निरालम्बनवादः - श्लोक २८ ते ५०

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.
N/A

‘ जाग्रज्ज्ञाने ( १ ) विशेषोsयं यतः सुपरिनिश्चयः ।
बाह्यालम्बनसंबन्धो न प्रसिद्धः परं प्रति ॥२८॥
तस्माद्यद्भाष्यकारेण दत्तमुत्तरमत्र तु ।
विकल्पसमता वा स्याद्वैधर्म्यसमताsपि वा ’ ॥२९॥
दुष्टत्वात्पूर्वपक्षस्य जात्युक्तिः कैश्चिदाश्रिता ।
प्रतिज्ञादोषमेषाहुः के चित्प्रत्यक्षबाधनम् ॥३०॥
शक्ष्यामो यदि विस्पष्टं स्वांशग्राह्यनिवारणम् ।
तदा ते शुद्ध एव स्यात्पत्तो ग्राह्यनिवारणः ॥३१॥
प्रत्यक्षादेश्च विषयो बाह्य एवाsवतिष्ठते ( १ ) ।
तन्निषेधकृतस्तस्य तैर्भवेत् प्रक्षबाधनम् ॥३२॥
सुनिश्चयेन चैतेषां बाधकप्रत्ययादृते ।
प्रमाणाभासता नास्तीत्येतस्मात्कथ्यते बलम् ॥३३॥
दुष्टज्ञानगृहीतार्थप्रतिषेधो हि युज्यते ।
गृहीतमात्रबाधे तु स्वपक्षोsपि न सिध्यति ॥३४॥
अग्राह्यत्वाच्च भेदेन विशेषनविशेष्ययोः ।
अप्रसिद्धोभयत्वं वा वाच्यमन्यतरस्य वा ॥३५॥
वक्तृश्रोत्रोश्च यज्ज्ञानं विशेषणविशेष्ययोः ।
तन्निरालम्बनत्वेन स्ववाग्बाधो द्वयोरपि ॥३६॥
संभवो न च भेदस्य ( १ ) विशेषणविशेष्ययोः ।
तस्मान्निरूपणं नास्ति प्रतिज्ञार्थस्य शोभनम् ॥३७॥
निरालम्बनता ना न किञ्चिद्वस्तु गम्यते ।
तेन तद्व्यतिरेकादौ प्रश्नो नैवोपपद्यते ॥३८॥
‘ यद्यवस्तु कथं त्वस्मॉंस्त्वं बोधयितुभिच्छसि ।
बुध्यसे वा स्वबुद्ध्या त्वं, कल्पिता त्वथ साधय्ते ( २ ) ॥३९॥
असतः कल्पना कीदृक् क्लृप्तौ वस्तु प्रसज्यते ।
कथमिष्टमभावे चेद्वस्तु सोsपीति वक्ष्यते ॥४०॥
तथा प्रत्यय इत्येष कर्म भावादि वा भवेत् ।
भावादिषु विरोधः स्यात्कर्म चेत्सिद्धसाधनम् ॥४१॥
प्रत्याय्यस्य हि रूपादेर्निरालम्बनतेष्यते ।
अविज्ञानात्मकत्वेन किञ्चिन्नालम्बते ह्यसौ ॥४२॥
कर्तृत्वे करणत्वे वा पचत्वं शब्दयोरपि ।
तन्निरालम्बनत्वेन पक्षाsभावः प्रसज्यते ॥४३॥
प्रत्याय्येन च भिन्नेन विना कर्त्राद्यसम्भवः ।
प्रत्यये तन्निमित्ते वा बाधः स्ववचनेन ते ॥४४॥
अथापि रूढिरूपेण प्रत्ययः स्यात्तथापि तु ।
ग्राहकं वस्तु सिद्धं नः प्रत्ययोsन्यस्य वस्तुनः ॥४५॥
तमभ्यपेत्य पत्तश्चेदभ्युपेतं विरूध्यते ।
विशेष्यस्याsप्रसिद्धिश्च तवाsस्माकमतादृशे ॥४६॥
आत्मधर्मस्वतन्त्रत्वकल्पनेsपि तथा भवेत् ।
न च प्रत्ययमात्रत्वं किञ्चिदस्त्यनिरूपणात् ॥४७॥
शब्दाsर्थमात्ररूपेण यथाsन्येषां निरूपणम् ।
तथा च भवतो न स्याद्वाच्यभेदमनिच्छतः ॥४८॥
निरालम्बनता चापि ( १ ) सर्वथा यदि साध्यते ।
विशेषणाsप्रसिद्धश्च दृष्टान्तश्च न विद्यते ॥४९॥
केन चिच्चेत्प्रकारेण निरालम्बनतोच्यते ।
रसज्ञानस्य रूपादिशून्यत्वात्सिद्धसाधनम् ॥५०॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP