शतरुद्रसंहिता - अध्यायः ९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
सनत्कुमार सर्वज्ञ भैरवीमपरां कथाम् ॥
शृणु प्रीत्या महादोषसंहर्त्रीम्भक्तिवर्द्धिनीम् ॥१॥
तत्सान्निध्यं भैरवोऽपि कालोऽभूत्कालकालनः ॥
स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम् ॥२॥
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥
नात्याक्षीच्चापि तं देवं ब्रह्महत्यापि दारुणा ॥३॥
प्रतितीर्थं भ्रमन्वापि विमुक्तो ब्रह्महत्यया ॥
अतः कामारिमहिमा सर्वोपि ह्यवगम्यताम् ॥४॥
प्रमथैः सेव्यमानोऽपि ह्येकदा विहरन्हरः ॥
कापालिको ययौ स्वैरी नारायणनिकेतनम् ॥५॥
अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ॥
महादेवांशसम्भूतं पूर्णाकारं च भैरवम् ॥६॥
पपात दण्डवद्भूमौ तं दृष्ट्वा गरुडध्वजः ॥
देवाश्च मुनयश्चैव देवनार्य्यः समन्ततः ॥७॥
अथ विष्णुः प्रणम्यैनं प्रयातः कमलापतिः ॥
शिरस्यञ्जलिमाधाय तुष्टाव विविधैः स्तवः ॥८॥
सानन्दोऽथ हरिः प्राह प्रसन्नात्मा महामुने ॥
क्षीरोदमथनोद्भूतां पद्मां पद्मालयां मुदा ॥९॥
विष्णुरुवाच ॥
प्रिये पश्याब्जनयने धन्यासि सुभगेऽनघे ॥
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥१०॥
अयन्धाता विधाता च लोकानां प्रभुरीश्वरः ॥
अनादिः शरणः शान्तः पुरः षड्विंशसंमितः ॥११॥
सर्वज्ञः सर्वयोगीशस्सर्वभूतैकनायकः ॥
सर्वभूतान्तरात्मायं सर्वेषां सर्वदः सदा ॥१२॥
ये विनिद्रा विनिश्वासाः शान्ता ध्यानपरायणाः ॥
धिया पश्यंति हृदये सोयं पद्मे समीक्षताम् ॥१३॥
यं विदुर्व्वेदतत्त्वज्ञा योगिनो यतमानसाः ॥
अरूपो रूपवान्भूत्वा सोऽयमायाति सर्वगः ॥१४॥
अहो विचित्रं देवस्य चेष्टितम्परमेष्ठिनः ॥
यस्याख्यां ब्रुवतो नित्यं न देहः सोऽपि देहभृत् ॥१५॥
तं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ॥
सोयमायाति भगवांस्त्र्यम्बकश्शशिभूषणः ॥१६॥
पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने ॥
यद्दृश्यते महादेवो ह्याभ्यां लक्ष्मि महेश्वरः ॥१७॥
धिग्धिक्पदन्तु देवानां परं दृष्ट्वा न शंकरम् ॥
लभ्यते यत्र निर्वाणं सर्व दुःखान्तकृत्तु यत् ॥१८॥
देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ॥
दृष्ट्वापि सर्वे देवेशं यन्मुक्तिन्न लभामहे ॥१९॥
एवमुक्त्वा हृषीकेशस्संप्रहृष्टतनूरुहः ॥
प्रणिपत्य महादेवमिदमाह वृषध्वजम् ॥२०॥
विष्णुरुवाच ॥
किमिदन्देवदेवेन सर्वज्ञेन त्वया विभो ॥
क्रियते जगतां धात्रा सर्वपापहराव्यय ॥२१॥
क्रीडेयन्तव देवेश त्रिलोचन महामते ॥
किङ्कारणं विरूपाक्ष चेष्टितन्ते स्मरार्दन ॥२२॥
किमर्थं भगवञ्छम्भो भिक्षाञ्चरसि शक्तिप ॥
संशयो मे जगन्नाथ एष त्रैलोक्यराज्यद ॥२३॥
 ॥नन्दीश्वर उवाच ॥
एवमुक्तस्ततः शम्भुर्विष्णुना भैरवो हरः ॥
प्रत्युवाचाद्भुतोतिस्स विष्णुं हि विहसन्प्रभुः ॥२४॥
 ॥भैरव उवाच ॥
ब्रह्मणस्तु शिरश्छिन्नमंगुल्याग्रनखेन ह ॥
तदघम्प्रतिहन्तुं हि चराम्येतद्व्रतं शुभम् ॥२५॥
नन्दीश्वर उवाच ॥
एवमुक्तो महेशेन भैरवेण रमापतिः ॥
स्मृत्वा किंचिन्नतशिराः पुनरेवमजिज्ञपत् ॥२६॥
 ॥विष्णुरुवाच ॥
यथेच्छसि तथा क्रीड सर्वविघ्नोपनोदक ॥
मायया मां महादेव नाच्छादयितुमर्हसि ॥२७॥
नाभीकमलकोशात्तु कोटिशः कमलासनाः ॥
कल्पे कल्पे पुरा ह्यान्सत्यं योगबलाद्विभो ॥२८॥
त्यज मायामिमान्देव दुस्तरामकृतात्मभिः ॥
ब्रह्मादयो महादेव मायया तव मोहिताः ॥२९॥
यथावदनुगच्छामि चेष्टितन्ते शिवापते ॥
तवैवानुग्रहाच्छम्भो सर्वेश्वर सतांगते ॥३०॥
संहारकाले संप्राप्ते सदेवान्निखिलान्मुनीन् ॥
लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ॥३१॥
तदा कृते महादेव पापं ब्रह्मवधादिकम् ॥
पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडत्यतो भवान् ॥३२॥
अर्घीव ब्रह्मणो ह्यस्थ्नां स्रक्कण्ठे तव भासते ॥
तथाद्यनुगता शम्भो ब्रह्महत्या तवानघ ॥३३॥
कृत्वापि सुमहत्पापं यस्त्वां स्मरति मानवः ॥
आधारं जगतामीश तस्य पापं विलीयते ॥३४॥
यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ॥
तथैव तव यो भक्तः पापन्तस्य व्रजेत्क्षयम् ॥३५॥
यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम् ॥
ब्रह्महत्याकृतमपि पापन्तस्य व्रजेत्क्षयम् ॥३६॥
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ॥
अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ॥३७॥
परमात्मन्परन्धाम स्वेच्छाभिधृतविग्रह ॥
कुतूहलं तवेशेदं कृपणाधीनतेश्वर ॥३८॥
अद्य धन्योऽस्मि देवेश यत्र पश्यंति योगिनः ॥
पश्यामि तं जगन्मूर्त्ति परमेश्वरमव्ययम् ॥३९॥
अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ॥
तं दृष्ट्वामृत तृप्तस्य तृणं स्वर्गापवर्गकम् ॥४०॥
इत्थं वदति गोविंदे विमला पद्मया तया ॥
मनोरथवती नाम भिक्षा पात्रे समर्पिता ॥४१॥
भिक्षाटनाय देवोऽपि निरगात्परया मुदा ॥
अन्यत्रापि महादेवो भैरवश्चात्तविग्रहः ॥४२॥
दृष्ट्वानुयायिनीं तान्तु समाहूय जनार्दनः ॥
संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम् ॥४३॥
 ॥ब्रह्महत्योवाच ॥
अनेनापि मिषेणाहं संसेव्यामुं वृषध्वजम् ॥
आत्मानम्पावयिष्यामि त्वपुनर्भवदर्शनम् ॥४४॥
नन्दीश्वर उवाच ॥
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ॥
तमूचेऽथ हरिं शंभुः स्मेरास्यो भैरवो वचः ॥४५॥
भैरव उवाच ॥
त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ॥
स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ॥४६॥
वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ॥
अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ॥४७॥
नो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः ॥
यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ॥४८॥
नन्दीश्वर उवाच ॥
इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ॥
सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ॥४९॥
विष्णुरुवाच ॥
एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ॥
पश्यामि त्वान्देवदेव मनोवाणी पथातिगम् ॥५०॥
अदभ्रेयं सुधादृष्टिरनया मे महोत्सवः ॥
अयत्त्ननिधिलाभोयं वीक्षणं हर ते सताम् ॥५१॥
अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ॥
एष एव वरः शंभो नान्यं कश्चिद् वृणे वरम् ॥५२॥
श्रीभैरवी उवाच ॥
एवम्भवतु ते तात यत्त्वयोक्तं महामते ॥
सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ॥५३॥
नन्दीश्वर उवाच ॥
अनुगृह्येति दैत्यारि केंद्राद्रिभुवनेचरम् ॥
भेजे विमुक्तनगरीं नाम्ना वाराणसीं पुरीम् ॥५४॥
क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ॥
हाहेत्युक्त्वा ब्रह्महत्या पातालं चाविशत्तदा ॥९५॥
कपालं ब्राह्मणः सद्यो भैरवस्य करांबुजात् ॥
पपात भुवि तत्तीर्थमभूत्कापालमोचनम् ॥५६॥
कपालं ब्रह्मणो रुद्रस्सर्वेषामेव पश्यताम् ॥
हस्तात्पतन्तमालोक्य ननर्त परया मुदा ॥५७॥
विधेः कपालं नामुंचत्करमत्यन्तदुस्सहम् ॥
परस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ॥५८॥
शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ॥
सा काश्यां क्षणतो नष्टा तस्मात्सेव्या हि काशिका ॥५९॥
कपालमोचनं काश्यां यः स्मरेत्तीर्थमुत्तमम् ॥
इहान्यत्रापि यत्पापं क्षिप्रं तस्य प्रणश्यति ॥६०॥
आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ॥
तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ॥६१॥
कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ॥
तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम् ॥६२॥
कृष्णाष्टम्यान्तु मार्गस्य मासस्य परमेश्वरः ॥
आविर्बभूव सल्लीलो भैरवात्मा सताम्प्रियः ॥६३॥
मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ॥
उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ॥६४॥
अन्यत्रापि नरो भक्त्या तद्व्रतं यः करिष्यति ॥
स जागरं महापापैर्मुक्तो यास्यति सद्गतिम् ॥६५॥
अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ॥
तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥६६॥
कालभैरवभक्तानां पातकानि करोति यः ॥
स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ॥६७॥
विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ॥
ते लभन्ते महादुःखं काश्यां चैव विशेषतः ॥६८॥
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥
तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ॥६९॥
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥
भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी ॥७०॥
श्रुत्वाख्यानमिदम्पुण्यम्ब्रह्महत्यापनोदकम् ॥
भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ॥७१॥
बन्धनागारसंस्थोऽपि प्राप्तोऽपि विपदम्पराम् ॥
प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात् ॥७२॥
इति श्रीशिवमहापुराणे तृतीयायांशत रुद्रसंहितायां भैरवावतारलीलावर्णनं नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP