संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
श्रीगायत्रीपुरश्चरणविधिः

श्रीगायत्रीपुरश्चरणविधिः

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


॥ श्रीगणेशाय नमः ॥ अथ गायत्रीपुरश्चरणविधिरुच्यते ॥ तत्र पुरश्चरणं नाम मंत्रफलसिद्ध्यर्थमुपोद्घातत्वेन पूर्वसेवनम् ॥ अन्यच्च ॥ पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च ॥ होमं ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥१॥
इति ॥ कुलार्णवे ॥ पंचांगानि महादेवि जपो होमश्च तर्पणम् ॥ अभिषेकश्च विप्राणामाराधनमपीश्वरि ॥२॥
पूर्वपूर्वदशांशेन पुरश्चरणमुच्यते ॥३॥
इति ॥ पुरश्चरणस्थानानि विश्वामित्रकल्पे ॥ पर्वताग्रे नदीतीरे बिल्वमूले जलाशये ॥ गोष्ठे देवालयेऽ‍श्वत्थे उद्याने तुलसीवने ॥४॥
पुण्यक्षेत्रे गुरोः पार्श्वे चित्तैकाग्र्यस्थलेऽपि च ॥ पुरश्चरणकृन्मंत्री सिध्यत्येव न संशयः ॥५॥
इति ॥ पुरशरणं कर्चुं योग्यतासिद्ध्यर्थं दिहशुद्धिप्रकारमाह विश्वामित्रः ॥ आत्मनः शोधनार्थाय लक्षत्रयं जपेद् बुधः ॥ अथवा‍ऽप्यष्टलक्षं तु गायत्रीं श्रुतिचोदिताम् ॥६॥
चतुर्विंशतिलक्षं वा याज्ञवल्क्यमतं यथा ॥७॥
इति ॥ ( अथवा नद्यादितीर्थे सर्वप्रायश्चित्तविधिना षडब्दं त्र्यब्दं सार्धाब्दं वा यथाशक्ति कृच्छ्रचांद्रायणादि सर्वप्रायश्चित्तं कृत्वा पुरश्चरणं कुर्यादिति ॥ ) अथान्नशुद्धिप्रकारः विश्वामित्रकल्पे ॥ अयाचितोञ्छ्शुक्लश्च भिक्षावृत्तिचतुष्टयम् ॥ तांत्रिकैर्वैदिकैश्चैव अन्नशुद्धिः प्रकीर्तिता ॥८॥
अन्नानुसारिकर्माणि बुद्धिः कर्मानुसारतः ॥ ( तत्र तपोयुक्तेन तापसेन क्षत्रियवैश्यशूद्रादीनामन्नं न ग्राह्यम् ॥ ) पललस्पर्शमात्रेण तपो दहति निश्चितम् ॥९॥
इत्युक्तेः ॥ भिक्षान्नं शुद्धमानीय कृत्वाभागचतुष्टयम् ॥ एकभागो द्विजार्थाय गोग्रासाय द्वितीयकः ॥ आतिथ्याय तृतीयश्च तुरीयस्तु स्वकीयकः ॥१०॥
इति ॥ ग्रासप्रमाणं तत्संख्या च तत्रैव ॥ कुक्कुटांडप्रमाणं तु ग्रासमानं विधीयते ॥ द्व्यष्टौ ग्रासा गृहस्थस्य वानप्रस्थास्तदर्धकम् ॥११॥
ब्रह्मचारी यथेष्टं च गोमूत्रं विधिपूर्वकम् ॥ प्रोक्षणं नववारं स्यात्षड्वारं च त्रिवारकम् ॥१२॥
अच्छिद्रं च करं कृत्वा सावित्रीं च तदित्यृचम् ॥ मंत्रमुच्चार्य मनसा उक्तमार्गेण प्रोक्षयेत् ॥१३॥
इति ॥ आहारनियमस्तत्रैव ॥ अशक्तो वापि शक्तो वा आहारे नियते कृते ॥ षण्मासे तस्य सिद्धिः स्याद् गुरुभक्तिरतः सदा ॥१४॥
एकाहं पंचगव्याशी ह्येकाहं मारुताशनः ॥ एकाहं ब्राह्मणान्नाशी गायत्रीजपकर्मणि ॥१५॥
इति ॥ मतांतरे तु ॥ स्नात्वा तु शतगायत्र्याः शतमंतर्जले जपेत् ॥ शतेनापस्ततः पीत्वा सर्वपापैः प्रमुच्यते ॥ चांद्रायणादिकृच्छ्रस्य फलं प्राप्नोति निश्चितम् ॥१६॥
इति ॥ ( यदा लोकेषणा त्यक्तुं न शक्यते तदर्थोऽयं विधिरुच्यते ॥ ) क्षीराहारी फलाशी वा शाकाशी वा हविष्यभुक् ॥ भिक्षाशी वा जपेद्यत्तत्कृच्छ्रचांद्रसमं भवेत् ॥१७॥
इति ॥ वर्ज्याहारस्तत्रैव ॥ लवणं क्षारमाम्लं च गृंजनादिनिषेधितम् ॥ तांबूलं च द्विभुक्तिश्च दुष्टवासः प्रमत्तताम् ॥१८॥
श्रुतिस्मृतिविरोधं च जपं रात्रौ विवर्जयेत् ॥ श्राद्धादेरनुरोधेन जपं यदि त्यजेन्नरः ॥१९॥
स भवेद्देवताद्रोहे पितृन्सप्त नयेदधः ॥२०॥
इति ॥ अथ नित्यानुष्ठेयधर्मास्तत्रैव ॥ भूशय्या ब्रह्मचारित्वं मौनचर्यास्तथैव च ॥ नित्यं त्रिषवणं स्ननं क्षुद्रकर्मविवर्जनम् ॥२१॥
नित्यपूजा नित्यदानमानंदस्तुतिकीर्तनम् ॥ नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः ॥२२॥
जपनिष्ठा द्वादशैते धर्माः स्युर्मंत्रसिद्धिदाः ॥ नित्यसूर्यमुपस्थाय तस्य चाभिमुखो जपेत् ॥२३॥
देवताप्रतिमादौ वा वह्नौ वाऽ‍भ्यर्च्य तन्मुखः ॥ स्नानपूजाजपध्यानहोम तर्पणतत्परः ॥२४॥
निष्कामो देवतायां च सर्वकर्मनिवेदकः ॥ एवमादींष्च नियमान्पुरश्चरणकृच्चरे‍द् ॥२५॥
इति ॥ पुरश्चरणारंभे वर्ज्यमासादि तत्रैव ॥ ज्येष्ठाषाढौ भाद्रपदं पौषं तु मळमासकम् ॥ अंगारशनिवारौ तु व्यतिपातं च वैधृतिम् ॥२६॥
अष्टमीं नवमीं षष्ठीं चतुर्थीं च त्रयोदशीम् ॥ चतुर्दशीममावास्यां प्रदोषं च तथा निशाम् ॥२७॥
यमाग्निरुद्रसार्पेन्द्रवसुश्रवणजन्मभम् ॥ मेषकर्कतुलाकुंभमकरालिकलग्नकम् ॥२८॥
सर्वाण्येतानि वर्ज्यानि पुरश्चरणकर्मणि ॥ संध्यागर्जितनिर्घोषभूकंपोक्लानिपातने ॥२९॥
एतानन्यांश्च दिवसान्स्मृत्युक्तांश्च परित्यजेत् ॥३०॥
इति ॥ पुरश्चरणकालः रुद्रयामले ॥ वैशाखे श्रावणे वापि आश्विने कार्त्तिके तथा ॥ फाल्गुने मार्गशीर्षे वा मंत्री कुर्यात्पुरस्क्रियाम् ॥३१॥
तिथ्यादिनिर्णयः चंद्रिकायाम् ॥ पूर्णिमा पंचमी चैव द्वितीया सप्तमी तथा ॥ त्रयोदशी च दशमी प्रशस्ता सर्वकर्मसु ॥३२॥
इति ॥ रुद्रयामले ॥ गुरुशुक्रोदये शुद्धे लग्ने सद्वारशोधिते ॥ चंद्रतारानुकूल्ये च शुक्लपक्षे विशेषतः ॥ पुरश्चरणक कुर्यान्मंत्रसिद्धिः प्रजायते ॥३३॥
इति ॥ जपस्थानानि नारदीये ॥ शिवस्य संनिधाने च सूर्याग्न्योर्वा गुरोरपि ॥ दीपस्य ज्वलितस्यापि जपकर्म प्रशस्यते ॥३४॥
गृहे जपं समं विद्याद्गोष्ठे शतगुणं भवेत् ॥ नद्यां शतसहस्रं स्यादनंतं शिवसन्निधौ ॥३५॥
समुद्रतीरे च ह्रदे गिरौ देवालयेषु च ॥ पुण्याश्रमेषु सर्वेषु जपः कोटिगुणो भवेत् ॥३६॥
इत्युक्तस्थानानामन्यतमं स्थानमाश्रित्य दीपस्थानं विचिंतयेत् ॥ तद्यथा ॥ कूर्मस्यैव मुखं विद्धि दीपस्थानं सुसिद्धिदम् ॥ चतुरस्रं भुवं भित्त्वा कोष्ठानां नवकं लिखेत् ॥३७॥
पूर्वकोष्ठादि विलिखेत्सप्तवर्गान्यनुक्रमात् ॥ लक्षावीशे मध्यकोष्ठे स्वरान्युग्मक्रमाल्लिखेत् ॥३८॥
दिक्षु पूर्वोदितो यत्र नामस्याद्याक्षरं भवेत् । मुखं तदाऽस्य जानीयाद्धस्तावुभयतः स्थितौ ॥३९॥
पृष्ठं कुक्षी उभे पादौ द्वौ शीर्ष्णं पुच्छमीरितम् ॥ कूर्मचक्रामिदं प्रोक्तं मंत्राणां सिद्धिसाधनम् ॥४०॥
इति ॥ कुरुक्षेत्रे प्रयागे च गंगासागरसंगमे ॥ महाकाले च काश्यां च कूर्मस्थानं न चिन्तयेत् ॥४१॥
इति ॥ अथासनानि शारदायाम् ॥ कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्रीर्व्याघ्रचर्मणि ॥ स्यात्पौष्टिकं च कौशेयं शांतिकं वेत्रविष्टरम् ॥४२॥
वंशासने व्याधिनाशः कंबले दुःखमोचनम् ॥ सर्वाभावे त्वासनार्थं कुशविष्टरमिष्यते ॥४३॥
इति ॥ जपमाला तत्रैव ॥ रुद्राक्षश्वएतपद्माक्षमाले तु अखिले जपेत् ॥ अतिस्थूलोऽतिसूक्ष्मश्च स्फुटितो भंगुरिर्लघुः ॥४४॥
भिन्नः पुरा धृतो जीर्णो रुद्राक्षो वरदः स्मृतः ॥ अष्टोत्तरशतैर्माला प्रशस्ता सर्वकर्मसु ॥४५॥
गुरुं प्रकाशयेद्धीमान्मंत्रं नैव प्रकाशयेत् ॥ अथ मालां च मुद्रां च गुरोरपि न दर्शयेत् ॥४६॥
इति ॥ मालासंस्कारस्तत्रैव ॥ क्षालयेत्पंचगव्येन सद्योजातेन तज्जलैः ॥ चंदनागरुगंधाद्यैर्वामदेवेन घर्षयेत् ॥४७॥
धूपयेत्तामघोरेण लेपयेत्पुरुषेण तु ॥ मंत्रयेत्पंचमेनैव प्रत्येकं तु शतं शतम् ॥४८॥
मेरुं च पंचमेनैव तथा मंत्रेण मंत्रयेत् ॥ येन प्रतिष्ठिता माला तमेव तु मनुं जपेत् ॥४९॥
इति ॥ जपप्रकारः विश्वामित्रकल्पे ॥ ॐकारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च ॥ गायत्रीं प्रणवांतां च मध्ये त्रिप्रणवां तथा ॥५०॥
एवं नित्यं जपं कुर्याद्ब्राह्मणो विप्रपुंगवः ॥ भिन्नापादा तु गायत्री ब्रह्महत्याप्रणाशिनी ॥५१॥
अभिन्नपादा गायत्रीब्रह्महत्यां प्रयच्छति ॥ अच्छिन्नपादगायत्रीजपं कुर्वंति ये द्विजाः ॥५२॥
अधोमुखाश्च तिष्ठंति कल्पकोटिशतानि च ॥ धर्मशास्त्रपुराणेषु इतिहासेषु सुव्रत ॥५३॥
पंचप्रणवसंयुक्तां जपेदित्यनुशासनम् ॥ जपसंख्याष्टभागान्ते पादो जाप्यस्तुरीयकः ॥५४॥
स द्विजः परमो ज्ञेयः परं सायुज्यमाप्नुयात् ॥ अन्यथा प्रजपेद्यस्तु स जपो विफलो भवेत् ॥५५॥
प्रारंभदिनमारभ्य समाप्तिदिवसावधि ॥ न न्यूनं नातिरिक्तं च जपं कुर्याद् दिनेदिने ॥५६॥
नैरंतर्येण कुर्वींत स्वस्ववृत्तिं न लिंपयेत् ॥ प्रातरारभ्य विधिवज्जपेन्मध्यंदिनावधि ॥५७॥
मनःसंहरणं शौचं यानं मंत्रार्थचिंतनम् ॥५८॥
इति ॥ जपसंख्या तत्रैव ॥ गायत्रीछन्दोमंत्रस्य यथासंख्याक्षराणि च ॥ तावल्लक्षाणि कर्त्तव्यं पुरश्चरणकं तथा ॥५९॥
इति ॥ प्रपंचसारेऽपि ॥ एवं कृत्वा तु सिद्ध्यर्थं गायत्रीं दीक्षितो जपेत् ॥ तत्तलक्षं विधानेन भिक्षाशी विजितेंद्रियः ॥६०॥
इति ॥ होमद्रव्याणि तत्संख्या च शारदायाम् ॥ क्षीरोदनं तिला दूर्वाः क्षीरद्रुमसमिद्वरान् ॥ पृथक्सहस्रत्रितयं जुहुयान्मंत्रसिद्ध्ये ॥६१॥
इति ॥ विश्वामित्रोऽपि ॥ तिलैः पत्रैः प्रसूनैश्च यवैश्च मधुना प्लुतैः ॥ कुर्याद्दशांशतो होमं ततः सिद्धो भवेन्मनुः ॥६२॥
इति ॥ अत्र दशांशतस्तर्पणं दशांशहोम इत्यर्थः ॥ होमात्पूर्वं तर्पणस्योक्तत्वात् ॥ होमार्थं मंडपकुंडादिनिर्णयस्तद्रचनाप्रकारश्च तत्तद्ग्रंथेभ्योऽवगंतव्यः ॥ विस्तरभयान्नेह लिखितः ॥
॥ इति श्रीगायत्रेपुरशरणविधिः समाप्तः ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP