संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ भूतशुद्धिः

अथ भूतशुद्धिः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


स्वाङ्के उत्तानौ करौ कृत्वा कुण्डलिनीं ध्यायेत् ॥ मूलाधारचतुर्दलकमलकर्णिकान्तर्गतत्रिकोणान्तरस्थाम् अधोमुखीं स्वयं भूलिङ्गवेष्टिनीं प्रसुप्तभुजङ्गाकारां शङ्खाकारेण सार्धत्रिवलयां तडित्कोटिनिभां नीवारांशुकतन्वीं मूलविद्याप्रकृतिमयीं कुण्डलिनीम् इष्टदेवतारूपां ध्यात्वा हुंकारेण त्रिकोणाग्निना सचेतनां कृत्वा स्वयं भूलिङ्गमध्यवर्तिसुषुम्णामार्गेण ऊर्ध्वगां कृत्वा मूलाधारस्वाधिष्ठानमणिपूरकानाहतविशुद्ध्याज्ञाचक्राणि भेदयित्वा सहस्रारस्थपरमशिवे जीवात्मना सह कुण्डलिनीं हंसः सो‍ऽहम् इति मन्त्रेण संयोज्य मातृकोपसंहारं कुर्यात् ॥ तद्यथा ॥ क्षकारं ळकारे उपसंहरामि ॥ ळकारं हकारे उपसंह० ॥ हकारं सकारे उप० । सकारं षकारे उप०॥ षकारं शकारे उप० ॥ शकारं वकारे उप० ॥ वकारं लकारे उप० ॥ लकारं रकारे उप० ॥ रकारं यकारे उप० ॥ यकारं मकारे उप० ॥ मकारं भकारे उप० ॥ भकारं बकारे उपसं० ॥ बकारं फकारे उप० ॥ फकारं पकारे उप० ॥ पकारं नकारे उप० ॥ नकारं धकारे उप० ॥ धकारं दकारे उप० ॥ दकारं थकारे उपसं० ॥ थकारं तकारे उप० ॥ तकारं णकारे उप० ॥ णकारं ढकारे उप० ॥ ढकारं डकारे उप० ॥ डकारं ठकारे उप० ॥ ठकारं टकारे उपसं० ॥ टकारं अकारे उप० ॥ ञकारं झकारे उप० ॥ झकारं जकारे उप० ॥ जकारं छकारे उप० ॥ छकारं चकारे उप० ॥ चकारं ङकारे उप० ॥ ङकारं घकारे उप० ॥ घकारं गकारे उप० ॥ गकारं खकारे उप० ॥ खकारं ककारे उप० ॥ ककारम् अःकारे उप० ॥ अःकारम् अंकारे उपसं० ॥ अंकारम् औकारे उप० ॥ औकारम् ओकारे उप० ॥ ओकारम् ऐकाए उप० ॥ ऐकारम् एकारे उप० ॥ एकारं लृकारे उप० ॥ लृकारं लृकारे उप० ॥ लृकारम् ऋकारे उप० ॥ ॠकारम् ऋकारे उप० । ऋकारम् ऊकारे उप० ॥ ऊकारम् उकारे उप० ॥ उकारम् ईकारे उप० ॥ ईकारम् इकारे उप० ॥ इकारम् आकारे उप० ॥ आकारम् अकारे उपसं० ॥ अकारं ब्रह्मरन्ध्रे सहस्रकर्णिकान्तर्गतपरमात्मनि लयं गत इति भावयेत् ॥ इति मातृकोपसंहारः ॥ अथ भूतोपसंहारः ॥ पादादि जानुपर्यन्तं पृथिवीमण्डलं चतुरस्रं पीतवर्णं वज्रलाञ्छितं लंबीजं पादगमनघ्राणगन्धब्रह्मनिवृत्तिकलासमानवायुयुतं विभाव्य ॐ ब्रह्मणे पृथिव्या अधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा ॥ कुण्डलिनीद्वारा पृथिवीम् अप्सु प्रविलापयामि ॥ ततो जान्वादि नाभिपर्यन्तम् अपां मण्डलं श्वेतवर्णम् अर्द्धचन्द्राकारं पद्मद्वयलाञ्छितं वंबीजं वारुणं हस्तग्रहणरसनारसविष्णुप्रतिष्ठाकलादैवतम् उदानवायुयुतं ध्यात्वा क्लीं विष्णवे प्रतिष्ठाकलात्मने हुं फट् स्वाहा ॥ अफ अग्ना प्रविलापयामि ॥ ततो नाभ्यादि हृदयपर्यन्तं वह्निमण्डलं रक्तवर्णं त्रिकोणं त्रिस्वस्तिकान्वितं रंबीजं पायुविसर्गचक्षुरूपशिवविद्याकलाव्यानवायुयुतं विभाव्य रुं रुद्राय विद्याकलात्मने हुं फट् स्वाहा ॥ अग्निं वायौ प्रविलापयामि ॥ ततो हृदयादि भ्रूमध्यपर्यन्तं वायुमण्डलं धूम्रवर्णं वर्तुंलं षड्बिन्दुलाञ्छितं यंबीजम् उपस्थानन्दत्वक्स्पर्शेशानशान्तिकलापानवायुयुतं विभाव्य ॐ ह्यैं ईशानाय शान्तिकलात्मने हुं फट् स्वाहा ॥ वायुमाकाशे प्रविलापयामि ॥ ततो भ्रूमध्याद्ब्रह्मरन्ध्रान्तम् आकाशमण्डलं नीलवर्णं स्वच्छं वर्तुलं हंबीजं वाक्वदनश्रोत्रशब्दसदाशिवशान्त्यतीतकलाप्राणवायुयुतं विभाव्य ॐहौं सदाशिवाय शान्त्यतीतकलात्मने हुं फट् स्वाहा ॥ आकाशम् अहंकारे प्रविलापयामि ॥ अहंकारं महत्तत्त्वे प्रवि० ॥ महत्तत्त्वं प्रकृतौ प्रविलापयामि ॥ प्रकृतिं नित्यशुद्धबुद्धस्वभावे सत्यज्ञानानन्तानन्दलक्षणे परमकारणे परब्रह्मणि प्रविलापयामि ॥ एवं भूतानि प्रविलाप्य आत्मानं चिन्तयेत् ॥ अहं देवो न चान्योऽस्मिन् ब्रह्मैवाहं न शोकभाक् ॥ सच्चिदानन्दरूपोऽहं निर्विकल्पः स्वभाववान् ॥ एवं ब्रह्मरूपं विभाव्य वामकुक्षौ पापपुरुषं चिन्तयेत् ॥ शुद्धसंचिन्मयो भूत्वा चिन्तयेत्पापपूरुषम् ॥ वामकुक्षिस्थितं कृष्णमङ्गुष्ठपरिमाणकम् ॥१॥
ब्रह्महत्याशिरःस्कन्धं स्वर्णस्तेयभुजद्वयम् ॥ सुरापानहृदायुक्तं गुरुतल्पकटीयुतम् ॥२॥
तत्संयोगिपदद्वन्द्वमङ्गप्रत्यङ्गपातकम् ॥ उपपातकरोमाणं रक्तश्मश्रुविलोचनम् ॥३॥
खङ्गचर्मधरं क्रुद्धं पुरुषं कज्जलप्रभम् ॥ अधोमुखं कृष्णवर्णं पिङ्गाक्षं शूलपाणिनम् ॥४॥
सदा वै संस्थितं ह्येवं वामकुक्षौ विचिन्तयेत् ॥५॥
एवं पापपुरुषं विचिन्त्य यमादिबीजेन प्राणायामं कुर्यात् ॥ हस्ते जलं गृहीत्वा ॥ यमिति वायुबीजस्य किष्किन्ध ऋषिः । बृहतीच्छन्दः । वायुर्देवता । पापपुरुषशोषणे विनियोगः ॥ पुनर्जलमादाय ॥ रमिति अग्निबीजस्य कश्यप ऋषिः । त्रिष्टुप् छन्दः । जातवेदोऽग्निर्देवता । पापपुरुषदहने विनियोगः ॥ पुनर्जलं गृहीत्वा ॥ यमिति वायुबीजस्य किष्किन्ध ऋषिः बृहतीच्छन्दः । वायुर्देवता ॥ पापपुरुषभस्मरेचने विनियोगः ॥ यं १६, रं ६४, यं ३२, वारमिति पूरककुंभकरेचकक्रमेण प्राणायामं कुर्यात् ॥ ततो वमिति वरुणबीजस्य हिरण्यगर्भ ऋषिः । त्रिष्टुप्छन्दः । वरुणो देवता । पापपुरुषस्य भस्मप्लावने विनियोगः । ततो लमिति पृथिवीबीजस्य ब्रह्मा ऋषिः । गायत्रीच्छन्दः । इन्द्रो देवता । पापौरुषस्य भस्मकठिनीकरणे विनियोगः ॥ ततो हमिति आकाशबीजस्य शिव ऋषिः । अव्यक्ता गायत्रीछन्दः । परमशिवो देवता । पापपुरुषस्य अङ्गान्युत्पादने विनियोगः ॥ एवं वं ३२ वारं, लं ६४ वारं, हं १६ वारं, जप्त्वा प्राणायामं कुर्यात् ॥ एवं स्वशरीरं विचिन्त्य परमात्मनः सकाशात्सृष्टिक्रमेण तत्त्वानि स्वस्थाने स्थापयेत् ॥ यथा - परब्रह्मणः सकाशात्प्रकृतिस्वरूपा माया प्रादुर्भूता । तस्याः सकाशान्महत्तत्त्वम् । महत्तत्त्वादहंकारः । अहङ्कारात् आकाशः । आकाशाद्वायुः । वायोरग्निः । अग्नेः आपः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधिभ्यः अन्नम् ॥ अन्नाद्रेतः । रेतसः पुरुषः ॥ एवं स्वशरीरं तेजोमयं पुण्यात्मकं सकलपुरुषार्थसाधकं निरस्तकिल्बिषं श्रीगाय्त्रीदेवताराधनयोग्यम् उत्पन्नमिति भावयेत् ॥ ततो हंसः सोऽहम् इति मन्त्रेण परब्रह्मणः सकाशात् पृथग्भूतां कुण्डालिनीशक्तिं मूलाधारगतां चिन्तयेत् ॥ एवं पञ्च भूतानि संस्थाप्य न्यासान्कुर्यात् ॥ ॐ हौ सदाशिवाय आकाशाधिपतये नमो मूर्ध्नि ॥ ॐ ह्यैं ईशानाय वायोरधिपतये नमो मुखे ॥ ॐ रुं रुद्राय तेजोधिपतये नमो हृदि ॥ ॐ ह्रीं विष्णवे अपामधिपतये नमो गुह्ये ॥ ॐ ब्रह्मणे पृथिव्या अधिपतये नमः पादयोः ॥ इति भूतशुद्धिः ॥

N/A

References : N/A
Last Updated : December 13, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP