स्त्रीदुष्टाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
श्रुत्वेति सारिकावाक्यं राजपुत्रः सविस्मयः ।
चूडामणिं विदग्धानामपृच्छत्सस्मितः शुकम् ॥२२४॥
पृष्टः शोणमणिच्छायचञ्चुर्मरकतप्रभः ।
रत्नाद्रिकुञ्जसिञ्जान इव क्रीडाशुकोऽवदत् ॥२२५॥
हर्षवत्यभिधानायां धर्मस्य नृपतेः पुरि ।
बभूव धनदत्ताख्यः कुबेरसदृशो वणिक् ॥२२६॥
सुतां वसुमतीं नाम सदा ददौ वसुमान्मथम् ।
कान्तां समुद्रदत्ताय तारुण्यतरुमञ्जरीम् ॥२२७॥
दत्वा पुत्रीं प्रियां तस्मै ताम्रलिप्तनिवासिने ।
अपुत्रो नात्यजद्गेहात्पुत्रत्वे परिकल्पिताम् ॥२२८॥
कदाचित्सा शशिमुखी तुङ्गवातायनस्थिता ।
ददर्श पथि सुस्नातं युवानं द्विजपुत्रकम् ॥२२९॥
तं दृष्ट्वा कामवातेन नदीवाकुलतां गता ।
कुलकूलनिपाताय कृतारम्भावदत्सखीम् ॥२३०॥
सखि पूर्णेन्दुवदनो द्विजोऽयं प्रतिभाति मे ।
भुजङ्गो येन जातेयं विषव्याप्तेव मे तनुः ॥२३१॥
वृथा मे यौवनमिदं याति नेयं स्तनस्थली ।
यदैवद्वक्षसि क्षिप्रं गाढालिङ्गनखर्वताम् ॥२३२॥
उक्त्वेति मन्मथहता तया चानाय्य तं रहः ।
भेजे रतिं को हि शक्तो धर्तुं रागवतीमनः ॥२३३॥
सुचिरं रममाणायां तस्यां तेन विलासिना ।
कौमारस्तत्पतिस्तूर्णमाययौ सोत्सुकश्चिरात् ॥२३४॥
पूजितः श्वशुरेणासौ निशि शय्यानिकेतनम् ।
विवेश माल्यधवलं मधुपानारुणेक्षणः ॥२३५॥
साप्यन्यसक्ता तं प्राप्य शीतार्तेवार्तिपीडिता ।
भुजोरुस्वस्तिकाक्रान्तुकुचश्रोणीतटास्वपत् ॥२३६॥
अवाङ्मुखी निःश्वसन्ती स्पर्शसंकुचिता मुहुः ।
स तां प्रसादयामास मुग्धो मौनावलम्बिनीम् ॥२३७॥
अन्यत्र बद्धसौहार्दाः सावलेपाः सदा क्रुधः ।
अधिकं क्लीबमूर्खाणां यान्ति वल्लभतां स्त्रियः ॥२३८॥
इति दुःखाकुला तन्वी पत्युः पार्श्वे बभूव सा ।
कटुकौषधतुल्यं तं वेपमाना पितुर्भयात् ॥२३९॥
( सिषेवे कम्पयन्ती खं शिरः कथमपि क्रुधा ) ।
अत्रान्तरे स्वसंकेतं शून्योद्याने विधाय सा ।
रागिणी तं द्विजसुतं प्रसुप्ता भर्तुरन्तिके ॥२४०॥
मधुमत्तं समालोक्य सुप्तं काष्ठमिवाचलम् ।
उत्थाय लघुसंचारा गन्तुमुद्यानमुद्यता ॥२४१॥
अथ प्रविष्टस्तद्वेश्म चौरः स्वैरं ददर्श ताम् ।
निर्यान्तीमन्तिकात्पत्युः सर्वाभरणभूषिताम् ॥२४२॥
छन्नेनानुगता तेन शून्योद्यानमवाप सा ।
तं चौरशङ्कितैः कैश्चिद्ददर्शोल्लम्बितं द्विजम् ॥२४३॥
तं दृष्ट्वा संविरुग्णेव पतिता विललाप सा ।
हा प्रिय श्रमपीयूष प्रणयामृतदीधिते ॥२४४॥
क्कासि मे प्रियसर्वस्वं देहि कर्णामृतं वचः ।
इत्युक्त्वा पाशमुन्मुच्य कण्ठे जग्राह तं शवम् ॥२४५॥
कृत्वा सकुसुमोत्तंसं तन्मुखं प्रचुचुम्ब च ।
ताम्बूलगर्भमादाय वेपमानकराधरा ॥२४६॥
ततः सपदि वेतालः कृतावेशः सुनासिकाम् ।
तस्याश्चिच्छेद दशनैः सतीशिक्षां दिशन्निव ॥२४७॥
छिन्ननासाथ शनकैः शय्यां भर्तुरुपेत्य सा ।
चक्रोश हा हता तेन पापेनास्मीति सव्यथा ॥२४८॥
प्रतिबुद्धः स सहसा किमेतदिति संभ्रमात् ।
ब्रुवाणः श्वशुरेणैत्य श्रुत्वा च परिभर्त्सितः ॥२४९॥
नासिकां दुहितश्छिन्नां दृष्ट्वा कोपात्स भूपतेः ।
प्रातर्नीत्वा तमास्थानं तनयां तामदर्शयत् ॥२५०॥
न मयास्याः कृतं किंचिदिति वादिनमेव तम् ।
अहो धार्ष्ट्यमिति प्राहुः सभ्याः कोपपराङ्मुखाः ॥२५१॥
ततो राजाज्ञया तूर्णं प्रस्तुते तस्य निग्रहे ।
स चौरोऽभ्येत्य तत्सर्वं नरनाथं व्यजिज्ञपत् ॥२५२॥
राज्ञा दत्ताभयो रात्रिवृत्तान्तं विनिवेद्य सः ।
शवदन्तस्थितां नासां प्रत्ययार्थमदर्शयत् ॥२५३॥
तामेव क्षिप्रमाधाय छिन्नकर्णां ततो नृपः ।
दण्डपालं स नगरे चौरं चक्रे सदोत्थितम् ॥२५४॥
इति स्त रियः किल्बिषस्य द्रोहस्य च निकेतनम् ।
कस्तासामपशुर्नाम प्रेमपाशवशं व्रजेत् ॥२५५॥
इति स्त्रीदुष्टाख्यायिका ॥४॥
N/A
References : N/A
Last Updated : October 23, 2017
TOP