संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री शिवरहस्यम्|शिवाख्यः चतुर्थाम्शः|
सप्तविंशोऽध्यायः

शिवाख्यः चतुर्थाम्शः - सप्तविंशोऽध्यायः

श्रीशिवरहस्यम्


जैगीषव्यः -
कथं कालाग्निरुद्रो वाऽऽचरद्ब्रह्महणो व्रतम् । ईशाज्ञया वद स्कन्द नन्दितामरबृन्दक ॥१॥
सूतः -
इति तद्वचनं श्रुत्वा च चाह मुनिसत्तमम् । गजाननानुजः श्रीमान् भवस्य चरितं महत् ॥२॥
स्कन्दः -
ईश्वराज्ञावशाद्रुद्रः स्वीचक्रे तां द्विजाहतिम् । दिगम्बरो जटामौलिर्भस्मच्छन्नाङ्गमस्तकः ॥३॥
पादुकाविलसप्तादः कपालं ब्राह्ममुद्वहन् । दधत् सव्येन शूलं च चञ्चच्चन्द्रकलाधरः ॥४॥
व्यालयज्ञोपवीतश्च धृतनागसुकुण्डलः । डमरु वादयन् घोरं देवलोकांश्च पीडयन् ॥५॥
देवलोकांश्चचारासौ द्वादशाब्दं तदा द्विज । वेदांश्च श्वगणाकारान् कृत्वा कालाग्निरुद्रकः ॥६॥
चचार भिक्षाव्याजेन मदविपगतिस्तदा । ब्राह्मे च वैष्णवे चैव कुबेरेन्द्रमरुत्सु सः ॥७॥
वायव्ये वारुणे याम्ये नैरृताग्नि-पुरेषु च । शून्यालयेषु बभ्राम गजो नलवनेष्विव ॥८॥
तत्रत्यं मधुमैरेयं पिबन् कलशजालकैः । भक्ष्यानुच्चावचान् जक्षन् गन्धानालेपयंस्तदा ॥९॥
देवोद्यानस्रजा वर्ष्म शोभयन् भाति भूतपः । तं दृष्ट्वा भयवित्रस्ता देवा जग्मुर्यथागतम् ॥१०॥
सा चान्वगात् तदा वध्या कृष्णाड्गी निर्णतोदरी । दंष्ट्राकरालवदना सृक्किणी लेलिहन् (?) मुहुः ॥११॥
ऊर्ध्वोद्यद्विकृताताम्रकेशा रक्तारुणेक्षणा । दण्डहस्ताऽनुवव्राज रुद्रं कालाग्निसंभवम् ॥१२॥
मुनिः -
ईशानेक्षणतः स्कन्द न नष्टा किं तदा हि सा । यस्य स्मरणमात्रेण तन्नामोच्चारणेत हि ॥१३॥
शिवेति कीर्तनादेव ब्रह्महत्या विनश्यति । तं रुद्रमनुवव्राज तद्वै विस्तरतो वद ॥१४॥
स्कन्दः -
लोकसङ्ग्रहणार्थाय ईशाज्ञावशतस्तदा । कालाग्निरुद्रस्तां वध्यां मानयामास विश्वपः ॥१५॥
चचार देवलोकेषु तच्छृणुष्व मुनीश्वर । ऐन्द्रे व वारुणे याम्ये वैष्णवे ब्रह्मसद्मनि ॥१६॥
कुबेरयक्षसदने गन्धर्वोरगसद्मनि । चचार भिक्षां रुद्रोऽसौ तैश्च संपूजितो मुदा ॥१७॥
तं दृष्ट्वा कालदमनं शङ्करं कालभैरवम् । रूपलावण्यसंपन्नं नारीकुलमथाभ्यगात् ॥१८॥
गायन्तं विविधं गीतं नृत्यन्तं ददृशुस्तदा । सस्मितं प्रेक्ष्य वदनं चलद्भ्रूभङ्गमेव च ॥१९॥
स सेवदानवादीनां लोकानभ्येत्य शूलभृत् । जगाम विष्णोर्भवनं यत्रास्ते पुरुषोत्तमः ॥२०॥
सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे । अविज्ञाय परं भावं रुद्रस्य परमात्मनः ॥२१॥
न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः । शङ्खचक्रगदापाणिर्विष्वक्सेनो गणोत्तमः ॥२२॥
तं शूलमूलेनोद्भिद्य भ्रामयामास वेगतः । वमन् स रुधिरं वर्षं ववर्ष मुखतो द्विज ॥२३॥
तत्याज जीवितं तत्र मृगो व्याघ्रहतो यथा । विवेश विष्णोर्भवनं तस्यादाय कलेबरम् ॥२४॥
तं वीक्ष्य जगतो हेतुमीश्वरं जगतो हरिः । तुष्टाव प्रणतो भूत्वा तं रुद्रं हरिरव्ययः ॥२५॥
विष्णुः -
करकलितकपालं ब्रह्ममुण्डोरुमालं गललसदहिमालं शूलकीलाविशालम् ।
मदगजवरलीलालोकनाटोकिसालं सुरकुवलयसोमं त्वां भजे कालकालम् ॥२६॥
करधृतमृगबालं बालविप्रानुकूलं सुविहितगरनीलं शर्वपादाब्जलोलम् ।
सुरवरदलनाद्यैर्मद्गणप्राणलीलं अनलकलितशूलं त्वां भजे कालकालम् ॥२७॥
सूतः -
तदा विष्णुस्तुतो रुद्रो हर्षवर्षेण भूयसा । देहि भिक्षामिहोवाच यावन्मे तुष्टिरद्य भो ॥२८॥
ततो ध्यात्वा तदा विष्णू रुद्रमाह गतव्यथः । गृहाणेदं हि भगवन्नान्यैस्तृप्तिरिहाद्य ते ॥२९॥
तदा त्रिशूलमूलेन तच्छिरोद्भिद्य वैष्णवम् । तद्रक्तमपिबद्रुद्रो घनघोषो हसन्मुहुः ॥३०॥
नीरक्तं माधवं दृष्ट्वा तमुज्जीवयदञ्जसा । ब्राह्मं कपालमादाय तद्गणं प्रमुमोच ह ॥३१॥
तेनानुज्ञापितस्तत्र ईशाज्ञावशतस्तदा । जगाम लीलया रुद्रो दिव्यां वाराणसीं पुरीम् ॥३२॥
ततः सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।
स्कन्दः -
एवं भिक्षानुशिक्षा विधिहरिसुरगट्यादसांनाथलोके
याम्ये भीतैश्च देवैर्मुनिवरनिकरैर्धावितैर्वीक्ष्य रुद्रः ।
उच्चैर्घोषो हसंश्च हरिगणप्रवरं शूलमूले च प्रोतं
प्रेतं तद्रक्तधारां हरिशिरसिभवां ब्रह्ममुण्डेऽपिबात्ताम् ॥३३॥
भीत्या रुद्रस्य धावन् भुजगशमनवत् देहयुक्तः सुरेशः
तत्रापां पतिरप्यथाखुवरको ध्वांक्षोऽभवद्वै यमः ।
यक्षो भिक्षणशिक्षणेन सरमापुत्रोऽभवद्भीतितः
का वाऽन्यत्र कथा सुरेषु विहिता ते कान्दिशीकाभवन् ॥३४॥
विश्वेशस्य पुरीमियाय गणपै रुद्रोऽपि शर्वाज्ञया
वध्या सापि तिरश्चकार सहसा रूपं स्वमापादरात् ।
तच्छैलोपममण्डलप्रतिनिभं भुमौ कपालं पतत्
स्नात्वाऽसौ मणिकर्णिकामलजले नत्वा च विश्वेश्वरं
तत्तीर्थं समभूत कपालशमनं पुण्यं च काश्यां परम् ॥३५॥
रुद्राः -
निर्वाणार्णधार भगवन् त्वं शर्वरीशानन वामार्धाङ्गभुजङ्गसङ्गत महाभस्मैकसङ्ग प्रभो ।
यत्काश्यां विशतां महौघनिवहं दूरेऽप्यदूरः सतां त्वं चान्नाधिपतिः सदैव मुदितो वेदेषु जेगीयसे ॥३६॥
अंबाऽन्नप्रियदायिनी भगवतः पुत्रोऽ‍प्यसौ ढुण्ढिxट्
दण्ड्यान् दण्डयति प्रतिक्षणमसौ श्रोदण्डपाणिः सदा ।
भीरूणां भयनाशनाय भवता श्रीभैरवः कल्पितः
श्रीकर्णीं मणिकर्णिका विजयते लिङ्गालिसौधोत्तरा ॥३७॥
विश्वेशान तव प्रभावमतुलं जानेत को दुर्जनो
यस्मिन्नन्तकभीतिलेशरहिते त्वं चान्त्यभृषाप्रदः ।
दिव्योंकारमहाध्वनिं ह्युपदिशन् मुक्त्यङ्गनाकामिनं
कृत्वा भोगिफणालिहारसुगलं चन्द्रार्धगङ्गाधरम् ॥३८॥
भस्माभ्यक्ततनुं करीन्द्रजमहाचर्माम्बरोद्यत्कटिं हस्ते शूलकपालमौलिविहितं नेत्रत्रयेनोज्वलम् ।
उक्षाधीश्वरकेतनं गरगलं कृत्वा नरं पावनं इत्युक्त्वा प्रणतो विधीन्द्रसहितो रुद्रस्तदा निर्ययौ ॥३९॥
हृष्टो हर्षपरंपरानुभवतो धाम स्वमत्यादराद्गच्छंस्तत्र जगाद सूक्तिपरमैरानन्दवर्षैर्युतः ।
तच्चानन्दवनं सनन्दनमहायोगीन्द्रसेव्यं सदा यश्चात्र स्वतनुं जहाति स नरो धन्यो भवेन्नेतरः ॥४०॥
रुद्रः -
वाराणसि त्वयि सदैव सरोगभूमावारोग्यभूमिरित काममलीकवादः ।
सन्तम्थुषां भवति यत्र वपुः सशूलं जन्मान्तरेऽपि जलभारवदुत्तमाङ्गम् ॥४१॥
वाराणसीं प्राप्य बुधाः पितृभ्यो जलाञ्जलिं सादरमर्पयन्ति ।
पाननि सर्वाणि ततः पितॄणां भवन्त्यहो दत्तजलाञ्जलीनि ॥४२॥
ये मृष्टान्नभुजो गजोत्तमहयारोहाः स्वगेहान्तरे
मत्ताभिर्महिलाभिरत्न विहरन्त्यामुक्तमुक्तास्रजः ।
ते घोरास्थिधरा विराजदनडुद्वाहाः विषाहारिणो
नर्तिष्यन्त्यवशात् श्मशाननिलये नीचैः पिशाचैः सह ॥४३॥
दत्तं शाम्भवपुङ्गवे किमपि तत् क्षेत्रप्रभावाद्भवेत्
दानं कोटिगुणान्वितं भवति तत् ख्यातं त्वयि त्वास्थया ।
वासं प्रपय मुहुर्बहूनि ददतो वासांसि जन्मान्तरे
लोका हन्त भजन्ति दिग्वसनतां हे काशि तुभ्यं नमः ॥४४॥
इति श्रीशिवरहस्ये शिवाख्ये चतुर्थांशे कालाग्निरुद्रकृतब्रह्महत्याव्रतपालन-विष्णुरक्तपान-वाराणसीगमन-कपालमोचनतीर्थवर्णन-वाराणसीस्तुतिवर्णनं नाम सप्तविंशोऽध्यायः ॥

N/A

References : N/A
Last Updated : April 06, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP