संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
सप्तदशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - सप्तदशोऽध्यायः

श्रीशिवरहस्यम्


ईश्वरः -
कुम्भीपाकासिपत्ने क्रकचकुणतनुः पूयजाले मलाशी
भूयात् सोपि कृमिश्च कल्पनियुतं सन्तप्तशूलीशयः ।
यो रुद्राक्षविभूतिवर्जितशिरःफालादिवक्षःस्थलः
श्रुत्यक्तामलकर्मधर्मरहितो लिङ्गार्चनेनोज्झितः ॥१॥
त्यक्त्वा रुद्रमपारपापहरणं पञ्चाक्षरं पावनं
यस्तूर्ध्वं विदधाति पुण्ड्रमफलं सन्तफचक्राङ्कितः ।
किं वक्ष्यामि महैनसां प्रतिदिनं राशीं समाप्नोतु सः
लालाजालविषाग्निवृश्चिककुले संपत्यतां तर्ज्यताम् ॥२॥
मामीशं हरितुल्यतां वदति यस्तं भ्राष्ट्र्मध्ये क्षिप
चक्रग्रावादितुल्यं ममजनिमवरं पूजयेद्योऽयुताधिः ।
पापैस्तस्य न निष्कृतिश्च विहिता कल्पायुतं पीडितः ॥३॥
ध्वांक्षाक्षिवत् भ्रमजुषो मुनयोपि मन्दाः कुन्देन्दुसन्निभशरीरवरं महेशम् ।
खद्योतवत् द्युतिजुषो हरिवेधसादिसम्येन चण्डतरणिं भ्रमतो वदन्ति ॥४॥
काकाक्षिवद्भ्रमपरं परयानुवन्धात् पुण्ड्रैस्त्रिपुण्ड्रशिवभक्तिविवर्जिताश्च ।
किञ्चित् कृपाधिकमहेश्वरवीक्षिताश्च बीडालवृत्तय हरिं समतोऽर्चयन्ति ॥५॥
मल्लिङ्गालयनाशको‍ऽप्यनुदिनं मद्दीपतैलापहः सन्तप्तायसवायसोरुचरणैः खङ्गैश्च खण्डीकुरु ।
तं पापिष्ठवरिष्ठ निष्ठुरबचोवीचीषु सूचीमुखे नेत्रे चाङ्गुलिपङ्क्तिवक्त्रनखरैः सर्वाङ्गसन्धावपि ॥६॥
नानाशस्त्रभुशुण्डिकार्मकशरैराविध्यतां भस्मसात् ।
कृत्वा स्वच्छतरो भवाशु सततं त्वेषा प्रतिज्ञा मम ॥७॥
सर्वं सहामि सहसा न तया यमाहं त्वन्मोहनं वरकृतघ्नसुवर्णहारम् ।
तं भूसुरघ्नसुसुरादनसङ्गिसङ्गं विश्वंभराहरणकारणकं नृपं च ॥८॥
सद्विप्रतल्पहरणे‍ऽप्यतिशिल्पयुक्तं कुल्यासु तप्ततिलतैलयुतास्वजस्रम् ।
दाहात् प्रदीप्तवपुषः परितो भ्रमन्तु मद्भक्तxञ्चनपरं न सहामि दुष्टम् ॥९॥
यो वै मदालयपरिभ्रमणप्रणामहीनोऽपि हीनकुलजोपरि शीलकश्चेत् ।
सोऽयं कृती नरवरः सुरपूजितश्च तस्योत्तमो हि जनकः स तु पुण्यशीलः ॥१०॥
ये निन्दन्ति शिवाश्रमेषु निरतान् भक्तांस्तथा पापिनो
मायाचारपरायणाः श्रुतिहितं ज्ञानं च वेदान्तजम् ।
वेदान् वेदविदो द्विजातिनिवहान् भस्म त्रिपुण्ड्रं मम
श्रीरुद्रं वरपञ्चपातकहरं पञ्चाक्षरं पावनम् ॥११॥
मत्प्रेमप्रकटैः पुराणसुकथासारं विनिन्दन्ति ये
रुद्राक्षानमलान् शिवक्षितितलं क्षेत्रं हि लिङ्गात्मकम् ।
मन्नामाद्यघनाशकं गुरुजनं ये वै विनिन्दन्ति तान्
तेषामामूललूनां कुरु कुरु रसनां क्षारसारैः क्षुराग्रैः ॥१२॥
मां निन्दन्त्यपि ये सुतैलविहितैः कार्पासशाणोद्भवैः
लाक्षादग्धवराङ्ग सर्ववपुषा संपूर्णविष्ठामुखान् ।
तान् कृत्वा नरकार्णवे शुनशतैराशीविषैर्दंशितान्
कृत्वा पातय कल्पकोटिषु चिरं दुःखं हि भुञ्जन्तु ते ॥१३॥
मन्नैवेद्यसुधाशनादिरहितं रुद्राक्षभस्मोज्झितं लिङ्गार्चाविमुखं निपीडय चिरं यन्त्रैस्तिलाघर्षकैः ।
तज्जिह्वां सुरया प्रपूर्य सिकतैः सूचीमुखैः पूरय ॥१४॥
ये लिङ्गालयसङ्गसुदृशापाङ्गोज्झिताः केवलं मत्सुत्या प्रणतिप्रदक्षिणमहापूजारथालोकनैः ।
तत्पाषण्डकुलैकमुण्डसुमहाषंडानि खङ्गैर्भृशं धावन् मण्डलवेगतस्त्वनुदिनं दण्डैश्च खण्डान् कुरु ॥१५॥
यो मत्क्षेत्रकथासुधाविमुखधीः पापात्मनां पापकृत्
सन्तप्तायससूचिपूरितमहाशङ्कूपमश्रोत्रकृत् ।
दुर्गन्धाविलमानमोहितधिया रुद्राक्षभस्मोज्झितो
मल्लिङ्गालयदर्शनस्तुतिनमत्पक्रामणैर्वर्जितः ॥१६॥
संकीर्णः श्चपचोऽपि तत श्रुतिहितं भस्माक्षधृक् पुण्ड्रयक्
मल्लिङ्गालयकुम्भदर्शनफलैः पुण्यैरथाकर्षणैः ।
तेऽपि त्वद्भवनं न यान्ति सहसा देवादिभिः पूजिताः
इत्येतन्मम शासनं यम सदा संपाल्यतां भीतितः ॥१७॥
हिमधामकलाविलासिमौलौ मयि कश्चिद्भवति प्ररूढभावः ।
सुकृतैर्बहुजन्मसंचितैः कृतकृच्छ्राचरणैः तपःकदम्ब ॥१८॥
सूतः -
इति शिववचसा यमोऽपि नत्वा सुरसंघैर्भगवन्तमीश्वरम् ।
परितुष्टाव हि चन्द्रचूडमीशं त्वतिभक्त्या प्रणतोऽभ्युवाच देवम् ॥१९॥
यमः -
सोमसामजकलावरकृत्तिधृक् भूधरोरुशिखराश्रय शम्भो ।
पारदोत्तमसुबीज सदारापारभारकलितान् परिपाहि ॥२०॥
सर्गरक्षणविधानदीक्षित ध्वान्तशिक्षक गदार्तिविनाश ।
देहि मोक्षपदवीमदवीयो वेदमौलिविहिते मृगयेऽहम् ॥२१॥
परिहर पुरहर शम्भो मुरहरसायक दरहास ।
गुरु भक्वरुग्धर घोरभवार्णवदुःखमपाकुरु शशिचूड ॥२२॥
सुमशरखरशरदूषितहृत्तटं खपट वरोत्तम शिव पाहि ।
अकपटवचसां शिखासखं ते पदयुगमाशु भजामि सांब शम्भो ॥२३॥
ताराराजकलाधरं पुरहरं श्रीराजराजार्चितं वैराजध्वनितोषितं भज शिवं श्रीशादिहारार्चितम् ।
भूभृद्राजकुमारिकासहचरं त्वां देवराजार्चितं राजद्राजनहिंकृतिप्रियतमं राजानमीशं मुखे ॥२४॥
स्वाराज्यं सुलभं लभेत सुकृतैस्त्वत्पादपद्मार्चकः
त्वामेवाशु भजामि सांब मनसा मन्तुं सहस्वाद्य मे ॥२५॥
स्कन्दः -
इत्थं तत्सुतितोषितोऽगमदसौ गौर्या वृषेन्द्रेण वै
स्कन्दाद्यैर्गणपैर्वृतः स तु यमो यातः शिवाज्ञैव हि ।
नत्वा विष्णुविधीन्द्रदेवनिकराः स्थानं ययुस्ते परं
आशीर्भिः प्रतिनन्द्य तं द्विजवरं चण्डांशुपुत्रेण ते ॥२६॥
याम्यैः स्वैर्गणपैर्वृतः प्रतिदिनं चक्रे शिवाज्ञां हि तां
हन्त्येवाशु जगत्त्रयीं सुविहितां लोकान् सुपुण्यैस्तथा ।
पापेनापि सुदुःखभोगनिकरैः पुष्णाति शर्वाज्ञया
........         ........         ........         ........         ॥२७॥
मार्कण्डेयमुनिस्तदा परवशो हर्षेण नत्वा शिवं
गत्वा स्वं भवनं प्रणम्य पितरावुद्वाह्य कन्यां शुभाम् ।
इष्ट्वा यज्ञवरैः शिवार्चनरतो लोकेषु सञ्चार्यभूत्
देवानां कुशलानुरक्तहृदयः शैवो मुनिः संवसन् ॥२८॥
लिङ्गालिङ्गनतत्परं द्विजसुतं मृत्योररक्षत् शिवो
भक्त्या भावितभावनाहृतभवं भावं भवानीपतिः ।
यस्त्वेतां श्रृणुयादपारविभवैः भक्त्यैव भुक्त्वा सुखं
यात्यन्ते शिवधाम वंशनियुतैः पुत्रैश्च पौत्रैरपि ॥२९॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे मार्कण्डेयचरितवर्णनं नाम सप्तदशो‍ऽध्यायः ।

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP