पंचम पटल - आज्ञाचक्रविवरणम्
महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.
आज्ञापद्मं भ्रुवोर्मध्ये हक्षोपेतं द्विपत्रकम् ।
शुक्लाभं तन्महाकाल: सिद्धो देव्यत्र हाकिनी ॥१२२॥
शरच्चन्द्रनिभं तत्राक्षरबीजं विजृम्भितम् ।
पुमान् परमहंसोsयं यज्ज्ञाला नावसीदति ॥१२३॥
तत्र देव: परन्तेज: सर्वतन्त्रेषु मन्त्रिण: ।
चिन्तयित्वा परां सिद्धिं लभते नात्र संशय: ॥१२४॥
तुरीयं त्रितयं लिङ्गं तदाहं मुक्तिदायक: ।
ध्यानमात्रेण योगीन्द्रो मत्त्समो भवति ध्रुवम् ॥१२५॥
इडा हि पिङ्गला ख्याता वरणासीति होच्यते ।
वाराणसी तयोर्मध्ये विश्वनाथोsत्र भाषित: ॥१२६॥
एतत् क्षेत्रस्य माहात्म्यंमृषिभिस्तत्त्वदर्शिभि: ।
शास्त्रेषु बहुधा प्रोक्तं परं तत्त्वं सुभाषितम् ॥१२७॥
सुषुम्णा मेरुणा याता ब्रह्मरन्ध्रं यतोsस्ति वै ।
ततश्चैषा परावृत्त्या तदाज्ञापद्मदक्षिणे ।
वामनासापुटं याति गङ्गेति परिगीयते ॥१२८॥
ब्रह्मरन्ध्रे हि यत् पद्मं सहस्रारं व्यवस्थितम् ।
तत्र कन्दे हि या योनिस्तस्यां चन्द्रो व्यवस्थित: ॥१२९॥
त्रिकोणाकारतस्तस्या: सुधा क्षरति सन्ततम् ।
इडायाममृतं तत्र समं स्रवति चन्द्रमा: ॥१३०॥
अमृतं बहति द्वारा धारारूपं निरन्तरम् ।
वामनासापुटं याति गङ्गेत्युक्ता हि योगिभि: ॥१३१॥
आज्ञापङ्कजदक्षांसाद्वामनासापुटं गता ।
उदग्वहेति तत्रेडा ( ङ्गेति ) वरणा समुदाहृता ॥१३२॥
ततो द्वयमिह स्थाने वाराणस्यान्तु चिन्तयेत् ।
तदाकारा पिङ्गलापितदाज्ञाकमलोत्तरे ।
दक्षनासापुटे याति प्रोक्तास्माभिरसीति वै ॥१३३॥
मूलाधारे हि यत् पद्मं चतुष्पत्रं व्यवस्थितम् ।
तत्र कन्देsस्ति या योनिस्तस्यां सूर्यां व्यवस्थित: ॥१३४॥
तत् सूर्यमण्डलद्वारं विषं क्षरति सन्ततम् ।
पिङ्गलायां विषं तत्र समर्थयति तापन: ॥१३५॥
विषं तत्र बहुन्ती या धारारूपं निरन्तरम् ।
दक्षनासापुटे याति कल्पितयन्तु पूर्ववत् ॥१३६॥
आज्ञापङ्कजवामा स्याद्दक्षनासापुटं गता ।
उदग्वहा पिङ्गलापि पुरासीति प्रकीर्तिता ॥१३७॥
आज्ञापद्ममिदं प्रोक्तं यत्र देवो महेश्वर: ।
पीठत्रयं ततश्चोर्ध्वं निरुक्तं योगचिन्तकै: ।
तद्विन्दुनादशक्त्याख्यं भालपद्मे व्यवस्थितम् ॥१३८॥
य: करोति सदा ध्यानमाज्ञापद्मस्य गोपितम् ।
पूर्वजन्मकृतं कर्म विनश्येदविरोधत: ॥१३९॥
इह स्थित: सदा योगी ध्यानं कुर्यान्निरन्तरम् ।
तदा करोति प्रतिमां प्रतिजापमनर्थवत् ॥१४०॥
यक्षराक्षसगन्धर्वा अप्सरोगणकिन्नरा: ।
सेनन्ते चरणौ तस्य सर्वे तस्य वशानुशा: ॥१४१॥
करोति रसनां योगी प्रविष्टां विपरीतगाम् ।
लम्बिकोर्ध्वेषु गर्तेषु धृत्वा ध्यानं भयापहम् ॥१४२॥
अस्मिन् स्थाने मनो यस्य क्षणार्ध वर्ततेsचलम् ।
तस्य सर्वाणि पापानि संक्षयं यान्ति तत्क्षणात् ॥१४३॥
यानि यानीह प्रोक्तानि पञ्चपद्मे फ़लानि वै ।
तानि सर्वाणि सुतरामेतज्ज्ञानाद्भवत्नि हि ॥१४४॥
य: करोति सदाभ्यासमाज्ञापद्मे विचक्षण: ।
वासनाया महाबन्धं तिरस्कृत्य प्रमोदते ॥१४५॥
प्राणप्रयाणसमये तत्पद्मं य: स्मरन्सुधी: ।
त्यजेत्प्राणं स धर्मात्मा परमात्मनि लीयते ॥१४६॥
तिष्ठन् गच्छन् स्वपन् जाग्रत् यो ध्यानं कुरुते नर: ।
पापकर्मविकुर्वाणो नहि मज्जति किल्बिषे ॥१४७॥
राजयोगाधिकारी स्यादेतच्चिन्तनतो ध्रुवम् ।
योगी बन्धाद्विनिर्मुक्त: स्वीयया प्रभया स्वयम् ॥१४८॥
द्विदलध्यानमाहात्म्यं कथितुं नैव शक्यते ।
ब्रह्मादिदेवताश्चैव किञ्चिन्मतो विदन्ति ते ॥१४९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP