शिवाख्यः चतुर्थाम्शः - त्रयस्त्रिंशोऽध्यायः
श्रीशिवरहस्यम्
स्कन्दः -
वृषभोऽपि पुरा धर्मो गोमुक्तीशं महेश्वरम् । चतुष्पादः स्थितस्तत्र सम्यगाराध्य शङ्करम् ॥१॥
तताप नियतं तत्र गोमुक्तीश्वरसन्निधौ । वर्षाणामयुतं धर्मः शिवलिङ्गावलोककः ॥२॥
निराहारः स्थितो धर्मः सन्निधौ परमेशितुः । अहर्निशमविश्रान्तः पश्यन् लिङ्गं पिनाकिनः ॥३॥
भस्मरुद्राक्षकवचः ककुदालंबिचामरः । विषाणमकुटीकोटीसास्नाघण्टावलीयुतः ॥४॥
त्रिपुण्ट्रेनोज्ज्वलद्वक्त्रो रुद्राध्यायजपादरः । शिवविन्यस्तनयनो जगद्विन्यस्तमानसः ॥५॥
पादैस्तिष्ठन् सहस्रं वै प्रजपन् रुद्रमेव हि । घनगम्भीरघोषेण वर्षाणि नियमात् तदा ॥६॥
पादत्रयैरथोत्तिष्ठन् साक्षाद्धर्ममयो द्विज । सहस्रमेकं वर्षाणां जपन् रुद्रं महेश्वरम् ॥७॥
पश्यन्नुग्रं तथैवाग्रे ग्रीष्मसन्तापिताङ्गकः । पदद्वयेन वर्षाणां सहस्रं वृषभः स्थितः ॥८॥
जपन् रुद्रं महादेवं संवीक्ष्य तपसा स्थितः । एकपादेन वृषभः स तदाऽधिष्ठितस्तदा ॥९॥
रुद्रविन्यस्तनयनो रुद्राध्यायजपादरः । सहस्रस्यान्तिमे वर्षे तदा प्रादुर्बभौ हरः ॥१०॥
तल्लिङ्गादम्बिकायुक्तो गणबृन्दनिषेवितः । प्रणमन्तं पादपद्मे स्तुवन्तं वीक्ष्य भक्तितः ॥११॥
पस्पर्श तन्मुखाम्भोजं भगवत्तरहस्ततः । हरxस्पर्शनादेव चन्द्रोदय इवाम्बुधिः ॥१२॥
तरङ्गमालाविततो वर्धतेऽनर्गलं यथा । प्रालेयाचलसङ्काशः तपसा कर्शितोऽपि सन् ॥१३॥
अवधेत तदा धर्मः तुष्टुवे साम्बमीश्वरम् ॥१४॥
धर्मः -
पाहीशान दयानिधान जगतां नाथाधुना मां सदा
त्र्यक्षाक्षय्यदृशा क्षपापतिकलामौले विलोक्यादरात् ।
मामानन्दय नन्दय त्रिभुवनं पापौघसङ्घोज्झितं
त्वत्पादाम्बुरुहेक्षणं क्षणमतः कुर्वे यथा तत्कुरु ॥१५॥
हे शम्भो शशिखण्डचूड भगवन् स्वामिन् मृडानीपते
त्वामीड्यं वरवेदवाक्यनिवहैः स्तोतुं समर्थोऽद्य कः ।
स्तोष्ये त्वां पशुभावतः पशुपते भक्त्यैव भक्तादरो
बद्धं मोचय संसृतेरघचयैर्जाने न किंचित प्रभो ॥१६॥
भवहर भुवनाकृते महेश त्रिदशवरोत्तम देवसार्वभौम ।
तव भरवहने समर्थमीश त्रिभुवनधामभरं यथा वहेयम् ॥१७॥
वितर बलवरं बलप्रमाथ प्रमथसनाथ महेश दीननाथ ।
अव शिव सदयं उमासनाथ बलमीश प्रविधेहि मे तनूषु ॥१८॥
सूतः -
तत्स्तुत्या तुष्टहृदयो महेशान उवाच तम् । संवीक्ष्य वृषभं चाग्रे युगपादैर्व्यवस्थितम् ॥१९॥
ईश्वरः -
वरं वरय भद्रं ते धर्म रुद्रजपादर । तवादेयं न मे किञ्चित् मम भक्त्या तपस्यया ॥२०॥
इत्युक्तो देवदेवेन प्राह धर्मो महेश्वरम् ।
वृषभः -
तव भक्तिं स्थिरां शम्भो याचेऽहं सर्वकामदाम् । नान्यद्वृणे महादेव तवोद्वाहे समर्थताम् ॥२१॥
देहि देव विरूपाक्ष त्रिलोकीजठर प्रभो । त्वत्सन्निधावेव रतिर्ममास्तु हर शङ्कर ॥२२॥
स्कन्दः -
इत्युक्तं वृषवचनं निशम्य देवो देवानां प्रमुख ....... मथाजुहाव ( ? ) ॥२३॥
धेनूनां गणपुङ्गवोत्तमगणे नन्दां सुभद्रां तथा
कामाख्यां सुरभिं च पुण्यनिवहां देवीं सुनन्दामपि ।
तस्योद्वाहयदीश्वरः सुरवरैस्तूर्यौघसङ्घैस्तदा
धर्मेन्द्राय वृषाय पावनमुमाकान्तो वरं तं ददौ ॥२४॥
ईश्वरः -
यो मे मन्दप्रदोषे वृषवृषणकरस्तुङ्गलिङ्गे हि श्रृङ्गे
संपश्येत् स तु मन्दपापनिचयः पुण्याद्रिसङ्घैर्युतः ।
किं तस्यावभृथश्रमैर्वरमहादानैश्च दीनावनैः
धर्मस्याश्रयतः सदैव स हि मे हृत्पङ्कजे संस्थितः ॥२५॥
स्कन्दः -
इत्थं धर्मवरे वरं सुबहुशो दत्वा तिरोऽधत्त वै तस्मिन् लिङ्गावरे प्रतर्दनमुनेः संपूजिते कामदे ।
धर्मोपि स्थित एव सन्निधिवरे उद्वाह्य धेनूगणं दृष्ट्वा लिङ्गवरेक्षणेन परमानन्दोल्लसद्भक्तितः ॥२६॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे धर्मरूपवृषानुग्रहवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
N/A
References : N/A
Last Updated : April 06, 2017
TOP