शिवाख्यः चतुर्थाम्शः - द्वविंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
दधीचोऽपि महायोगी हरभक्तो जितेन्द्रियः । भार्गवो धुन्धुमूकाख्यः तपस्वी द्युमणिद्युतिः ॥१॥
तस्य पुत्रोऽभवद्विप्रो दधीचो बाल एव हि । उपनीतस्तदा पित्रा वेदानप्यग्रहीत् तदा ॥२॥
स्वाश्रमे निवसंस्तत्र हरपादार्चने रतः । शर्यातिपुत्रो मेधावी क्षुपो नाम महाबलः ॥३॥
सूर्यवंशसमुत्पन्नः पित्रा सोऽप्युपनायितः । सहाध्याय्यभवत् तस्य दधीचस्य मुनेस्तदा ॥४॥
स रथेनाजगमाशु पित्रा तस्यानुमोदितः । जग्राह स मुनेः पादौ धुन्धुमूकस्य सत्तमः ॥५॥
उवाच प्राञ्जलिर्वाक्यं क्षुपो नृपतनूद्भवः ।
क्षुपः -
अधीष्व मामपि गुरो तव पुत्रेण शाधि माम् । ब्रह्मचर्येण भवति निवस्त्यामि द्विजोत्तम् ॥६॥
ओमित्युक्तेऽथ मुनिना दधीचेन सहादरात् । उवास नियतस्तत्र क्षुपः क्षत्रियनन्दनः ॥७॥
धनुर्वेदं च गान्धर्वं वेदान् वेदाङ्गमेव च । सरहस्यं स जग्राह सदधीचस्तदा मुनेः ॥८॥
धुन्धुमूकात् द्विजश्रेष्ठादुभावपि मुदा तदा । विप्रक्षत्रकुलोत्पन्नौ दधीचिः क्षुप एव च ॥९॥
तदा गुरुकुले तत्र वर्तमानौ सवर्णिनौ । दधीचिस्तत्र तनयं नृपस्याह तदा हसन् ॥१०॥
दधीचिः -
भवान् स्निग्धः सहाध्यायी गुरुर्भ्राताऽहमेव ते । त्वयि शासति तद्राज्यं त्वत्पितुर्नृपनन्दन ॥।११॥
तदा त्वया समेष्यामि त्वत्तः पूर्णमनोरथः । हिरण्यगोभिर्वासोमिः धनधान्यौर्मुदान्वितः ॥१२॥
इत्युक्तं स दधीचस्य श्रुत्वा प्राह नृपात्मजः ॥१३॥
भवता च सुखं दुःखं मम तुल्यं द्विजोत्तम । त्वया शासेऽहमतुलं स्फीतं जनपदं पितुः ॥१४॥
यदुक्तं तत् त्वया विप्र तत्कर्तास्म्यविचारितम् । इत्यन्योन्यं मुदा युक्तौ दधीचिः क्षुप एव च ॥१५॥
ऊषतुर्द्वादशाब्दं तौ तस्मिन् विप्राश्रमे तदा । अनुज्ञाप्य ययौ दत्वा लब्धानुज्ञौ गुरोस्तदा ॥१६॥
घुन्धुमूकं दधीचस्य पितरं नृपनन्दनः । गोभिर्वासोभरैर्भूम्या रथेमैर्धनधान्यकैः ॥१७॥
संपूज्य प्रययौ तत्र पितरं दधीचिनः । आलिङ्ग्य साश्रुय सस्नेहं ययौ स नृपनन्दनः ॥१८॥
कदाचिल्लब्धविद्यं तं पुत्रं वीक्ष्याथ चिन्तयन् । शर्यातिः कन्यकामिष्टामुद्वाह्याथ स्वसूनवे ॥१९॥
अङ्गस्यायं नृपस्याथ मालिनीं नाम नामतः । सर्वलक्षणसंपन्नां शुभे काले नृपोत्तम ॥२०॥
दधीचोऽपि तदा पित्रा धून्मुमूकेन लक्षितः । लब्धविद्योऽथ जग्राह कन्यां वैरोचनस्य च ॥२१॥
मुनेर्गर्गस्य तनयां मित्राणीं नाम नामतः । कृतोद्वाहौ द्विजनृपौ लब्धपुत्रौ तदोषतुः ॥२२॥
भूभृत्कुले विप्रकुले द्विजराजकुमारकौ । पितर्युपरते तौ च तपोराज्यपरायणौ ॥२३॥
कदाचिदागान्नृपतिं वीक्षितुं स दधीचकः । सखा स नृपतेः पुत्रं प्राप्तराज्यं तदा मुदा ॥२४॥
दृष्ट्वा च स्बवयस्यं तं क्षुपः पूजामथातनोत् । विष्टरेणार्ध्यपादेन गामनुज्ञाप्य तं तदा ॥२५॥
ऊषतुर्मुदितौ तत्र तस्मिन् नृपवरालये । प्राप्तराज्यं च नृपतेः पुत्रमाह रहोगतः ॥२६॥
दधीचिस्तपतां वर्यः तपनामलभा मुनिः ॥२७॥
दधीचिः -
सखे तपोवने पूर्वं पुनरुक्तं त्वया तदा । किमद्य स्मरसे राजन् आवयोः प्रसमं वचः ॥२८॥
तत्तथ्यं कुरु मा हासीः सर्वे सत्ये प्रतिष्ठिताः । लोका ब्रह्मादयो देवाः ऋक्षादित्याः सचन्द्रकाः ॥२९॥
परिभ्रमन्ति सत्येन अहोरात्रमतन्द्रिताः । नात्येति वेलामुदधिः भूमिः पर्वतधृक् स्वयम् ॥३०॥
श्रुतिभिः कथितो राजन् ऋतं सत्यं महेश्वरः । स दधीचिवचः श्रृत्वा क्षुपो विप्रं हसंस्तदा ॥३१॥
स करास्फोटमत्युच्चं गर्वपर्वतमध्यगः । यौवनोन्मादसंवीतः प्राप्तराज्यश्च भूपतिः ॥३२॥
क्षुपः -
अहो द्विजस्य ते बुद्धिः दृष्ट्वा कष्टप्रदायिनी । आढ्येन न दरिद्रो वै मित्रं नाविदुषो द्विजः ॥३३॥
विद्वांस्तथा श्रोत्रियेण विप्र ह्य श्रोत्रियो द्विजः । विप्राणां पश्चिमा बुद्धिरिति वार्ता गरीयसी ॥३४॥
या सा लोकेषु दृष्ट्वा सा त्वयि मूढतमे मुनौ । इत्युक्तं तद्वचः श्रुत्वा सावज्ञं विप्रपुङ्गवः ॥३५॥
क्रोधामर्षाश्रुनयनः तमाह नृपनन्दनम् ॥३६॥
दधीचिः -
धन्योऽसि कृतकृत्योऽसि यत्ते वाक्यमरुन्तुदम् । एष गच्छामि तपसा सर्वमाराधयाम्यहम् ॥३७॥
सर्वं संसाधयाम्येव भुक्तिं मुक्तिं च शाश्वतीम् । त्वं चैवाल्पप्रदो मूढ राज्यगर्वेण मोहितः ॥३८॥
विनश्वरं धनं तेऽद्य को हि स्वल्पे समेधते । देव्यां वीक्ष्यैव दातृत्वं तव मूढतमस्य हि ॥३९॥
खण्डभूम्यधिपस्त्वं हि किञ्चिज्ज्ञः क्षत्रबन्धुमान् । भूमेर्दातारमीशानं सत्पतिं मोक्षदायकम् ॥४०॥
अखण्डेन्दुकलामौलिं ब्रह्मविष्ण्वादिवन्दितम् । तमेव तपसाऽऽराध्य लप्स्ये सर्वमनोरथम् ॥४१॥
ब्राह्मणानामधिपतिः शिव एव सनातनः । क्षत्रियाणां हरिः प्रोक्तः सोऽपि शङ्करकिङ्करः ॥४२॥
तदर्चनेन नरकं राज्यान्ते त्वमुपाश्नुषे । किञ्चिद्विहृत्य भूमौ त्वं दुःखाधिक्यैः सुखभ्रमैः ॥४३॥
अहमीशप्रसादेन भुक्तिं मुक्तिमुपाश्नुयाम् । धिक् धिक् त्वां दुष्टराजानं वयस्येऽपि सुनिर्दयम् ॥४४॥
इत्युक्त्वा तं तिरस्कृत्य क्षुपं नृपवरात्मजम् । जगाम स्वाश्रमायैव दधीचिः क्रोधमर्षितः ॥४५॥
भस्मरुद्राक्षसहितः त्रिपुण्ट्रोज्ज्वलमस्तकः । तपसा तोषयामास रुद्रं पञ्चाक्षरेण हि ॥
लिङ्गार्चनरतः स्तौति रुद्रेण नियतं मुनिः ॥४६॥
दधीचिः -
उक्षाधीश्वरकेतनं त्रिभुवनाध्यक्षं सुधाधामसन्खण्डोत्तंसितलोचनश्रवणजापारोरुहारप्रियम् ।
दिग्वासं वसतिप्रपञ्चहृदयागारप्रमोदास्पदं मारारातिमपारवेदशिखरैरीड्यं भजे शङ्करम् ॥४७॥
हृदम्बुनचिदम्बरे दिवसनाथकोटिप्रभाविकासिकनकाम्बुजोद्भवपयोधितल्पान्तिमम् ।
प्रकृष्टनयनाम्बुजप्रथितपूज्यपादाम्बुजं भजामि यमिहृत्सुधाविकसिताम्बुजोद्भासितम् ॥४८॥
मुधा सुधासाधनतोऽपि देवान् खिन्नाननानुरुगरोद्धतकीलदग्धान् ।
मुग्धान् सुदुग्धप्रभवोऽम्बुधेस्तटे देवानरक्षत भयेऽशरणान् शरण्यः ॥४९॥
मुग्धेन्दुचूडकरुणातरणिं विहाय खद्योतवद्विधिहरीन्द्रमुखान् सुरांश्च ।
सेवन्ति गाढतमसैकविनाशहेतुं मूढा हि ते दृढतरं मृडभक्तिहीनाः ॥५०॥
कन्दर्पदर्पशमनार्चनजातपदर्पात् क्कायं नृपः क्क च हरिः क्क च देवसङ्घाः ।
नेक्षे तं क्षितिपाधमं क्षतसुखं सापेक्षमीक्षे सदा त्र्यक्षं दक्षसुपक्षपातसुरतासन्धुक्षिताधोक्षजम् ॥५१॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे दधीचिक्षुपसंवादे दधीचितपः -शिवस्तोत्रवर्णनं नाम द्वाविंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP