पंचम पटल - अनाहतचक्रविवरणम्

महायोगी आदिनाथ श्रीमहादेव विरचित " शिवसंहिता " हा ग्रंथ देवी पार्वतीने विचारलेले प्रश्न व त्या प्रश्नांना श्रीशिवांनी दिलेली उत्तरे या प्रश्नोत्तरांच्या रूपाने अवतरित झाला आहे.


हृदयेsनाहतं नाम चतुर्थं पङ्कजं भवेत् ।
कादिठान्तार्णसंस्थानं द्वादशारसमन्वितम् ।
अतिशोणं वायुबीजं प्रसादस्थानमीरितम् ॥१०९॥

पद्मस्थं तत्परं तेजो बाणलिङ्गं प्रकीर्तिम् ।
यस्य स्मरणमात्रेण दृष्टादृष्टफ़लं लभेत् ॥११०॥

सिद्ध: पिनाको यत्रास्ते काकिनो यत्र देवता ।
एतस्मिन् सततं ध्यानं हृत्पाथोजे करोति य: ।
क्षुभ्यन्ते तस्य कान्ता वै कामार्ता दिव्ययोषित: ॥१११॥

ज्ञानं चाप्रतिमं तस्य त्रिकालविषयं भवेत् ।
दूरश्रृतिर्दूरदृष्टि: स्वेच्छया खगतां व्रजेत् ॥११२॥

सिद्धानां दर्शनं चापि योगिनी दर्शनं तथा ।
भवेत् खेचरसिद्धिश्च खेचराणां जयं तथा ॥११३॥

यो ध्यायति परं नित्यं बाणलिङ्गं द्वितीयकम् ।
खेचरी भूचरी सिद्धिर्भवेतस्य न संशय: ॥११४॥

एतद् ध्यानस्य माहात्म्यं कथितुं नैव शक्यते ।
ब्रह्माद्या: सकलादेवा गोपयन्ति परन्त्विदम् ॥११५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP