निरालम्बनवादः - श्लोक १०१ ते १२५

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


वाच्योsनुमानबाधो वा यदि वा प्रतिसाधनम् ।
पूर्वसाधनदोषाश्च सन्धेयास्तस्य चाsधुना ॥१०१॥
साध्याsभेदादवाच्यत्वाद्धेतोर्नोभयसिद्धता ।
प्रत्ययत्वं च सामान्यं भिन्नाsभिन्नं न विद्यते ॥१०२॥
भवतोsत्यन्तभिन्नं च मत्पत्तेsपि ( २ ) कथञ्चन ।
सारूप्याsन्यनिवृत्ती च नेत्येतत् साधयिष्यते ( १ ) ॥१०३॥
तस्माद्धेतुर्न सामान्यमस्ति सिद्धं द्वयोरपि ।
विशेषयोश्च हेतुत्वं पत्ततत्तुल्यसंस्थयोः ॥१०४॥
न स्यादन्वयहीनत्वादतद्धर्मतयाsपि च ।
न चाsर्थहीना तद्बुद्धिर्हेतुत्वेन भविष्यति ॥१०५॥
आश्रयासिद्धिता चोक्ता विशेष्यस्याsप्रसिद्धितः ।
तथा हेतोर्विरुद्धत्वं दृष्टान्ते साध्यहीनता ॥१०६॥
विशेषणाsप्रसिद्धत्व( २ )विकल्पेनैव बोधिते ।
स्वप्नादिप्रत्यये बाह्यं सर्वथा न हि नेष्यते ॥१०७॥
सर्वत्रालम्बनं बाह्यं देशकालाsन्यथात्मकम् ।
जन्मन्येकत्र भिन्ने वा तथा कालान्तरेsपि वा ॥१०८॥
तद्देशो वाsन्यदेशो वा स्वप्नज्ञानस्य गोचरः ।
‘ अलातचक्रेsलातं स्याच्छीघ्रभ्रमणसंस्कृतम् ॥१०९॥
गन्धर्वनगरेsभ्राणि पूर्वदृष्टं( १ )गृहादि च ( २ ) ।
पूर्वाsनुभूततोयं च रश्मितप्तोषरं तथा ॥११०॥
मृगतोयस्य विज्ञाने कारणत्वेन ( ३ ) कल्प्यते ।
द्रव्यान्तरे विषाणं च शशस्यात्मा च कारणम् ॥१११॥
शशशृङ्गधियो ’ मौण्ड्यं निशेषे शिरसोsस्य च ।
वस्त्वन्तरै( ४ ) रसंसृष्टः पदार्थः शून्यताधियः ॥११२॥
कारणत्वं पदार्थानामसद्वाक्यार्थकल्पने ।
अत्यन्ताsननुभूतोsपि बुद्ध्या योsर्थः प्रकल्प्यते ( १ ) ॥११३॥
तस्योत्पत्तौ कथाञ्चित्स्युः पृथिव्यादीनि कारणम् ।
एष प्रत्यत्तधर्मश्च वर्तमानार्थतैव या ॥११४॥
सन्निकृष्टार्थवृत्तिश्च न तु ज्ञानान्तरेष्वियम् ।
‘ कथमुत्पादयेज् ज्ञानं तत्राsसंश्चेत् ’, कुतो न्वियम् ॥११५॥
अर्थस्याsविद्यमानस्य विज्ञानोत्पत्त्यशक्तता ।
बाह्यालम्बनतायां नौ विवादोsर्थस्य संनिधिः ॥११६॥
यदि नास्ति, किमेवं स्यादस्मत्पक्षनिवर्तनम् ।
‘ तस्माद्यदन्यथासन्तमन्यथा प्रतिपद्यते ॥११७॥
तन्निरालम्बनं ज्ञान’मभावालम्बनं च तत् ।
भावान्तरमभावोsन्यो न कश्चिदनिरूपणात् ॥११८॥
भवता द्वयमप्येत्द्दुर्निरूपं सहेतुकम् ।
प्रतिज्ञादोषवच्चापि योज्या हेतोर्विरुद्धता ॥११९॥
समस्तव्यस्तधर्मादिस्वरूपादिविपर्ययात ( १ ) ।
दृष्टान्तदोषाः सर्वे च योज्या न ह्येकवस्तुनि ॥१२०॥
तव साध्यांशहेत्वंशव्याप्तधर्मादि ( २ ) संभवः ।
के चिद्वैधर्म्यदृष्टान्तो नास्तीत्यप्यनुयुञ्जते ॥१२१॥
तदभावादवृत्तेश्च नास्त्यत्राsवसरस्तव ।
विधिरूपप्रतिज्ञायामेतद्वक्तुं हि शक्यते ॥१२२॥
तत्राsवस्तुविपक्षे sपि प्रयोगस्य हि सम्भवः ।
यस्मिन्ननित्यता नास्ति कार्यता sपि न विद्यते ॥१२३॥
तस्मिन् यथा खपुष्पादाविति शक्यं हि भाषितुम् ।
अत्र त्ववस्तुसाध्यत्वं ( १ ) वस्तुनश्च विपक्षता ॥१२४॥
तेन स्याद्व्यतिरेकोsस्य वाच्यो, ‘ यश्चाsपि दर्शयेत् ।
प्रतिषेधद्वयात्तेन विधिरेव प्रदर्शितः ॥१२५॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP