पञ्चमो वेतालः
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
ततस्तमादाय न्र्पः प्रययौ विपुलाशयः ।
स च स्कन्धस्थितः प्राह श्रृणु चित्रं महीपते ॥३३९॥
द्विजोऽभूदङ्गविषये विष्णुस्वामी महाधनः ।
वभूवुस्तस्य तनयास्तरुणाः सुखशालिनः ॥३४०॥
कदाचिद्याजिना तेन ते विसृष्टा महोदधिम् ।
यज्ञाय कूर्ममाहर्तुं ययुरादेशकारिणः ॥३४१॥
ते समुद्रं समासाद्य प्रपय कूर्मं महाकृतिम् ।
दुरामोदं न जगृहुः पिच्छिलाङ्गं जुगुप्सया ॥३४२॥
संप्राप्तेऽप्यगृहीतेऽस्मिन्कच्छपे वेशधारणात् ।
ध्रुवं नो याति जनको दीक्षाभङ्गादधोगतिम् ॥३४३॥
गृहाणं त्वं न शक्तोऽहं क्षमस्त्वं न त्वहं विभो ।
इति तेषामभूत्तत्र जल्पश्चिरमनल्पकः ॥३४४॥
नारीचङ्गोऽह्यमुचितो भीभत्सेऽस्मिन्नकर्मणि ।
भ्रातर्भोजनचङ्गोऽहं शय्याचङ्गोऽधिकोऽप्यहम् ॥३४५॥
इति ते जातकलहा विटङ्कनगरेश्वरम् ।
प्रसेनजितमभ्येत्य पप्रच्छुर्निजगौरवम् ॥३४६॥
इति विश्रम्यतामद्य प्रातर्दातास्मि चोत्तरम् ।
इति राज्ञा समादिष्टास्तस्थुस्तत्रैव ते द्विजाः ॥३४७॥
अथैकः प्रस्तुतो भोक्तुं नवकर्पूरसौरभम् ।
शालिभोजनमम्लानं नाभ्यनन्दद्विकूणितः ॥३४८॥
ततस्तन्दुलमज्ञासीद्दुष्टमन्विष्य भूपतिः ।
श्मशाननिकटक्षेत्रजातधान्यसमुद्भवम् ॥३४९॥
सत्यं भोजनचङ्गोऽयमित्युक्त्वा विस्मितो नृपः ।
दिदेश नारीचङ्गाय दासीं कुवलयेक्षणाम् ॥३५०॥
समाल्यसौरभाहूतभृङ्गव्याकुलमालिनीम् ।
तस्य शय्यान्तिकं प्राप्य तस्थौ हासविलासिनी ॥३५१॥
नारीचङ्गोऽप्यथोत्थाय करस्थगितनासिकः ।
ष्ठीवनव्याकुलस्तत्र निर्ययौ सहसा बहिः ॥३५२॥
हतश्छागलगन्धेन बताहं दुष्टयोषिता ।
इति क्रन्दन्तमाकर्ण्य तं ददर्श महीपतिः ॥३५३॥
अजादुग्धैरियं बाला मात्रा हीना विवर्धिता ।
इति पृष्टा नृपेणाहं दासी लज्जानतानना ॥३५४॥
स्त्रीचङ्गोऽयं भवत्येव निगद्येति नरेश्वर्ह ।
सप्ततूलीकृतां शय्यां शय्याचङ्गाय दत्तवान् ॥३५५॥
सप्ततूलीजुषस्तस्य पर्य‘ग्कतलवर्तिना ।
वालेन वलयाकारं गात्रेऽभूल्लक्ष्म लोहितम् ॥३५६॥
सव्यथं निःश्वसन्तं तं दृष्ट्वा वालं च भूपतिः ।
सत्यं शयनचङ्गोऽयमित्युवाच सविस्मयः ॥३५७॥
ततस्तेषां नृपतिना दत्तैर्द्रविणसंचयैः ।
संभोगसक्तास्तत्रैव तस्थुस्ते द्विजपुत्रकाह ॥३५८॥
तत्पिता क्रतुभङ्गाच्च विधायानशनव्रतम् ।
सभार्यः प्रययौ स्वर्गं जपयज्ञपवित्रितः ॥३५९॥
इत्यभ्युदीर्य वेतालो मोहयन्निव मायया ।
मातापित्रोस्तेषु हत्या पतिता कस्य भूपते ॥३६०॥
एतेभ्यः कोऽधिकश्चङ्ग इत्यपृच्छन्महीपतिम् ।
पृष्टो नरेश्वरः प्राह द्वावप्रत्ययवीक्षकौ ॥३६१॥
शय्याचङ्गोऽधिकस्तेभ्यो यो वालेनाङ्कितस्तनौ ।
तन्न्यूनयोः पातकं तत्पितृप्रलयसंभवम् ॥३६२॥
इति मौनपरित्यागात्स राज्ञः सहसा गतः ।
पुनः पुनर्दृष्टनष्टस्तथैवोल्लम्बितः स्थितः ॥३६३॥
इति पञ्चमो वेतालः ॥७॥
N/A
References : N/A
Last Updated : October 23, 2017
TOP