चौराख्यायिका
क्षेमेन्द्र संस्कृत भाषेतील प्रतिभासंपन्न ब्राह्मणकुलोत्पन्न काश्मीरी महाकवि होते.
वानरः शिशुमारश्च पुरा मित्रे बभूवतुः ।
उदुम्बरफलाहारौ विस्रम्भप्रीतिसेवनात् ॥५२४॥
मित्रैकसेविनो जाया शिशुमारस्य दुःखिता ।
बभूवास्वस्थहृदया क्षयरोग(निपीडिता ॥५२५॥
तां वीक्ष्य शिशुमारोऽपि दुःखितस्तत्सखीगिरा ।
वानरस्यैव हृदयं विवेद व्याधिभेषजम् ॥५२६॥
स गत्वा वानरं प्राह करे गाढं) निपीड्य तम् ।
मित्र जाया ममास्वस्था हृदयं देहि भेषजम् ॥५२७॥
श्रुत्वेत्यशनिसंकाशं विषण्णो वानरोऽब्रवीत् ।
किं पूर्वमेव नोक्तं मे (......................॥५२८॥
..........................पश्चाद्दोषः पलाण्डुवत् ।
पलाण्डुदोषमादाय प्राहुर्नगररक्षिणः ॥५२९॥
रूपकाणां शतं देहि लगुडानां सहस्व वा ।
पलाण्डोर्भक्षयेदं वा शतं कटुरसोत्कटम् ॥५३०॥
स तच्छ्रुत्वाददे भोक्तुं पलाण्डुं तेन तापितः ।
सेहे प्रहारांस्तैर्व्यस्तो रूपकानां शतं ददौ ॥५३१॥
इति चौराख्यायिका ॥३४॥
N/A
References : N/A
Last Updated : November 02, 2017
TOP