निरालम्बनवादः - श्लोक १ ते २७

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


‘ प्रमाणत्वाsप्रमाणत्वे पुण्यपापादि तत्फलम् ।
विध्यर्थवादमन्त्राsर्थनामधेयादिकल्पना ॥१॥
सर्वेषु लक्षणेष्वेवं स्वप्रमाणगणैः स्थितिः ।
वचनव्यक्तिभेदेन पूर्वसिद्धान्तपक्षता ॥२॥
कर्मभ्यः ( १ ) फलसम्बन्धः पारलौक्यैहलौकिके ( २ )
सर्वमित्याद्ययुक्तं स्यादर्थशून्यासु बुद्धिषु ॥३॥
तस्माद्धर्मार्थिभिः पूर्वं प्रमाणैर्लोकसंमतैः ।
अर्थस्य सदसद्भावे यत्नः कार्यः क्रियां प्रति ’ ॥४॥
यदा संवृतिसत्येन सर्वमेतत् प्रकल्प्यते ।
ज्ञानमात्रेsपि कस्माद्वो वृथाssग्रहो( १ )sर्थकल्पने ॥५॥
संवृतेर्न तु सत्यत्वं सत्यभेदः कुतो न्वयम् ।
सत्यं चेत् संवृतिः केयं मृषा चेत् सत्यता कथम् ॥६॥
सत्यत्वं न च सामान्यं मृषार्थपरमार्थयोः ।
विरोधान्न हि वृक्षत्वं सामान्यं वृक्षसिंहयोः ॥७॥
तुल्यार्थत्वेsपि तेनैषां मिथ्यासंवृतिशब्दयोः ।
पञ्चनार्थ उपन्यासो लालवक्राssसवादिवत् ॥८॥
नास्तिक्यपरिहारार्थं ( २ ) संवृतिः, कल्पनेति च ।
कल्पनाsपि त्वभिन्यस्य नैव निर्वस्तुके भवेत् ॥९॥
तस्माद्यनास्ति नास्त्येव यत्त्वस्ति परमार्थतः ।
तत्सत्यमन्यन्मिथ्येति ( १ ) न सत्यद्वयकल्पना ॥१०॥
स्वप्नादिभोगवच्चापि योगभोगत्वकल्पना ।
तन्निवृत्त्यर्थमेवेह परमार्थे प्रपत्यते ॥११॥
न हि स्वप्नसुखाद्यर्थं धर्मे कश्चित्प्रवर्तते ।
यादृच्छिकत्वात्स्वप्नस्य तूष्णीमास्येत पण्डितैः ॥१२॥
परमार्थफलाsवाप्तिमिच्छद्भिस्तेन यत्नतः ।
प्रतिपत्तिर्विधातव्या युक्तिभिर्बाह्यवस्तुषु ॥१३॥
‘ तत्राsर्थशून्यं विज्ञानं योगाचाराः समाश्रिताः ।
तस्याप्यभावमिच्छन्ति ये माध्यमिकवादिनः ॥१४॥
तत्र बाह्यार्थशून्यत्वं तुल्यं तावदू द्वयोरपि ।
निवृत्त्याsस्य( २ )ततो ज्ञाने तद्वत्संवृतिकल्पना ॥१५॥
तस्मात्साधारणत्वेन तन्मूलत्वेन चाप्ययम् ।
‘ बाह्यार्थसदसद्भावे यत्नो भाष्यकृता कृतः ’ ॥१६॥
‘ बाह्यार्थाsपह्नवो द्वैध ( १ ) मेकोsर्थस्य परीक्षणात् ।
प्रमाणमाश्रितश्चैकस्तत्रास्तां यः प्रमेयतः ॥१७॥
प्रमाणस्थस्तु मूलत्वादिहेदानीं परीक्ष्यते ’ ।
प्रस्तुतः स द्विधा चात्र प्रथमं त्वनुमानतः ॥१८॥
प्रत्यक्षबा( २ )धे तेनोक्ते पश्चात्तच्छक्त्यवेक्षणात ।
‘ तत्राsनुमानमाहेदं नन्वि’त्य‘स्य च संगतिः ॥१९॥
तत्संप्रयोगजं नाम ( ३ ) प्रत्यक्षमिति भाषितम् ।
तत्रेन्द्रियार्थसंबन्ध भेदो नपरमार्थतः ॥२०॥
कल्पितः संप्रयोगस्तु स्वप्नादावपि विद्यते ।
तदतद्योगजन्यस्य ( ४ ) विभागस्तेन दुर्लभः ॥२१॥
मिथ्यात्वं यदू द्विधैवोक्तं नान्यथेत्यत्र चोच्यते ।
सर्वस्यैव च मिथ्यात्वे किं विशिष्याsभिधीयते ( ५ ) ’ ॥२२॥
स्तम्भादिप्रत्ययो मिथ्या प्रत्ययत्वात्तथा हि यः ।
प्रत्ययः स मृषा दृष्टः स्वप्नादिप्रत्ययो यथा ॥२३॥
‘ सिद्धसाधनभवोंsशे दृष्टान्ताभाव एव च ।
मा भूतामेवशब्दश्च व्यर्थोsशेषप्रसाधने ॥२४॥
सर्व एवेति तेनात्र जाग्रद्बुद्धिपरिग्रहः ’ ।
स्वांशाभ्युपगमाच्चापि बाह्यग्राह्यनिवारणम् ॥२५॥
प्रत्ययस्येति साध्यांशव्याप्तहेतुनिदर्शनम् ।
हेतुश्चोपनयेनात्र जाग्रतोsपि दर्शितः ॥२६॥
विपक्षाभावतश्चात्र व्यतिरेको न कथ्यते ।
सामान्यस्य च हेतुत्वात्कस्मात्पचैकदेशता ॥२७॥
इति पूर्वपक्षभाष्यव्याख्या ।

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP