संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
एकोनविंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - एकोनविंशोऽध्यायः

श्रीशिवरहस्यम्


स्कन्दः -
तथा ते गौतममुनिं परिवार्य स्थिता द्विजाः । त्र्यम्बकार्चापरा नित्यं तदा ते द्विजसत्तमाः ॥१॥
रुद्रपञ्चाक्षरासक्ताः भस्मरुद्राक्षभूषणाः । शिवनैवेद्यपुष्टाङ्गाः शिपिविष्टार्चने रताः ॥२॥
क्षामकष्टानि संत्यज्य निष्ठावन्तः सदा द्विजाः । भूसुरा भासुराचारा दुराचारविवर्जिताः ॥३॥
अक्षपादाक्षवीक्षातः कटाक्षेण महेशितुः । सदाराश्च सपुत्राश्च शालिकेदाररक्षकाः ॥४॥
गौतमस्यान्नपाकार्थे शूलिनः कृपया मुदा । गोदावर्यास्तटकूटीनिकटे कष्टवर्जिताः ॥५॥
करटीत्वक्परीधानपदपङ्कजपूजकाः । धूर्जटिप्रेमसदने गौतमान्नभुजः सदा ॥६॥
क्षामक्षोमं विहायैव भक्ष्यभोज्यभुजोऽ‍मलाः । द्वादशाब्दावघि तदा साग्नयोऽथ कुटुम्बिनः ॥७॥
गौतमेनापि विनयैः परिप्रश्नान्नभोजनैः । पूजिता न्यवसन् विप्राः तत्र कष्टं विधूय च ॥८॥
कदाचित् तत्र देवस्य प्रसादेन महेशितुः । बभूव वृष्टिः कृपया पुरशासनशासनात् ॥९॥
भुवं तृणौषधियुतामकरोत् पाकशासनः । तृणौषधियुतामुर्वीं दृष्ट्वा ते स्वाश्रमं ययुः ॥१०॥
प्रयातुं गौतममुनिं अपृच्छन् विनयोज्ज्वलाः ।
मुनयः  -
भवता भवपादार्चाप्रभावेनानुमोदिताः । स्वाद्वन्नैर्भक्ष्यभोज्यैश्च शम्भोर्नैवेद्यवत्तरैः ॥११॥
धिक्कृतस्वामृतरसैः पावनैः पाविता वयम् । स्वान् देशान् गन्तुमिच्छामः त्वमनुज्ञातुमर्हसि ॥१२॥
सूतः -
तदा मुनीनां वचनं श्रुत्वा वै गौतमो मुनिः । तान् प्रणम्य तदा प्राह विश्लेषभयकातरः ॥१३॥
गौतमः -
यात यूयं स्वदेशांश्च स्वाश्रमाणि मुनीश्वराः । किञ्चित कालं विहृत्यात्र सुखेन मुनिसत्तमाः ॥१४॥
शाङ्गानां भवतां सङ्गो भवभङ्गाय मेऽधुना । शाङ्गाङ्गसङ्गवातोऽपि सुखसङ्गाय केवलम् ॥१५॥
किञ्चित् कोपसमायुक्ताः गमने विघन्कारिणम् । गौतमं तेऽब्रुवन् विप्रा गन्तुमेव द्विजं तदा ॥१६॥
द्विजाः -
भवतान्नप्रसादेन रक्षिताः स्नेहभावतः । बहुकालं निवसतामस्माकं गृहदर्शने ॥१७॥
पशूनां बान्धवानां च गृहक्षेत्रादिबुद्धयः । गन्तुमिच्छाम भद्रं ते शिवपादार्चने रताः ॥१८॥
गौतमः -
मासमेकं वसन्त्वद्य मयि स्नेहेन सत्तमाः । धनुःसंस्थो दिवानाथो ह्यत्र पूजा महेशितुः ॥१९॥
अस्मिन् संपूजिते मासि उषःकाले महेश्वरः । सेवन्तिकाभिर्बिल्वैश्च मुद्गान्नं विनिवेद्य च ॥२०॥
नैवेद्यं शांभवान् भोज्य यथासंभवमद्य मे । विभाज्य घृतमुद्गान्नं भुञ्जान्तु सगुडं द्विजाः ॥२१॥
एकस्मिन् भोजिते चास्मिन् मासि शांभवपुङ्गवे । कोटिशो भोजिता विप्राः तस्मान्मयि वसन्तु च ॥२२॥
इत्युक्तवन्तं तं तत्र गौतमं विनयेन हि । पाश्चात्यबुद्धयो विप्रास्तपसा गां कृशां तदा ॥२३॥
गौतमस्य तदा शालिक्षेत्रे सृष्ट्वाप्यचारयन् । गौतमो गां तदा दृष्ट्वा शालिभक्षणतत्पराम् ॥२४॥
उपरोधं प्रकुर्वन्तीं द्विजानां मुनिसत्तमः । तृणाग्रैर्वारयामास गच्छ गच्छेति गां तदा ॥२५॥
सा तृणस्पर्शमात्रेण गौतमस्य कराग्रतः । पतिता शालिकेदारे गौः प्राणांश्च मुमोच ह ॥२६॥
गौतमेन हतां दृष्ट्वा गां तदा मुनिसत्तमाः । गौर्हता गतमेनेति गर्हयन्तो द्विजास्तदा ॥२७॥
अघ्न्येत्येव गवां नाम वेदेषु प्रथितं सदा । नास्यान्नं भक्षितुं योग्यं इति विप्रा ययुस्तदा ॥२८॥
स्वदेशानाश्रयाण्येव निन्दन्तो मुनिसत्तमम् । गौतमोऽपि तदा ज्ञात्वा दौष्ट्यं द्विजैः कृतम् ॥२९॥
कोपाच्छशाप तान् विप्रान् तच्छृणुष्व मुनीश्वर ॥३०॥
गौतमः -
दुर्बुद्धयः सदा यूयं विप्रासूयापरायणाः । अन्योन्यनिन्दका यूयं भवन्तु ब्राह्मणाधमाः ॥३१॥
परान्नेषु सदा तृप्ताः अतृप्ताः स्वगृहे सदा । शूद्रप्रतिग्रहरता वर्णाश्रमविवर्जिताः ॥३२॥
नष्टवेदा दुराचारा भवन्तु ब्राह्मणाधमाः । विष्णुभक्तिच्छलेनैव शिवसन्दूषणे रताः ॥३३॥
तेनैव विष्णुर्विमुखो भवत्सु भवतात् द्विजाः । तप्तचक्राङ्किता यूयं भवन्तु ब्राह्मणाधमाः ॥३४॥
गोपीचन्दनलिप्ताङ्गाः श्वेतमृद्धारिणः सदा । दुष्टा दुराचाररता भवन्तु ब्राह्मणाधमाः ॥३५॥
त्रिपुण्ड्रनिन्दका यूयं वेदप्रोक्ते सनातने । रुद्राक्षनिन्दकाश्चैव तद्धारणविवर्जिताः ॥३६॥
वेदनिन्दारताश्चैव भवन्तु ब्राह्मणाधमाः । रुद्र पञ्चाक्षरे चापि तज्जपे शिवपूजने ॥३७॥
लिङ्गसंस्पर्शने वापि शिवक्षेत्रानुवर्णने । भवन्तु विमुखा यूयं सदैव ब्राह्मणाधमाः ॥३८॥
शिवनैवेद्यभुक्तौ च यूयं विप्राः पराड्मुखाः । प्रदोषसोमवारेषु भूतकालष्टमीषु च ॥३९॥
सायं लिङ्गार्चने हीनाः दिवाभुक्तिरताः सदा । भवन्तु विमुखा यूयं द्विजाः पाषाण्डिनः सदा ॥४०॥
शिवक्षेत्रे चाविमुक्ते शिवयोगिजनेषु च । शिवभक्तार्चने चापि भवन्तु विमुखाः सदा ॥४१॥
शिवाद्वैते च वेदान्ते गुरावपि महेश्वरे । भवन्तु विमुखा यूयं सान्वयाः कलिपीडिताः ॥४२॥
शिवप्रदक्षिणविधौ प्रणामस्तोत्रकर्मणि । भवन्तु विमुखा यूयं द्विजाः पाषाण्डिनस्तथा ॥४३॥
शिवनाम्नि शिवध्याने शिवतीर्थनिषेवणे । भवन्तु विमुखा यूयं द्विजाः पाषण्डिनस्तथा ॥४४॥
शिवलिङ्गाग्रविहितवर्तने च पराड्मुखाः । शिवलिङ्गसमं विष्णुं पूजयन्त्वतिपापिनः ॥४५॥
भवन्तु विमुखा यूयं द्विजाः पाषण्डिनः सदा । भवभावाहृताः सर्वे नरकं यान्तु सान्वयाः ॥४६॥
भवत्सङ्गे कुसङ्गापि नरकं यान्तु सान्वयाः ॥४७॥
यूयं शिरोव्रतविधौ शिवभस्मपुण्ड्रवेदान्तवेदगुरुभक्तिविहिनवंश्याः ।
काका इवातिचपलाः परितो भ्रमन्तु दारिद्र्यदुःखनिकरैः ससुताः सदाराः ॥४८॥
उक्षाधीश्वरकेतनं पशुपतिं लीक्षासमं वै हरं
मन्वानाः शिवमबिकासहचरं पुण्ड्रान्तरैः संयुताः ।
ध्वस्ता यात दिवानिशं जडधियः पापेन दुःखाधिका -
स्तेनैवाशु विनश्य वंशसहिता घोरं हि दुःखर्णवम् ॥४९॥
दारिद्र्येण निपीडिताः प्रतिभवं रोगादिदग्धाङ्गकाः
अन्ते यान्तु यमालयं सुनिशितैः शस्त्रैर्हताः पापिनः ॥५०॥
ये भस्मरुद्राक्षविहीनगात्राः ते भूसुग अपि सुरासभसंभवाः स्युः ।
शुद्रा अपि प्रमथनाथपदार्चका ये ते भासुरा भसितगात्रवराक्षपूताः ॥५१॥
स्कन्दः -
इत्थं गौतमवाक्यतो मुनिवराः शापान्विता लाञ्छनैः
युक्ताश्चोञ्चपरायणाः प्रतिभवं दारासुतान्नार्थिनः ।
भ्रान्ताः शान्तिविवर्जिताश्च नरकं यान्तद्य तप्ताङ्गका
रोगाक्रान्तपशुप्रभावविहिता घोरा हरद्वेषिणः ॥५२॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे गौतमशापवर्णनं नाम एकोनविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP