नवमो वेतालः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
राजा ततस्तमादाय निरुद्वेगो ययौ जवात् ।
स च तत्स्कन्धगः प्राह धिक्ते निर्वेद्यमीदृशम् ॥४७३॥
क्क राज्यं क्क सुधागर्भपूर्णेन्दुवदनाश्च ताः ।
क्क चेदं मत्तवेतालं स्मशानमतिभीषणम् ॥४७४॥
क्षान्तिशीलेन पापेन जगचूडामणिर्भवान् ।
पातितः संशये घोरे श्रृणु तावत्कथमिमाम् ॥४७५॥
वीरदेवोऽभवच्छ्रीमानुज्जयिन्यां महीपतिः ।
तस्य पद्मरतिर्नाम भार्याभूच्चित्तचन्द्रिका ॥४७६॥
तपसा देवमासाद्य भवानीवल्लभं विभुम् ।
लेभे सभार्यस्तनयं कन्यां चायतलोचनाम् ॥४७७॥
शूरदेवाभिधे तस्मिन्दारके मुक्तशैशवे ।
अनङ्गरतिनाम्नी सा कन्यापि प्राप यौवनम् ॥४७८॥
तस्या बभूव संकल्पो यः शूरो विपुलाकृतिः ।
लोके विस्तीर्णविद्यश्च स मे प्रणयभूरिति ॥४७९॥
नानादिगन्तभूपाला याचमाना नृपात्मजाम् ।
प्रत्याख्याता ययुर्लोके कुतः सर्वगुणो जनः ॥४८०॥
ततः कदाचिदाजग्मुश्चत्वारः सदृशा नराः ।
विक्रान्ता विपुलाकारा विद्यासु च विचक्षणाः ॥४८१॥
ते समभ्येत्य राजानमयाचन्त प्रियां सुताम् ।
प्रतीहारेण पृष्टाश्च निजाभिजनमूचिरे ॥४८२॥
एकोऽवदच्चित्रवस्त्रनिर्माणकुशलो धनी ।
शूद्रोऽहं शौर्यसंपन्नो वपुः प्रत्यक्षमीक्ष्यताम् ॥४८३॥
द्वितीयः प्राह वैश्योऽहं भाषाज्ञः सर्वदेहिनाम् ।
तृतीयः प्राह राजन्यः खङ्गी नान्योऽस्ति मत्समः ॥४८४॥
चतुर्थश्चाब्रवीद्विप्रो जानेऽहं मृतजीवनम् ।
शौर्यरूपगुणैर्विद्धि तुल्यानस्मान्महीपते ॥४८५॥
इति श्रुत्वा वीरदेवः संदेहाकुलितोऽभवत् ।
मन्त्रिभिः सहितो दृष्ट्वा मिथो बिम्बागतानिव ॥४८६॥
उक्त्वेति पप्रच्छ नृपं वेतालो विपुलाशयः ।
कस्मै नरपते ब्रूहि सा कन्या दीयतामिति ॥४८७॥
राजावदद्वैश्यशूद्रौ नार्हावत्र न संशयः ।
अन्यवृत्तिर्द्विजः पापः क्षत्रियः क्षत्रियापतिः ॥४८८॥
इति श्रुत्वाथ वेतालो गत्वा पुनरलम्बत ।
नृपो भूयस्तमादाय ययौ स्कन्धाच्च सोऽब्रवीत् ॥४८९॥
इति नवमो वेतालः ॥११॥
N/A
References : N/A
Last Updated : October 23, 2017
TOP