संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|बृहत्कथामञ्जरी|शक्तियशो नाम षोडशो लम्बकः| कच्छपमत्स्यटिट्टिभाख्यायिका शक्तियशो नाम षोडशो लम्बकः भद्रघटाख्यायिका अलजालाख्यायिका वेश्याख्यायिका स्त्रीवृत्ताख्यायिका देवदासाख्यायिका वज्रसारकथा सिंहबलाख्यायिका सुमानसाख्यायिका वानराख्यायिका काकबकाख्यायिका शशकाख्यायिका यूकाख्यायिका चण्डरवाख्यायिका उष्ट्राख्यायिका कच्छपमत्स्यटिट्टिभाख्यायिका चतुराख्यायिका सूचीमुखाख्यायिका वणिक्पुत्रबकाख्यायिका लोहतुलाख्यायिका सिंहवृषाख्यायिका जम्बुकाख्यायिका मूशककाककूर्मकच्छपाख्यायिका रासभाख्यायिका नागशशाख्यायिका र्जाराख्यायिका छागाख्यायिका दयिताख्यायिका चौरराक्षसाख्यायिका रथकाराख्यायिका मूशिकाख्यायिका मण्डुकाख्यायिका हंसाख्यायिका काकोलूकाख्यायिका चौराख्यायिका खराख्यायिका सत्याख्यायिका वानरशिशुमाराख्यायिका घटाख्यायिका नापिताख्यायिका नकुलाख्यायिका अनेकमूर्खाख्यायिका श्रीधराख्यायिका लक्ष्मीसेनाख्यायिका शक्तियशो नाम कच्छपमत्स्यटिट्टिभाख्यायिका क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते. Tags : kshemendrasanskritक्षेमेन्द्रबृहत्कथामञ्जरीसंस्कृत कच्छपमत्स्यटिट्टिभाख्यायिका Translation - भाषांतर इत्युक्तो वृषभस्तस्थौ सिंहापकृतिचिन्तकः । तन्मतं तस्य विज्ञाय स्वैरं दमनकोऽब्रवीत् ॥३२६॥ शक्तः सिंहप्रतीकारे न कश्चिदिति चिन्त्यताम् ।अचिन्तितान्यदर्पस्य लज्जाब्धेरपि टिट्टिभात् ॥३२७॥आसन्नप्रसवा पूर्वं टिट्टिभं दयितावदत् । प्रस्वस्थानमन्यन्मे कल्प्यतां निर्भयं विभो ॥३२८॥पूर्वस्थितिः समुद्रोर्मिभीषणा मे न रोचते । इति तद्वाक्यमाकर्ण्य टिट्टिभः प्राह विस्मितः ॥३२९॥नैवापकर्तुं शक्तो मे समुन्नद्धोऽपि सागरः । भर्तुरित्युद्धतं श्रुत्वा प्रौढा प्रोवाच टिट्टिभी ॥३३०॥आसन्नाकुशला नूनं न श्रृण्वन्ति हितं वचः । श्रूयते मित्रवचनानादरात्कच्छपो हतः ॥३३१॥ह्म्सद्वयसखः पूर्वं कच्छपः स्थानदोषतः ।दन्तावष्टब्धकाष्ठाग्रो नीतस्ताभ्यां विहायसा ॥३३२॥ह्रदान्तराभिगमने तौ हंसौ कूर्ममूचतुः । मौनावलम्बिना भाव्यं त्वयैव बहुशः पथि ॥३३३॥ ततः पौरजना दृष्ट्वा विदितं शकटाकृतिम् ।अहो किमिदमित्यासन्महाकोलाहलाकुलाः ॥३३४॥किमेतदिति कूर्मोऽपि प्राह विस्मृततद्वचः । दारुस्खलितदन्तत्वात्पतितो निहतो जनैः ॥३३५॥ अनागतभयाभिज्ञो वियत्प्राप्तौ च बुद्धिमान् । द्वावेतौ संपदां पात्रं विपदां दैववादिनः ॥३३६॥अनागतविधिश्चैव प्रत्युत्पन्नमति स्तथा । यद्भविश्यश्च मत्स्याः प्राक्षुश्रुवुर्धैवरीं गिरम् ॥३३७॥जालः क्षिपामः प्रत्यूषे ह्र्देऽस्मिन्निति तद्भयात् । अनागतविधिः प्रायात्त्यक्त्वान्यौ गन्तुमर्थितौ ॥३३८॥ततः प्रभाते जालौघकृष्टे मत्स्यकदम्बके । प्रत्युत्पन्नमतिश्चक्रे कृतकं मृतवद्वपुः ॥३३९॥निःशङ्कैर्धीवरैर्न्यस्तः स शनैः प्रययौ जलम् । यद्भविष्यस्तु लगुडैर्जर्जराङ्गो व्यपद्यत ॥३४०॥इत्युक्त्वा टिट्टीभी भर्तुर्वाक्यात्तत्रैव शावकान् । असूत तांस्तरङ्गौर्घैर्जहार च सरित्पतिः ॥३४१॥गृहिणीभत्सितश्चक्रे दुःखितः पक्षिसंगम म् ।टिट्टिभं तन्महानादं गरुत्मानश्रृणोत्ततः ॥३४२॥तत्प्रेरितेन हरिणा निरस्तो मकराकरः । लज्जाविकुण्ठवदनष्टिट्टिभ्यै शावकान्ददौ ॥३४३॥इति कच्छपमत्स्यटिट्टिभाख्यायिका ॥१५॥ N/A References : N/A Last Updated : October 29, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP