शतरुद्रसंहिता - अध्यायः ५

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥शिव उवाच ॥
दशमे द्वापरे व्यासस्त्रिधामा नामतो मुनि ॥
हिमवच्छिखरे रम्ये भृगुतुंगे नगोत्तमे ॥१॥
तत्रापि मम पुत्राश्च भृग्वाद्याः श्रुतिसंमिताः ॥
बलबन्धुर्नरामित्रः केतुशृंगस्तपोधनः ॥२॥
एकादशे द्वापरे तु व्यासश्च त्रिवृतो यदा ॥
गंगाद्वारे कलौ नाम्ना तपोऽहं भविता तदा ॥३॥
लम्बोदरश्च लम्बाक्षः केशलम्वः प्रलम्बकः ॥
तत्रापि पुत्राश्चत्वारो भविष्यन्ति दृढव्रताः ॥४॥
द्वादशे परिवर्त्ते तु शततेजाश्च वेदकृत् ॥
तत्राप्यहं भविष्यामि द्वापरान्ते कलाविह ॥५॥
हेमकंचुकमासाद्य नाम्ना ह्यत्रिः परिप्लुतः ॥
व्यासस्यैव साहाय्यार्थं निवृत्तिपथरोषणः ॥६॥
सर्वज्ञः समबुद्धिश्च साध्यः शर्वसुयोगिनः ॥
तत्रेति पुत्राश्चत्वारो भविष्यन्ति महामुने ॥७॥
त्रयोदशे युगे तस्मिन्धर्मो नारायणः सदा ॥
व्यासस्तदाहं भविता बलिर्नाम महामुनिः ॥८॥
बालखिल्याश्रमे गंधमादने पर्वतोत्तमे ॥
सुधामा काश्यपश्चैव वसिष्ठो विरजाः शुभाः ॥९॥
यदा व्यासस्तु रक्षाख्यः पर्याये तु चतुर्दशे ॥
वंश आङ्गिरसे तत्र भविताहं च गौतमः ॥१०॥
तत्रापि मम ते पुत्रा भविष्यन्ति कलौ तदा ॥
अत्रिर्दवशदश्चैव श्रवणोथ श्रविष्कटः ॥११॥
व्यासः पञ्चदशे त्रय्यारुणिर्वै द्वापरे यदा ॥
तदाहं भविता वेदशिरा वेदशिरस्तथा ॥१२॥
महावीर्यं तदस्त्रं च वेदशीर्षश्च पर्वतः ॥
हिमवत्पृष्ठमासाद्य सरस्वत्यास्तथोत्तरे ॥१३॥
तत्रापि मम चत्वारो भविष्यन्ति सुता दृढाः ॥
कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः ॥१४॥
व्यासो युगे षोडशे तु यदा देवो भविष्यति ॥
तदा योगप्रदानाय गोकर्णो भविता ह्यहम् ॥१५॥
तत्रैव च सुपुण्यं च गोकर्णं नाम तद्वनम् ॥
तत्रापि योगिनः पुत्र भविष्यंतित्यम्बुसंमिताः ॥१६॥
काश्यपोप्युशनाश्चैव च्यवनोऽथ बृहस्पतिः ॥
तेपि तेनैव मार्गेण गमिष्यन्ति शिवालयम् ॥१७॥
परिवर्त्ते सप्तदशे व्यासो देवकृतंजयः ॥
गुहावासीति नाम्नाहं हिमवच्छिखरे शुभे ॥१८॥
महालये महोत्तुंगे शिवक्षेत्रं हिमाल यम् ॥
उतथ्यो वामदेवश्च महायोगो महाबलः ॥१९॥
परिवर्त्तेऽष्टादशे तु यदा व्यास ऋतंजयः ॥
शिखाण्डीनामतोहं तद्धिमवच्छिखरे शुभे ॥२०॥
सिद्धक्षेत्रे महापुण्ये शिखण्डी नाम पर्वतः ॥
शिखण्डिनो वनं वापि यत्र सिद्धनिषेवितम् ॥२१॥
वाचःश्रवा रुचीकश्च स्यावास्यश्च यतीश्वरः ॥
एते पुत्रा भविष्यन्ति तत्रापि च तपोधनाः ॥२२॥
एकोनविंशे व्यासस्तु भरद्वाजो महामुनिः ॥
तदाप्यहं भविष्यामि जटी माली च नामतः ॥२३॥
हिमवच्छिखरे तत्र पुत्रा मेऽम्बुधिसंहिताः ॥
हिरण्यनामा कौशल्यो लोकाक्षी प्रधिमिस्तथा ॥२४॥
परिवर्त्ते विंशतिमे भविता व्यास गौतमः ॥
तत्राट्टहासनामाहमट्टहासप्रिया नराः ॥२५॥
तत्रैव हिमवत्पृष्ठे अट्टहासो महागिरिः ॥
देवमानुषयक्षेन्द्रसिद्धचारणसेवितः ॥२६॥
तत्रापि मम ते पुत्रा भवि ष्यन्ति सुयोगिनः ॥
सुमन्तुर्बबरिर्विद्वान् कबंधः कुशिकन्धरः ॥२७॥
एकविंशे युगे तस्मिन् व्यासो वाचःश्रवा यदा ॥
तदाहं दारुको नाम तस्माद्दारुवनं शुभम् ॥२८॥
तत्रापि मम ते पुत्रा भविष्यन्ति सुयोगिनः ॥
प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा ॥२९॥
द्वाविंशे परिवर्ते तु व्यासः शुष्मायणो यदा ॥
तदाप्यहं भविष्यामि वाराणस्यां महामुनिः ॥३०॥
नाम्ना वै लांगली भीमो यत्र देवाः सवासवाः ॥
द्रक्ष्यंति मां कलौ तस्मिन्भवं चैव हलायुधम् ॥३१॥
तत्रापि मम ते पुत्रा भविष्यंति सुधार्मिकाः ॥
भल्लवी मधुपिंगश्च श्वेतकेतुस्तथैव च ॥३२॥
परिवर्ते त्रयोविंशे तृणबिन्दुर्यदा मुनिः ॥
श्वेतो नाम तदाहं वै गिरौ कालंजरे शुभे ॥३३॥
तत्रापि मम ते पुत्रा भविष्यन्ति तपस्विनः ॥
उशिको बृहदश्वश्च देवलः कविरेव च ॥३४॥
परिवर्ते चतुर्विंशे व्यासो यक्षो यदा विभुः ॥
शूली नाम महायोगी तद्युगे नैमिषे तदा ॥३५॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥
शालिहोत्रोऽग्निवेशश्च युवनाश्वः शरद्वसुः ॥३६॥
पंचविंशे यदा व्यासः शक्तिर्नाम्ना भविष्यति ॥
तदाप्यहं महायोगी दण्डी मुण्डीश्वरः प्रभुः ॥३७॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥
छगलः कुण्डकर्णश्च कुम्भाण्डश्च प्रवाहकः ॥३८॥
व्यासः पराशरो यर्हि षड्विंशे भविताप्यहम् ॥
पुरं भद्रवटं प्राप्य सहिष्णुर्नाम नामतः ॥३९॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥
उलूको विद्युतश्चैव शम्बूको ह्याश्वलायनः ॥४०॥
सप्तविंशे यदा व्यासो जातूकर्ण्यो भविष्यति ॥
प्रभासतीर्थमाश्रित्य सोमशर्मा तदाप्यहम् ॥४१॥
तत्रापि मम ते शिष्या भविष्यंति तपस्विनः ॥
अक्षपादः कुमारश्चोलूको वत्सस्तथैव च ॥४२॥
अष्टाविंशे द्रापरे तु पराशरसुतो हरिः ॥
यदा व्यासो भविष्यामि नाम्ना द्वैपायनः प्रमुः ॥४३॥
तदा षष्ठेन चांशेन कृष्णः पुरुषसत्तमः ॥
वसुदेवसुतः श्रेष्ठो वासुदेवो भविष्यति ॥४४॥
तदाप्यहं भविष्यामि योगात्मा योगमायया ॥
लोकविस्मापनार्थाय ब्रह्मचारिशरीरकः ॥४५॥
श्मशाने मृतमुत्सृज्य दृष्ट्वा कायमनामयम् ॥
ब्राह्मणानां हितार्थाय प्रविष्टो योगमायया ॥४६॥
दिव्यां मेरुगुहां पुण्यां त्वया सार्द्धं च विष्णुना ॥
भविष्यामि तदा ब्रह्मँल्लकुली नामनामतः ॥४७॥
कायावतार इत्येवं सिद्धक्षेत्रं परं तदा ॥
भविष्यति सुविख्यातं यावद्भूमिर्धरिष्यति ॥४८॥
तत्रापि मम ते शिष्या भविष्यन्ति तपस्विनः ॥
कुशिकश्चैव गर्गश्च मित्रः कौरुष्य एव च ॥४९॥
योगिनो ब्राह्मणा वेदपारगा ऊर्द्ध्वरेतसः ॥
प्राप्य माहेश्वरं योगं गमिष्यंति शिवं पुरम् ॥५०॥
वैवस्वतेऽन्तरे सम्यक् प्रोक्ता हि परमात्मना ॥
योगेश्वरावताराश्च सर्वावर्तेषु सुव्रताः ॥५१॥
व्यासाश्चैवाष्टविंशत्का द्वापरेद्वापरे विभो ॥
योगेश्वरावतारश्च प्रारंभे च कलौ कलौ ॥५२॥
योगेश्वरावताराणां योगमार्गप्रवर्द्धकाः ॥
महाशैवाश्च चत्वारः शिष्याः प्रत्येकमव्यया ॥५३॥
एते पाशुपताः शिष्या भस्मोद्धूलितविग्रहाः ॥
रुद्राक्षमालाभरणास्त्रिपुण्ड्रांकितमस्तकाः ॥५४॥
शिष्या धर्मरताः सर्वे वेदवेदांगपारगाः ॥
लिंगार्चनरता नित्यं बाह्याभ्यन्तरतः स्थिताः ॥५५॥
भक्त्या मयि च योगेन ध्याननिष्ठा जितेन्द्रियाः ॥
संख्यया द्वादशाधिक्य शतं च गणिता बुधैः ॥५६॥
इत्येतद्वै मया प्रोक्तमवतारेषु लक्षणम् ॥
मन्वादिकृष्णपर्यन्तमष्टाविंशद्युगक्रमात् ॥५७॥
तत्र श्रुतिसमूहानां विधानं ब्रह्मलक्षणम् ॥
भविष्यति तदा कल्पे कृष्णद्वैपायनो यदा ॥५८॥
इत्येवमुक्त्वा ब्रह्माणमनुगृह्य महेश्वरः ॥
पुनः संप्रेक्ष्य देवेशस्तत्रैवान्तरधीयत ॥५९॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवावतारोपाख्यान एकोनविंशतिशिवावतारवर्णनं नाम पञ्चमोऽध्यायः ॥५ ॥इति द्विचत्वारिंशावताराः ॥४२॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP