संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|द्वितीयो गुच्छः| दशमो वेतालः द्वितीयो गुच्छः प्रथमो वेतालः द्वितीयो वेतालः पुरुषदुष्टाख्यायिका स्त्रीदुष्टाख्यायिका तृतीयो वेतालः चतुर्थो वेतालः पञ्चमो वेतालः षष्ठो वेतालः सप्तमो वेतालः अष्टमो वेतालः नवमो वेतालः दशमो वेतालः एकादशो वेतालः द्वादशो वेतालः त्रयोदशो वेतालः चतुर्दशो वेतालः पञ्चदशो वेतालः षोडशो वेतालः सप्तदशो वेतालः अष्टादशो वेतालः एकोनविंशो वेतालः विंशो वेतालः एकविंशो वेतालः द्वाविंशो वेतालः त्रयोविंशो वेतालः चतुर्विंशो वेतालः पञ्चविंशो वेतालः मन्दारवत्याख्यायिका दशमो वेतालः क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत दशमो वेतालः Translation - भाषांतर वीरबाहोर्नरपतेर्नगरं पुरमण्डले । निदर्शनं धनवतामर्थदत्तोऽभवद्वणिक् ॥४९०॥ धनदत्ताभिधस्तस्य पुत्रो भूतलनन्दनः । सुता मदनसेना च मदनस्येव देवता ॥४९१॥ धनदत्तवयस्योऽथ धर्मदत्तो युवा वणिक् । तस्यानुजां कदाचित्तामपश्यत्तद्गृहागतः ॥४९२॥ दृष्टिर्युवनिरानन्दस्मयगुर्वी तरङ्गिते । यत्कान्तिसलिले मग्नान्समुद्धर्तुं न पार्यते ॥४९३॥ भ्रूलास्यवीचितरले हारहंससितोर्मिणि । लावण्यमानसे यस्याः कटाक्षैः शफरायितम् ॥४९४॥ उन्निद्रचन्द्रवदनां तां विलोक्य निजालयम् । गतो न लेभे स धृतिं सार्थभ्रष्ट इवाध्वगः ॥४९५॥ स वै निःश्वाससंतापग्लपिताधरपल्लवः । अशान्तसर्वशिखिना कामेनेवान्तराश्रितः ॥४९६॥ अत्रान्तरे जलनिधिं संध्यारक्ते दिवाकरे । तापादिव क्लान्ततनौ प्रविष्टे पद्मिनीप्रिये ॥४९७॥ दिक्षु कालागरुस्यन्दनीलैस्तिमिरसंचयैः । अभिसारोचितं वेषमाश्रितास्विव तत्क्षणात् ॥४९८॥ उदिते पूर्वदिक्कान्तासीमन्तमणिमौक्तिके । शशाङ्के शंकरक्तृप्तकामसंजीवनौषधम् ॥४९९॥ ज्योत्स्नाविलासविलसत्प्रभाशुभ्रे नभस्तले । दुग्धाब्धिशायिनः शौरेः सुधालिप्त इवोरसि ॥५००॥ वणिक्पुत्रः स्मराक्रान्तः सुहृदाश्वासितो मुहुः । क्षणार्धनिद्रितोऽपश्यत्स्वप्ने तामेव कामिनीम् ॥५०१॥ ततः प्रभाते विजने स्थितां तामेव कन्यकाम् । ययाचे संगमं तस्या लज्जा रागेण सह्यते ॥५०२॥ तेन प्रणयिभृङ्गेन वल्लरीवाकुलीकृता । स्तनाग्रलग्नवदना बभाषे सा नता ह्रिया ॥५०३॥ अहमद्यैव तातेन वचसा प्रतिपादिता । सखे समुद्रदत्ताय वणिजे गुणशालिने ॥५०४॥ पूर्वमेव त्वयाभ्येत्य पिता मे किं न याचितः । अधुनाहं परवधूरगम्या विदुशस्तव ॥५०५॥ इति श्रुत्वा बलवता मन्मथेन समाहतः । सोऽवदद्वीक्ष्यमाणस्तां हठात्कण्ठग्रहोत्सुकः ॥५०६॥ मम प्राणैः पणः सुभ्रु त्वां विना समुपस्थिथ । कार्याकार्यविचारो हि कस्य जीवितसंशये ॥५०७॥ त्यजते प्राप्तममृतं यदेतद्बुद्धिलाघवम् । को जानीते परे लोके कस्य किं नु भविष्यति ॥५०८॥ भज मामनवद्याङ्गि न चेत्त्वद्वदनामृतम् । स्वयं पिबामि किं प्राप्ते विधौ नक्षत्रचिन्तया ॥५०९॥ श्रुत्वेति चकिता तन्वी प्रोवाचानन्तवीक्षितैः । लज्जयेव वितन्वाना ततो मायूरकञ्चुकम् ॥५१०॥ भ्रष्टायां मयि तातस्य विनष्टे कन्यकाफले । कुलं पतति नः सर्वं तत्र मा कारणं भव ॥५११॥ प्राग्जन्मविहितः कोऽपि निबन्धो यदि मे प्रभो । तत्पित्रे स्वफलं दत्वा कृतोद्वाहास्मि ते वशे ॥५१२॥ वणिग्युवा निशम्येति प्राह सर्वं न मे वरम् । नवां मालां परित्यज्य निर्माल्ये रमते नु कः ॥५१३॥ अनम्यस्प्रष्टुमुचितं त्यक्तुं नेशोऽस्मि ते वपुः । को हि हस्तात्परित्यज्य कुर्यादन्वेषणश्रम म् ॥५१४॥ इत्याग्रहेण तेनोक्ता निर्जने भयविह्वला । अबला बलिना लब्धा निःश्वसन्ती जगाद सा ॥५१५॥ सत्यं वृत्तविवाहाहं त्वदन्तिकमदूषिता । समेश्यामि क्षपामेकामिति ते सुकृतैः शपे ॥५१६॥ श्रुत्वेति स ययौ तुष्टः प्रीतये हि मृगीदृशाम् । प्रणयाद्स्त्युपगमो यथा नैव तथा हठात् ॥५१७॥ अथ लग्नदिने प्राप्ते प्रवृत्ते विपुलोत्सवे । समुद्रदत्तस्तरुणीं परिणीय निनाय ताम् ॥५१८॥ ततो भुक्तोत्तरं स्मेरकुसुमोत्तंसमन्दिरे । भेजाते दम्पती शय्यां तनुस्वच्छोत्तरच्छदाम् ॥५१९॥लज्जानतमुखी तेन चाटुकारेण कामिना । करेण रुद्धां नो नीवीं याचितापिअ मुमोच सा ॥५२०॥ ततः सा तस्य वणिजः स्मृत्वा प्राग्विहितं वचः । यत्नाद्विहाय सहजां लज्जां भर्तारमब्रवीत् ॥५२१॥ प्रौढा समुचितं बाला वैदग्ध्यं सहते कथम् । अफुल्लां चूतकलिकां नहि चुम्बति षट्पदः ॥५२२॥ इति नीवीहठाकृष्टप्रगल्भं विनिमय्य तम् । सा प्राह पूर्ववरणद्रोहकाङ्गीकृतेप्सितम् ॥५२३॥ वणिजो धर्मदत्तस्य हठसङ्गभयान्मया । अभ्रष्टाहं समेष्यामि त्वामिति प्राक्प्रतिश्रुतम् ॥५२४॥ असत्यं नोत्सहे कर्तुं तदनुज्ञातुमर्हसि । इत्याकर्ण्य स तत्याज तामाशां च तदागमे ॥५२५॥ततः सा तेन विजने संत्यक्ता प्रययौ निशि । तारहारांशुधवला कमलेनेव कौमुदी ॥५२६॥प्रयान्तीं धर्मदत्तस्य भाण्डशालां सुलोचनाम् । सर्वस्वहारी चौरस्तां ददर्शोज्ज्वलभूषणाम् ॥५२७॥ विस्तीर्णवक्षःप्राकारो मेघश्यामो महाभुजः । तमःशबरसंघातसेनापतिरिवाग्रतः ॥५२८॥ स्कन्धावलम्बिभिर्भृङ्गनीलैः कुटिलकुन्तलैः । सदा संचरणप्रीत्या रात्रिचक्रैरिवाश्रितः ॥५२९॥ उद्भिन्नश्मश्रुलेखाग्रकेशमण्डलमण्डितः । दिग्धन्तिमुक्ताचौर्येषु मदाम्बुभिरिवाङ्कितः ॥५३०॥ विकोशासिप्रभाजालैर्दीपैरालम्बिताम्बरः । तारा रत्नप्रहारार्थमिवारोहनरज्जुभिः ॥५३१॥ स दृष्ट्वा तां सुवदनां कूजद्भूषणमौक्तिकाम् । दिवः सचन्द्र्नक्षत्रां श्रियं संचारिणीमिव ॥५३२॥ नेत्रयोः कज्जलेनेव नीलाब्जेनेव कर्णयोः । तनौ कृष्णांशुकेनेव तमसापि विभूषिताम् ॥५३३॥ करेणुं कुञ्जराकारस्तां राजकदलीमिव । समालम्ब्यावदद्धन्यः कोऽसौ यो मृग्यते त्वया ॥५३४॥ सर्वस्वहारी चौरोऽहं क्क नु गच्चसि निर्भया । ( अथवा मण्डलोद्दण्डकोदण्डस्ते स्मरोऽनुगः ॥५३५॥ इत्युक्ता तेन सा प्राह चौरोऽसि यदि गृह्यताम् ) । रत्नभूषणमामुक्तमौक्तिकं किं तु मुञ्च माम् ॥५३६॥ श्रुत्वेत्याह विहस्यैनां नाहं ग्राम्यः शुचिस्मिते । यस्त्वां स्मरालंकरणां त्यक्त्वा यास्याम्यचेतनः ॥५३७॥ इत्युक्त्वा तेन संरुद्धा सा जगौ वल्गुवादिनी । वचसा येन निर्बद्ध तस्मादेष्यामि ते वशे ॥५३८॥स श्रुत्वेत्याह चित्रं ते सरलः कोऽप्ययं क्रमः । क्षिप्त्वा दिक्षु क्षिपेत्को नु कण्ठस्थां रत्नमालिकाम् ॥५३९॥ गच्छामि पुनरेष्यामीत्येवं धूर्तो न वञ्च्यते । योषितां च नदीनां च पुनरागमनं कुतः ॥५४०॥ यस्तु हस्तगतं रत्नं मोहात्त्यजति बालवत् । स मन्दपुण्यः सुभगे पुनस्तस्य न भाजनम् ॥५४१॥ इति वादिनमत्युग्रसाहसं तं चकार सा । निवेद्य निजवृत्तान्तं किंचिद्धि कलितग्रहम् ॥५४२॥ सोऽब्रवीद्धर्मदत्तस्य यथा तथ्यं वचः कृतम् । तथैव मे त्वया कार्यं गत्वा सत्यवती ह्यसि ॥५४३॥ इति चौरेण मुक्तासौ भाण्डशालान्तरस्थितम् । धर्मदत्तमवाप्याहं प्राप्तास्मीति सविस्मयम् ॥५४४॥ सोऽवदत्परभार्या मे न गम्या त्वं सुलोचने । शमितोऽनङ्गदावाग्निधूम्राभ्रमलिनः क्षणः ॥५४५॥ प्रतिमुक्तापि सा तेन चोरमेत्य तदाभ्यधात् । सत्यत्वात्सोऽपि तच्छ्रुत्वा तां तत्याज सभूषणाम् ॥५४६॥ ततः समुद्रदत्तं सा पुनरभ्येत्य वल्लभम् । यथा वृत्तं निवेद्यास्मै भेजे तेन स्मरोत्सवम् ॥५४७॥ नृपमुक्त्वेति पप्रच्छ वेतालो वञ्चनोन्मुखः । ब्रूहि कोऽत्र महासत्त्वः श्रुत्वेत्याह च भूपतिः ॥५४८॥ तत्याज धर्मदत्तस्तां बहुकर्णगतां प्रियाम् । राजभीत्या सुखे नित्यं धनिनो हि पराङ्मुखाः ॥५४९॥ धत्तां समुद्रदत्तोऽपि कथं तामन्यमानसाम् । किं न कुर्युर्गृहे रुद्धा विरक्तहृदयाः स्त्रियः ॥५५०॥ सत्त्वमानेक एवात्र चौरोऽसौ तां मुमोच यः । प्राणान्हि पणमाधाय धने धावन्ति दस्यवः ॥५५१॥इति श्रुत्वैव वेतालस्तरौ पुनरलम्बत । भूयोऽप्यादाय तं राजा ययौ मारुतरंहसा ॥५५२॥ इति दशमो वेतालः ॥१२॥ N/A References : N/A Last Updated : October 23, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP