शशकाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
अस्माभिरप्युपायांशः कर्तव्यो वृषभेदने ।
उपायेन हतः पूर्वं शशकेनापि केसरी ॥२९२॥
अभूत्समस्तहरिणव्रातसंहारतत्परः ।
सिंहं समेत्य सारङ्गाः क्षयार्ता इदमब्रुवन् ॥२९३॥
प्राणयात्राकृते स्वामिन्कोऽयं सर्वक्षयादरः ।
वारेण प्रेषयामस्ते मृगमेकं सदा क्षयम् ॥२९४॥
एवमस्त्विति सिंहस्य विज्ञाय हरिणा मतम् ।
प्रेषयामासुरव्यग्रा एकैकं कृतसंविदः ॥२९५॥
अथ कालेन शशको वारेण प्रेषितो हरेः ।
अचिन्तयुद्बुधः कालं दंष्ट्रापातेऽप्यसंभभ्रमः ॥२९६॥
आहारकालेऽतिक्रान्ते क्षुत्क्षामे कुञ्जरद्विषि ।
गमिश्यामीति सोऽगच्छच्छशकः कुपितं हरिम् ॥२९७॥
गर्जता तेन पृष्टोऽसौ वेलातिक्रान्तिकारणम् ।
अब्रवीदेव सिंहेन संनिरुद्धोऽस्मि वर्त्मनि ॥२९८॥
श्रुत्वेति कोपादास्फाल्य लाङ्गुलं धूतकेसरः ।
सोऽवददर्शय क्कासौ किं मत्तोऽप्यधिको हरिः ॥२९९॥
अग्रेसरोऽथ शशको भूत्वा करटिवैरिणः ।
वैदूर्यस्फटिकस्वच्चं महाकूपमदर्शयत् ॥३००॥
प्रतिबिम्बाकृतिं दृष्ट्वा स्वां तत्राकुलकेसरः ।
स कूपमग्नः प्रययौ प्रलयं शशवञ्चितः ।
भवन्त्येवमुपायेषु धीमतां कार्यसिद्धयः ॥३०१॥
इति शशकाख्यायिका ॥११॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP