चतुर्दशो वेतालः

क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.


ततस्तमादाय ययौ तथैव वसुधाधिपः ।
( स च स्कन्धस्थितः प्राह कथां भूमिपते श्रृणु ) ॥६८८॥
वीरकेतुरभूच्छ्रीमानयोध्यायां महीपतिः ।
यत्प्रतापानलः कोऽपि राज्ञां जज्वाल मानसे ॥६८९॥
बभूव यस्य नगरे रत्नदत्ताभिधो वणिक् ।
तस्य रत्नवती नाम तनयाभून्मनोरमा ॥६९०॥
रूपलावण्यललिता नवयौवनशालिनी ।
प्रत्याख्यातविवाहा सा बभोव द्वेषिणी नृषु ॥६९१॥
अत्रान्तरे नरपतिश्चौरविप्रकृते जने ।
वीरो वै निर्ययौ रात्रौ द्रष्टुं नगरचेष्टितम् ॥६९२॥
ततस्तमपि सोऽपश्याचौरं तालमिवोन्नतम् ।
निःशब्दजनसंचारं क्कचिद्वक्रीकृताकृतिम् ॥६९३॥
क्कचिन्निभृतनिःश्वासं क्कचिद्वक्रीकृताकृतिम् ।
यक्ष्माणमिव तृष्णाढ्यं दावाग्निमिव दुःसहम् ॥६९४॥
वियोगमिव सोच्छ्वासं कल्पान्तमिव दाहिनम् ।
सर्वस्वापहरं घोरं कल्पान्तमिव विप्लुतम् ॥६९५॥
संधिच्छेदेषु कुशलं प्रच्छन्नमिव दुर्जनम् ।
विलोक्य तं नृपोऽवादीत्स्वैरं विश्वसघातकम् ॥६९६॥
कस्त्वमस्मिन्निरालोके सखे चरसि निःसखः ।
श्रुत्वेत्युवाच स व्याजाद्देवीपुत्रोऽहमीदृशः ॥६९७॥
कस्त्वमित्यपि तेनोक्तस्तदेव क्षितिपोऽभ्यधात् ।
एहि तुभ्यं प्रयच्छामि द्रविणं गर्तसंचितम् ॥६९८॥
इत्युक्त्वा स्वगृहं चौरस्तं निनाय वधोद्यतः ।
बहिर्निधाय तं वेश्म प्रविष्टे धनहारिणि ॥६९९॥
अभ्येत्य वत्सला प्राह नृपं तद्गृहचेटिका ।
केन त्वं मृत्युवदने प्रेषितो भद्र गम्यताम् ॥७००॥
विश्वासघातकश्चौरस्त्वामयं हन्तुमुद्यतः ।
इति श्रुत्वा ययौ राजा राजधानीमलक्षितः ॥७०१॥
प्रभाते तूर्णमुत्थाय सज्जीकृतबलाधिपः ।
चौरं सुदुर्जयं युद्धे जग्राह तं नृपः ॥७०२॥
ततोऽ‍परक्तसंसिक्तो नीतो राजाज्ञया क्षणात् ।
निग्रहाय तया पृष्टो वणिक्पुत्र्या ससंभ्रम म् ॥७०३॥
तद्दृष्ट्वा सहसा जातरागा जनकमभ्यधात् ।
अयं वृतो मया तात वीरो मान्योऽधिको मम ॥७०४॥
इति तद्वचनं श्रुत्वा सनिर्बन्धं पुनः पुनः ।
कथंचित्स नृपं गत्वा तन्मोक्षायावदद्धनम् ॥७०५॥
ततो राजा विहस्याह यश्चौरस्यास्य रक्षिता ।
सोऽपि बध्यो मम व्यक्तं पापी पापसमाश्रयात् ॥७०६॥
इति क्ष्मापतिना तस्मिन्निषिद्धे तत्सुता ययौ ।
चौरमेवानुमरणे निर्बन्धे निहितेक्षणा ॥७०७॥
सा स्मशानमथासाद्य धृतं शूले ददर्श तम् ।
ऊर्ध्वाननाक्षमचिरादाप्तैश्वर्यमिवाधनम् ॥७०८॥
स किंचिच्छेषजीवोऽथ तां दृष्ट्वा श्रुत््कथः ।
मुक्ताश्रुबिन्दुनिकरो विहस्यात्मानमत्यजत् ॥७०९॥
ततस्तेन समारूढां चितां तां वीक्ष्य शंकरः ।
केलिप्रियो वरं तस्यै स्मशाननिलये ददौ ॥७१०॥
शंभोर्वरात्पुत्रशतं पित्रे योग्यमयाचत ।
अजीवयच्च भर्तारं श्रिया धर्मेण चावृतम् ॥७११॥
ततः स सहसावाप्तजीवितः प्राप्य तां प्रियाम् ।
सेनापतिः कृतो  राज्ञा न््द सुभटाग्रणीः ॥७१२॥
कथयित्वेति वेतालः पप्रच्छ छलसंमुखः ।
राजन्रुरोद किमसौ जहास च ततोऽनु किम् ॥७१३॥
इति पृष्टो नृपः प्राह श्रुत्वा वणिजमुद्यतम् ।
प्रत्याख्यातुं विधिवशाद्राज्ञोऽकारणबान्धवम् ॥७१४॥
सर्वथा दैवलिखितं प्रमार्ष्टुं कस्य कः क्षमः ।
इति ध्यात्वा रुरोदासौ तत्स्त्रीवृत्तं जहास च ॥७१५॥
इत्याकर्ण्यैव वेतालो गत्वा पुनरलम्बत ।
राजापि तं समालम्ब्य प्रययावचलाशयः ॥७१६॥
इति चतुर्दशो वेतालः ॥१६॥

N/A

References : N/A
Last Updated : October 23, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP