति गुनत्रयप्रसूतिका ॥७८॥
तत्र बन्धूकपुष्पाभं कामबीजं प्रकीर्तितम् ।
कलहेमसमं योगे प्रयुक्ताक्षररूपिणम् ॥७९॥
सुषुम्णापि च संश्लिष्टो बीजं तत्र वरं स्थितम् ।
शरच्चन्द्रनिभं तेजस्स्वयमेतत्स्फ़ुरत्स्थितम् ॥८०॥
सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
एतत्त्रयं मिलित्वैव देवी त्रिपुरभैरवी ।
बीजसंज्ञं परं तेजस्वदेव परिकीर्तितम् ॥८१॥
क्रियाविज्ञानशक्तिभ्यां युतं यत्परितो भ्रमत् ।
उत्तिष्ठद्विशतस्त्वम्भ: सूक्ष्मं शोणशिखायुतम् ।
योनिस्थं तत्परं तेज: स्वयम्भूलिंगसंज्ञितम् ॥८२॥
आधारपद्ममेतद्धि योनिर्यस्यास्ति कन्दत: ।
परिस्फ़ुरत् वादिसान्तचतुर्वर्ण चतुर्दलम् ॥८३॥
कुलाभिधं सुवर्णाभं स्वयम्भूलिङ्गसंगतम् ।
द्विरण्डो यत्र सिद्धोsस्ति डाकिनी यत्र देवता ॥८४॥
तत्पद्ममध्यगा योनिस्तत्र कुण्डलिनी स्थिता ।
तस्य ऊर्ध्वे स्फ़ुरत्तेज: कामबीजं भ्रमन्मतम् ॥८५॥
य: करोति सदा ध्यानं मूलाधारे विचक्षण: ।
तस्य स्याद्दार्दुरी सिद्धिर्भूमित्यागक्रमेण वै ॥८६॥
वपुष: कान्तिरुत्कृष्टा जठराग्निविवर्धनम् ।
आरोग्यं च पटुत्वं च सर्वज्ञत्वं च जायते ॥८७॥
भूतं भव्यं भविष्यच्च वेत्ति सर्व सकारणम् ।
अश्रुतान्यपि शास्त्राणि सरहस्यं वदेद् ध्रुवम् ॥८८॥
वस्त्रे सरस्वती देवी सदा नृत्यति निर्भरम् ।
मन्त्रसिद्धिर्भवेत्तस्य जपादेव न संशय: ॥८९॥
जरामरणदु:खौघानाशयति गुरोर्वच: ।
इदं ध्यानं सदा कार्य पवनाभ्यासिना परम् ।
ध्यानमात्रेण योगीन्द्रो मुच्यते सर्वकिल्बिषात् ॥९०॥
मूलपद्मं यदा ध्यायेत् योगी स्वयम्भुलिङ्गकम् ।
तदा तत्क्षणमात्रेण पापौघं नाशयेद् ध्रुवम् ॥९१॥
यं यं कामयते चित्ते तं तं फ़लवाप्नुयात् ।
निरन्तरकृताभ्यासातं पश्यति विमुक्तिदम् ॥९२॥
बहिरभ्यन्तरे श्रेष्ठं पूजनीय: प्रयत्नत: ।
तत: श्रेष्ठतमं ह्येतन्नान्यदस्ति मतं मम ॥९३॥
आत्मसंस्थं शिवं त्यक्त्वा बहि:स्थं य: समर्चयेत् ।
हस्तस्थं पिण्डमुत्सृज्य भ्रमते जीविताशया ॥९४॥
आत्मलिंगार्चनं कुर्यादनालस्यं दिने दिने ।
तस्य स्यात्सकला सिद्धिर्नात्र कार्या विचारणा ॥९५॥
निरन्तरकृताभ्यासात्षण्मासे सिद्धिमाप्नुयात् ।
तस्य वायुप्रवेशोsपि सुषुम्णायां भवेद्ध्रुवम् ॥९६॥
मनोजयं च लभते वायुबिन्दुविधारणाम् ।
ऐहिकामुष्मिकी सिद्धिर्भवेन्नैवात्र संशय: ॥९७॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP