पंचम पटल - सहस्रारपद्मविवरणम्
महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.
अत ऊर्ध्व तालुमूले सहस्रारं सरोरुहम् ।
अस्ति यत्र सुषुम्णाया मूलं सविवरं स्थितम् ॥१५०॥
तालुमूले सुषुम्णास्य अधोवक्त्रा प्रर्वतते ।
मूलाधारेण योन्यन्ता: सर्वनाड्य: समाधिता: ।
ता बीजभूतास्तत्त्वस्य ब्रह्ममार्गप्रदायिका: ॥१५१॥
तालुस्थाने च यत्पद्मं सहस्रारं पुरोदितम् ।
तत्कन्दे योनिरकास्ति पश्चिमाभिमुखी मता ॥१५२॥
तस्य मध्ये सुषुम्णाया मूलं सविवरं स्थितम् ।
ब्रह्मरन्ध्रं तदेवोक्तमामूलाधारपङ्कजम् ॥१५३॥
तत्रान्तरन्ध्रे चिच्छक्ति: सुषुम्णा कुण्डलीसदा ॥१५४॥
सुषुम्णायां स्थिता नाडी चित्रा स्यान्मम वल्लभे ।
तस्यां मम मते कार्या ब्रह्मरन्ध्रादिकल्पना ॥१५५॥
यस्या: स्मरणमात्रें ब्रह्मज्ञत्वं प्रजायते ।
पापक्षयश्च भवति न भूय: पुरुषो भवेत् ॥१५६॥
प्रवेशितं चलाङ्गुष्ठं मुखे स्वस्य निवेशयेत् ।
तेनात्र न वहत्येव देहचारी समीरण: ॥१५७॥
तेन संसरचक्रेsस्मिन्न भ्रमन्ते च सर्वदा ।
तदर्थ ये प्रवर्तन्ते योगिन: प्राणधारणे ॥१५८॥
तत एवाखिला नाडी निरुद्धा चाष्टवेष्टनम् ।
इयं कुण्डलिनी शक्ती रन्ध्रं त्यजति नान्यथा ॥१५९॥
यदा पूर्णासु नाडीषु सन्निरुद्धानिलास्तदा ।
बन्धत्यागेन कुण्डल्या मुखं रध्राद्वहिर्भवेत् ।
सुषुम्णायां सदैवायं वहेत्प्राणसमीरण: ॥१६०॥
मूलपद्मस्थिता योनिर्वामदक्षिणकोणत: ।
इडापिङ्गलयोर्मध्ये सुषुम्णा योनिमध्यगा ॥१६१॥
ब्रह्मरन्ध्रन्तु तत्रैव सुषुम्णाधारमण्डले ।
यो जानाति स मुक्त: स्यात्कर्मबन्धाद्विचक्षण: ॥१६२॥
ब्रह्मरन्ध्रमुखे तासां सङ्गम: स्यादसंशय: ।
तस्मिन् स्नाने स्नातकानां मुक्ति: स्यादविरोधत: ॥१६३॥
गंगायमुनयोर्मध्ये वहत्येषा सरस्वती ।
तासान्तु सङ्गमे स्नात्वा धन्यो याति पराङतिम् ॥१६४॥
इडा गङ्गा पुरा प्रोक्ता पिङ्गला चार्कपुत्रिका ।
मध्या सरस्वती प्रोक्ता तासां सङ्गोsतिदुर्लभ: ॥१६५॥
सितासिते सङ्गमे यो मनसा स्नानमाचरेत् ।
सर्वपापविनिर्मुक्तो याति ब्रह्म सनातनम् ॥१६६॥
त्रिवेण्यां सङ्गमे यो वै पितृकर्म समाचरेत् ।
तारयित्वा पितृन्सर्वान्स याति परमां गतिम् ॥१६७॥
नित्यं नैमित्तिकं काम्यं प्रत्यहं य: समाचरेत् ।
मनसा चिंतयित्वा तु सोsक्षयं फ़लमाप्नुयात् ॥१६८॥
सकृद्य: कुरुते स्नानं स्वर्गो सौख्यं भुनक्ति स: ।
दग्ध्वा पापानशेषान्वै योगी शुद्ध मति: स्वयम् ॥१६९॥
अपवित्र: पवित्रो वा सर्वावस्थां गतोsपि वा ।
स्नानाचरणमात्रेण पूतो भवति नान्यथा ॥१७०॥
मृत्युकाले प्लुतं देहं त्रिवेण्या: सलिले यदा ।
विचिन्त्ययस्त्यजेत्प्राणान्स तदामोक्षमाप्नुयात् ॥१७१॥
नात: परतरं गुह्यं त्रिषु लोकेषु विद्यते ।
गोप्तव्यं तत्प्रयत्नेन न व्याख्येयं कदाचन ॥१७२॥
ब्रह्मरन्ध्रे मनो दत्वा क्षणार्धं यदि तिष्ठति ।
सर्वपापविनिर्मुक्त: स याति परमां गतिम् ॥१७३॥
अस्मिन् लीनं मनो यस्य स योगी मयि लीयते ।
अणिमादिगुणान् भुक्त्वां स्वेच्छया पुरुषोत्तम: ॥१७४॥
एतद्रन्ध्रध्यानमात्रेण मर्त्य: संसारेsस्मिन् वल्लभो मे भवेत्स: ।
पापान् जित्वा मुक्तिमार्गाधिकारी ज्ञानं दत्त्वा तारयत्यद्भुतं वै ॥१७५॥
चतुर्मुखादित्रिदशैरगम्यं योगिवल्लभम् ।
प्रयत्नेन सुगोप्यं तद्ब्रह्मरन्ध्र मयोदितम् ॥१७६॥
पुरा मयोक्ता या योनि: सहस्रारे सरोरुहे ।
तस्याsधो वर्तते चन्द्रस्तद्धयानं क्रियते बुधै: ॥१७७॥
यस्य स्मरणमात्रेण योगीन्द्रोsवनिमण्डले ।
पूज्यो भवति देवानां सिद्धानां सम्मतो भवेत् ॥१७८॥
शिर:कपालविवरे ध्यायेद्दुग्धमहोदधिम् ।
तत्र स्थित्वा सहस्रारे पद्मे चन्द्रं विचिन्तयेत् ॥१७९॥
शिर:कपालविवरे द्विरष्टकलया युत: ।
पीयूषभानुहंसाख्यं भावयेतं निरञ्जनम् ॥१८०॥
निरन्तरकृताभ्यासात्त्रिदिने पश्यति ध्रुवम् ।
दृष्टिमात्रेण पापौघं दहत्येव स साधक: ॥१८१॥
अनागतञ्च स्फ़ुरति चित्तशुद्धिर्भवेत्खलु ।
सद्य: कृत्वापि दहति महापातकपञ्चकम् ॥१८२॥
आनुकूल्यं ग्रहा यान्ति सर्वे नश्यन्त्युपद्रवा: ।
उपसर्गा: शमं यान्ति युद्धे जयमवाप्नुयात् ॥१८३॥
खेचरी भूचरी सिद्धिर्भवेच्छीरेन्दुदर्शनात् ।
ध्यानदेव भवेत्सर्वं नात्र कार्या विचारणा ॥१८४॥
सत्यं सत्यं पुन: सत्यं मम तुल्यो भवेद्ध्रुवम् ।
योगशास्त्रं च परमं योगिनां सिद्धिदायकम् ॥१८५॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP