निरालम्बनवादः - श्लोक ७६ ते १००

कुमारिल भट्ट हे आसामनिवासी ब्राह्मण होते. ते प्रथम बुद्ध होते पण नंतर त्यांनी धर्मपरिवर्तन करून हिन्दू धर्मात प्रवेश केला.
ज्याठिकाणी XX आहे, तेथील अक्षरे मिळत नाहीत, जाणकारांनी कृपया मदत करावी.


तदन्यस्य प्रतिज्ञा चेत्तदन्यप्रत्ययो मृषा ।
तन्मिथ्यात्वप्रसङ्गे च सर्वं पूर्वं न सिध्यति ॥७६॥
स्तम्भादिसाधनज्ञानभेदो न हि यथा भवेत् ।
यावद्यावत्प्रतिज्ञेयं तदन्यस्य प्रतीयते ( ३ ) ॥७७॥
तावत्तावत्परेषां स्यान्मिथ्यात्वदन्यबाधनम् ।
विरुद्धाsव्यभिचारित्वं बाधो वाsप्यनुमानतः ॥७८॥
इत्थं सर्वेषु पक्षेषु वक्तव्यं प्रतिसाधनम् ।
बाह्याsर्थालम्बना बुद्धिरिति सम्यक् च धीरियम् ॥७९॥
बाधकाsपेतबुद्धित्वाद्यथा स्वप्नादिबाधधीः ।
साsपि मिथ्येति चेद्ब्रूयात् ‘ स्वप्नादीनामबाधनात् ॥८०॥
न स्यात् ( १ ) माधर्म्यदृष्टान्तो भवतः साधनेsधुना ’ ।
विज्ञानाsस्तित्वभिन्नत्वक्षणिकत्वादिधीस्तथा ॥८१॥
सम्यक् चेदभ्युपेयेत तदाsनैकान्तिको भवेत् ।
तन्मिथ्याsभ्युपपत्तौ च पक्षबाधः प्रसज्यते ॥८२॥
तथा च बद्धमुक्तादिव्यवस्था न प्रकल्पते ।
ततश्च मोक्षयत्रस्य वैफल्यं वः प्रसज्यते ॥८३॥
‘ विकल्पोत्पद्यमाना च ज्ञानास्तित्वादिधीर्यदि ।
मृषेष्ठा, न च दृष्टाsत्र प्रमाणान्तरती गतिः ॥८४॥
प्रमाणाsभावतस्तेन ज्ञानाsस्तित्वादि दुर्लभम् ’ ।
‘ सर्वं चाप्यस्मदादीनां मिथ्या ज्ञानं विकल्पनात् ॥८५॥
सान्निध्यविप्रकृष्टत्वे सत्त्वासत्त्वे ( २ ) च दुर्लभे ।
मिथ्याज्ञानाsविशेषे sपि सांख्यादिपरिवर्जनात् ॥८६॥
बौद्धदर्शन एकस्मिन् पक्षपातो न युज्यते ’ ।
मृषात्वं यदि बुद्धेः स्याद्वाधः किं नोपलभ्यते ॥८७॥
बाधाद्विनाsपि तच्चेत्स्याद्वयवस्था न प्रकल्पते ।
प्रतियोगिनि दृष्टे च जाग्रज्ज्ञाने मृषा भवेत् ॥८८॥
स्वप्नादिबुद्धिरस्माकं तव भेदोsपि किङ्कृतः ।
न चान्यत् प्रतियोग्यस्ति जाग्रज्ज्ञानस्य शोभनम् ॥८९॥
यद्दर्शनेन मिथ्यात्वं स्तम्भादिप्रत्ययो व्रजेत् ।
स्वप्नादिप्रतियोगित्वं सर्वलोकप्रसिद्धितः ॥९०॥
तदीयधर्मवैधर्म्याद्बाधकप्रत्ययो यथा ।
योगिनां जायते बुद्धिर्बाधिका प्रतियोगिनी ॥९१॥
जाग्रत्स्तम्भादिबुद्धीनां ततः स्वप्नादितुल्यता ।
प्राप्तानां तामवस्थां च सर्वप्राणभृतामपि ॥९२॥
बाधोsयं भविता तेन सिद्धा सप्रतियोगिता ।
इह जन्मनि केषाञ्चिन्न तावदुपलभ्यते ॥९३॥
योग्यवस्थागतानां तु न विदूमः किं भविष्यति ।
योगिनां चाsस्मदीयानां ( १ ) त्वदुक्तप्रतियोगिनी ॥९४॥
त्वदुक्तिविपरीता वा बाधबुद्धिर्भविष्यति ।
ईदृक्त्वे योगिबुद्धीनां दृष्टान्तो न तवाsस्ति च ( २ ) ॥९५॥
दृष्टान्तस्त्वस्मदादीनां यो गृहीतः स विद्यते ।
अथ स्तम्भादिबुद्धीनां वदेत् सप्रतियोगिताम् ॥९६॥
बाध्यत्वं चाsपि ( ३ ) बुद्धित्वान्मृगतृष्णादिबुद्धिवत् ।
इष्टं सप्रतियोगित्वं मृगतृष्णादिबुद्धिभिः ॥९७॥
तदात्मना च ( ४ ) बाध्यत्वं ग्राह्याsन्तरतयाsपि च ।
बाधकैश्चाप्यनेकान्तस्तदन्यत्वे च पूर्ववत् ॥९८॥
‘ मिथ्याधीप्रतियोगित्वं स्वप्नादाविव ते भवेत् ।
रागादिक्षययोगित्वनिमित्ताsधिगतिस्तथा ॥९९॥
यावान्विशेष इष्टश्चेत् सर्वाs( १ )भावाद्विरुद्धता ’ ।
महाजनस्य वा बाधादिदानीं बाधबुद्धिव ॥१००॥

N/A

References : N/A
Last Updated : November 12, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP