संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीगायत्रीपुरश्चरणपद्धतिः|
अथ श्रीगायत्रीपटलम्

अथ श्रीगायत्रीपटलम्

श्रीगायत्री परां देवीं विप्रेभ्योऽभयदां मुदा ।
वन्दे ब्रह्मप्रदां साक्षात्सच्चिदानंदरूपिणीम्‍ ॥
अनुक्रमणिका प्रमाणे वाचन करावे.


ॐ अस्य श्रीब्रह्मशापविमोचनमंत्रस्य निग्रहानुग्रहकर्ता प्रजापतिरृषिः कामदुघा गायत्री छंदः ॥ ॐ ब्रह्मशापविमोचनी गायत्रीशक्तिर्देवता ब्रह्मशापविमोचनार्थे जपे विनियोगः ॥ सवितुः ब्रह्मो मेत्युपासनात्तद्ब्रह्मविदो विदुस्तां प्रयतंति धीराः ॥ सुमनसा वाचा ममाग्रतः ॥ गायत्री त्वं ब्रह्मशापाद्विमुक्ता भव ॥ ॐ विश्वामित्रशापविमोचनमंत्रस्य नूतनसृष्टिकर्ता विश्वामित्र ऋषिः ॥ वाग्देहा गायत्री छंदः ॥ भुक्तिमुक्तिप्रदा विश्वामित्रानुगृहीता गायत्री शक्तिः ॥ सविता देवता ॥ विश्वामित्रशपविमोचनार्थे जपे विनियोगः ॥ तत्त्वानि चांगेष्वग्निचितो धियांसः त्रिगर्भा युदुद्भवां देवाश्चोचिरे विश्वसृष्टिम् ॥ तां कल्याणीमिष्टकरीं प्रपद्ये यन्मुखान्निःसृतो वेदगर्भः ॥ ॐ गायत्री त्वं विश्वामित्रशापाद्विमुक्ता भव ॥ ॐ वसिष्ठशापविमोचनमंत्रस्य वसिष्ठ ऋषिः ॥ विश्वोद्भवा गायत्री छंदः ॥ वसिष्ठानुगृहीता गायत्रीशक्तिर्देवता ॥ वसिष्ठशापविमोचनार्थे जपे विनियोगः ॥ तत्वानि चांगेष्वग्निचितौ धियांसः ध्यायंति विष्णोरायुधानि बिभ्रत् ॥ जनानता सा परमं च शश्वत् गायत्री मासाच्छुरनुत्तमं च धाम ॥ ॐ गायत्री त्वं वसिष्ठशापाद्विमुक्ता भव ॥ सोऽहमर्कमहंज्योतिरर्कः ज्योतिरहं शिवः ॥ आत्मज्योतिरहं शुक्लं शुक्लं ज्योतिरसोहमोम् ॥ अहो विष्णुमहेशेशे दिव्ये सिद्धि सरस्वति ॥ अजरे अमरे चैव दिव्ययोनि नमोऽस्तु ते ॥ शुद्धं गायत्रीध्यानम् ॥ यद्देवैः सुरपूजितं परतरं सामर्थ्यतारात्मकं पुन्नागाम्बुजपुष्पनागबकुलैः केशै शुकैरर्चितम् ॥ नित्यं ध्यानसमस्तदीप्तिकरणं कालाग्निरुद्दीपनं तत्संहारकरं नमामि सततं पातालसंस्थं मुखम् ॥ न्यास । ॐ तत्पादांगुलिपर्वभ्यां नमः ॥ ॐ स पादांगुलिभ्यो नमः ॥ ॐ वि जंघाभ्यां न० ॥ ॐ तुर्जानुभ्यां नमः ॥ ॐ व ऊरुभ्यां नमः ॥ ॐ रे शिश्नाय नमः ॥ ॐ णि वृषणाभ्यां नमः ॥ ॐ यं कट्यै नमः ॥ ॐ भर्नाभ्यै  नमः ॥ ॐ गो उदराय नमः ॥ ॐ दे स्तनाभ्यां नमः ॥ ॐ व उरसे नमः ॥ ॐ स्य कण्ठाय नमः ॥ ॐ धी दंतेभ्यो नमः ॥ ॐ म तालुने नमः ॥ ॐ हि नासिकायै नमः ॥ ॐ धि नेत्राभ्यां नमः ॥ ॐ यो भ्रूभ्यां यो ललाटाय नमः ॥ ॐ नः पूर्वमुखाय नमः ॥ ॐ प्र दक्षिणमुखाय नमः ॥ ॐ चो पश्चिममुखाय नमः ॥ ॐ द उत्तरमुखाय नमः ॥ ॐ यात् मूर्ध्ने नमः ॥ इति वर्णन्यासः ॥ ॐ तत्सवितुरंगुष्ठाभ्यां नमः ॥ वरेण्यं तर्ज्जनीभ्यां नमः ॥ ॐ भर्गोदेवस्य मध्यमाभ्यां नमः ॥ ॐ धीमहि अनामिकाभ्यां नमः ॥ ॐ धियो यो नः कनिष्ठिकाभ्यां नमः ॥ ॐ प्रचोदयात् करतलकरपृष्ठाभ्यां नमः ॥ अथ देहन्यासः ॥ ॐ भूः पादयोः ॥ ॐ भुवः जान्वोः ॥ ॐ स्वः नाभौ ॥ ॐ महः हृदये ॥ ॐ जनः कण्ठे ॥ ॐ तपः ललाटे ॥ ॐ सत्यं मूर्ध्नि ॥ ॐ तत्पादयोः ॥ ॐ सवितुर्जान्वोः ॥ ॐ वरेण्यं स्कंधयोः ॥ ॐ भर्गो हृदये ॥ ॐ देवस्य कण्ठे ॥ ॐ धीमहि वक्त्रे ॥ ॐ धियो यो नेत्रे ॥ ॐ नः मुखे ॥ ॐ प्रचोदयात् ॥ अस्त्राय फट् ॥ ॐ आपः अंगुष्ठाभ्यां नमः ॥ ॐ ज्योतिस्तर्जनीभ्यां नमः ॥ ॐ रसो मध्यमाभ्यां नमः ॥ ॐ अमृतम् अनामिकाभ्यां नमः ॥ ॐ ब्रह्म कनिष्ठिकाभ्यां नमः ॥ ॐ भूर्भुवः स्वरोम् करतलकरपृष्ठाभ्यां नमः ॥ ॐ अग्नये हृदयाय नमः ॥ ॐ वायवे शिरसे स्वाहा ॥ ॐ सूर्याय शिखायै वषट् ॥ ॐ ब्रह्मणे कवचाय हुम् ॥ ॐ विष्णवे नेत्रत्रयाय वौषट् ॥ ॐ रुद्राय अस्त्राय फट् ॥ इति न्यासः ॥ अथ वेदादिगीतायाः प्रसादजननं विधिम् ॥ गायत्र्याः संप्रवक्ष्यामि धर्मार्थकाममोक्षदम् ॥१॥
नित्यनैमित्तिके काम्ये तृतीये तपवर्द्धने ॥ गायत्र्यास्तु परं नास्ति इह लोके परत्र च ॥२॥
मध्याह्ने मितभुड्मौनी त्रिस्थानार्चनतत्परः ॥ जपेल्लक्षत्रयं धीमान्नान्यमानसकस्तु यः ॥३॥
कर्मभिर्यो जपेत्पश्चात्क्रमशः स्वेच्छयापि वा ॥ यावत्कार्यं न कुर्वीत न लोपेत्तावता व्रतम् ॥४॥
आदित्यस्योदये स्नात्वा सहस्रं प्रत्यहं जपेत् ॥ आयुरारोग्यमैश्वर्यं धनं च लभते ध्रुवम् ॥५॥
त्रिरात्रोपोषितः सम्यग्घृतं हुत्वा सहस्रशः ॥ सहस्रं लाभमाप्नोति हुत्वाग्नौ खदिरेंधनम् ॥६॥
पालाशैः समिधैश्चैव घृताक्तानां हुताशने ॥ सहस्रं लाभमाप्नोति राहुसूर्यसमागमे ॥७॥
हुत्वा तु खदिरं वह्नौ घृताक्तं रक्तचन्दनम् ॥ सहस्रहेममाप्नोति राहुचन्द्रसमागमे ॥८॥
रक्तचन्दनमिश्रं तु सघृतं हव्यवाहने ॥ हुत्वा गोमयमाप्नोति सहस्रं गोमयं द्विजः ॥९॥
जातीचंपकराजार्ककुसुमानां सहस्रशः ॥ हुत्वा वस्त्रमवाप्नोति घृताक्तानां हुताशने ॥१०॥
सोर्यमंडलबिम्बे च हुत्वा तोयं सहस्रशः ॥ सहस्रं प्राप्नुयाद्धैमं रौप्यमिंदुमये हुते ॥११॥
अलक्ष्मीपापसंयुक्ते मलव्याधिविनाशके ॥ मुच्येत्सहस्रजाप्येन स्नायाद्यस्तु जलेन वै ॥१२॥
गोघृतेन सहस्रेण लोध्रेण जुहुयुआद्यदि ॥ चौराग्निमारुतोत्थानि भयानि न भवंति वै ॥१३॥
क्षीराहारो जपेल्लक्षमपमृत्युमपोहति ॥ घृताशी प्राप्नुयान्मेधां बहुविज्ञानसंचयात् ॥१४॥
हुत्वा वेतसपत्राणि घृताक्तानि हुताशने ॥ लक्षाधिपस्यपदवीं सार्वभौमं न संशयः ॥१५॥
लक्षेण भस्महोमस्य हुत्वा ह्युत्तिष्ठते जलात् ॥ आदित्याभिमुखं स्थित्वा नाभिमात्रजले शुचौ ॥१६॥
गर्भपातादिप्रदराश्चान्ये स्त्रीणां महारुजः ॥ नाशमेष्यंति ते सर्वे मृतवत्सादिदुःखदाः ॥१७॥
तिलानां लक्षहोमेन घृताक्तानां हुताशने ॥ सर्वकामसमृद्धात्मा परं स्थानमवाप्नुयात् ॥१८॥
यवानां लक्षहोमेन घृताक्तानां हुताशने ॥ सर्वकामसमृद्धात्मा परां सिद्धिमवाप्नुयात् ॥१९॥
घृतस्याहुतिलक्षेण सर्वान्कामानवाप्नुयात् ॥ पंचगव्याशनो लक्षं जपेज्जातिस्मृतिर्भवेत् ॥२०॥
तदैव ह्यनले हुत्वा प्रपनोति वहुसाधनम् ॥ अन्नादिहवनान्नित्यमन्नाद्यं च भवेत्सदा ॥२१॥
जुहुयात्सर्वसाध्यानामाहुत्यायुतसंख्यया ॥ रक्तसिद्धार्थकान्हुत्वा सर्वान्साधयते रिपून् ॥२२॥
लवणं मधुसंयुक्तं हुत्वा सर्ववशी भवेत् ॥ हुत्वा तु करवीराणि रक्तानि ज्वालयेज्ज्वरम् ॥२३॥
हुत्वा भाल्लातकं तैलं देशादेव प्रचालयेत् ॥ हुत्वा तु निंबपत्राणि विद्वेषशांतये नृणाम् ॥२४॥
रक्तानां तंदुलानां च घृताक्तानां हुताशने । हुत्वा बलमवाप्नोति शत्रुभिर्न स जीयते ॥२५॥
प्रत्यानयनसिद्ध्यर्थं मधुसर्पिःसमन्वितम् ॥ गवां क्षीरं प्रदीप्तेऽग्नौ जुह्वतस्तत्प्रशाम्यति ॥२६॥
ब्रह्मचारी जिताहारो यः सहस्रत्रयं जपेत् ॥ संवत्सरेण लभत धनैश्वर्यं न संशयः ॥२७॥
शमीबिल्वपलाशानामर्कस्य तु विशेषतः ॥ पुष्पाणां समिधश्चैव हुत्वा हेममवाप्नुयात् ॥२८॥
आब्रह्मत्र्यंबकादीनां यस्यायतनमाश्रितः ॥ जपेल्लक्षं निराहारः स तस्य वरदो भवेत् ॥२९॥
बिल्वानां लक्षहोमेन घृताक्तानां हुताशने ॥ परां श्रियमवाप्नोति यदि न भ्रूणहा भवेत् ॥३०॥
पद्मानां लक्षहोमेन घृताक्तानां हुताशने ॥ प्राप्नोति राज्यमखिलं सुसंपन्नमकंटकम् ॥३१॥
पंचविंशतिलक्षेण दधिक्षीरं हुताशने ॥ स्वदेहे सिद्ध्यते जंतुः कौशिकस्य मतं तथा ॥३२॥
एकाहं पंचगव्याशी एकाहं मारुताशनः ॥ एकाहं च द्विजोऽन्नाशी गायत्रीजप उच्यते ॥३३॥
महारोगा विनश्यंति लक्षजप्यानुभावतः ॥ स्नात्वा शतेन गायत्र्याः शतमंतर्जले जपेत् ॥३४॥
शतेन यस्त्वपः पीत्वा सर्वपापैः प्रमुच्यते ॥ गोघ्नः पितृघ्नमातृघनु ब्रह्महा गुरुतल्पगः ॥३५॥
स्वर्णहारी तैलहारी यस्तु विप्रः सुरां पिबेत् ॥ चंदनद्वयसंयुक्तं कर्पूरं तंडुलं यवम् ॥३६॥
लवंगं सुफलं चाज्यं सिता चाम्रस्य दारुकैः ॥ अयं न्यूनविधिः प्रोक्तो गायत्र्याः प्रीतिकारकः ॥३७॥
एवंकृते महासौख्यं प्राप्नोति साधको ध्रुवम् अन्नाज्यभोजनं हुत्वा कृत्वा वा कर्मगर्हितम् ॥३८॥
न सीदेत्प्रतिगृह्णानो महीमपि ससागराम् ॥ येचास्य उत्थिता लोके गृहाः सूर्यादयो भुवि ॥ ते यांति सौम्यतां सर्वे शिवे इति न संशयः ॥३९॥
इति श्रीगायत्रीपटलं समाप्तम् ॥
॥ इति श्रीपरिशिष्ठप्रकरणं समाप्तम् ॥

N/A

References : N/A
Last Updated : December 14, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP