लोहतुलाख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
अस्माकमपि नाश्वासस्त्वयि मिथ्यासुहृद्द्रुहि ।
यस्योपजीव्ये न प्रीतिः कुतस्तस्योपजीवके ॥३८२॥
पुरा लोहसहस्राङ्कां न्यासीकृत्य तुलां वणिक् ।
वणिग्गेहे चिरं भ्रान्त्वा दिगन्तात्पुनराययौ ॥३८३॥
तं याचमानं स्वतुलामब्रवीन्मधुरं वणिक् ।
भक्षिता मूषकैः सार्धं तच्छ्रुता सोऽभ्यभाषत ॥३८४॥
मूषका भक्षयन्त्येव लोहं मधुरपेशलम् ।
निशम्येति वचस्तुष्टस्तस्मै तथ्यमकल्पयम् ॥३८५॥
तत्पुत्रं सोऽप्यथैकान्ते हृत्वा निक्षेपहारिणः ।
श्येनेन ते हृतः सूनुरित्याह विकृताननः ॥३८६॥
ततो विवादे संप्राप्ते नगराधिपतेः पुरः ।
कथं श्येनो हरेद्बालं विस्मितानित्युवाच सः ॥३८७॥
यत्र लोहसहस्रस्य भक्षयंन्त्याखवस्तुलाम् ।
श्येनः कुञ्जरहृत्तत्र किं चित्रं यदि बालहृत् ॥३८८॥
.......................................... ।
........................................... ॥३८९॥
इति लोहतुलाख्यायिका ॥१९॥
N/A
References : N/A
Last Updated : October 29, 2017
TOP