शतरुद्रसंहिता - अध्यायः ७

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥नन्दिकेश्वर उवाच ॥
तत्र गत्वा मुनेऽहं वै स्थित्वैकान्तस्थले सुधीः ॥
अतपं तप उग्रं सन्मुनीनामपि दुष्करम् ॥१॥
हृत्पुण्डरीकसुषिरे ध्यात्वा देवं त्रियम्बकम् ॥
त्र्यक्षं दशभुजं शान्तं पञ्चवक्त्रं सदा शिवम् ॥२॥
रुद्रजाप्यमकार्षं वै परमध्यानमास्थितः ॥
सरितश्चोत्तरे पुण्ये ह्येकचित्तः समाहितः ॥३॥
तस्मिञ्जाप्येऽथ संप्रीतः स्थितं मां परमेश्वरः ॥
तुष्टोऽब्रवीन्महादेवः सोमः सोमार्द्धभूषणः ॥४॥
शिव उवाच ॥
शैलादे वरदोहं ते तपसानेन तोषितः ॥
साधु तप्तं त्वया धीमन् ब्रूहि यत्ते मनोगतम् ॥५॥
स एवमुक्तो देवेन शिरसा पादयोर्नतः ॥
अस्तवं परमेशानं जराशोकविनाशनम् ॥६॥
अथ मां नन्दिनं शम्भुर्भक्त्या परामया युतम् ॥
अश्रुपूर्णेक्षणं सम्यक् पादयोः शिरसा नतम् ॥७॥
उत्थाय परमेशानः पस्पर्श परमार्तिहा ॥
कराभ्यां संमुखाभ्यान्तु संगृह्य वृषभध्वजः ॥८॥
निरीक्ष्य गणपांश्चैव देवीं हिमवतः सुताम् ॥
उवाच मां कृपादृष्ट्या समीक्ष्य जगताम्पतिः ॥९॥
वत्स नन्दिन्महाप्राज्ञ मृत्योर्भीतिः कुतस्तव ॥
मयैव प्रेषितौ विप्रौ मत्समस्त्वं न संशयः ॥१०॥
अमरो जरया त्यक्तोऽदुःखी गणपतिः सदा ॥
अव्ययश्चाक्षयश्चेष्टः स पिता स सुहृज्जनः ॥११॥
मद्बलः पार्श्वगो नित्यं ममेष्टो भवितानिशम् ॥
न जरा जन्म मृत्युर्वै मत्प्रसादाद्भविष्यति ॥१२॥
नन्दीश्वर उवाच ॥
एवमुक्त्वा शिरोमालां कुशेशयमयीं निजाम् ॥
समुन्मुच्य बबन्धाशु मम कण्ठे कृपानिधिः ॥१३॥
तयाहं मालया विप्र शुभया कण्ठसक्तया ॥
त्र्यक्षो दशभुजश्चासं द्वितीय इव शङ्कर ॥१४॥
तत एव समादाय हस्तेन परमेश्वरः ॥
उवाच ब्रूहि किं तेऽद्य ददामि वरमुत्तमम् ॥१५॥
ततो जटाश्रितं वारि गृहीत्वा हार निर्मलम् ॥
उक्त्वा नन्दी भवेतीह विससर्ज वृषध्वजः ॥१६॥
ततः पञ्चमिता नद्यः प्रावर्तत शुभावहाः ॥
सुतोयाश्च महावेगा दिव्य रूपा च सुन्दरी ॥१७॥
जटोदका त्रिस्रोताश्च वृषध्वनिरितीव हि ॥
स्वर्णोदका जम्बुनदी पञ्चनद्यः प्रकीर्तिताः ॥१८॥
एतत्पञ्चनदं नाम शिवपृष्ठतमं शुभम् ॥
जपेश्वरसमीपे तु पवित्रं परमं मुने ॥१९॥
यः पञ्चनदमासाद्य स्नात्वा जप्त्वेश्वरेश्वरम् ॥
पूजयेच्छिवसायुज्यं प्रयात्येव न संशयः ॥२०॥
अथ शम्भुरुवाचोमामभिषिञ्चामि नन्दिनम्
गणेन्द्रं व्याहरिष्यामि किं वा त्वं मन्यसेऽव्यये ॥२१॥
उमोवाच ॥
दातुमर्हसि देवेश नन्दिने परमेश्वर ॥
महाप्रियतमो नाथ शैलादिस्तनयो मम ॥२२॥
नन्दीश्वर उवाच ॥
ततस्स शङ्करः स्वीयान्सस्मार गणपान्वरान् ॥
स्वतन्त्रः परमेशानस्सर्वदो भक्तवत्सलः ॥२३॥
स्मरणादेव रुद्रस्य सम्प्राप्ताश्च गणेश्वराः ॥
असङ्ख्याता महामोदाश्शङ्कराकृतयोऽखिलाः ॥२४॥
ते गणेशाश्शिवं देवीं प्रणम्याहुः शुभं वचः ॥
ते प्रणम्य करौ बद्ध्वा नतस्कन्धा महाबलाः ॥२५॥
गणेशा ऊचुः ॥
किमर्थं च स्मृता देव ह्याज्ञापय महाप्रभो ॥
किङ्करान्नः समायातांस्त्रिपुरार्दन कामद ॥२६॥
किं सागराञ्शोषयामो यमं वा सह किंकरैः ॥
हन्मो मृत्युं महामृत्युं विशेषं वृद्धपद्मजम् ॥२७॥
बद्ध्वेन्द्रं सह देवैश्च विष्णुं वा पार्षदैः सह ॥
आनयामः सुसंकुद्धान्दैत्यान्वा दानवैः सह ॥२८॥
कस्याद्य व्यसनं घोरं करिष्यामस्तवाज्ञया ॥
कस्य वाद्योत्सवो देव सर्वकामसमृद्धये ॥२९॥
नन्दीश्वर उवाच ॥
इत्याकर्ण्य वचस्तेषां गणानां वीरवादिनाम् ॥
उवाच तान्स प्रशंस्य गणेशान्परमेश्वरः ॥३०॥
शिव उवाच ॥
नन्दीश्वरोयं पुत्रो मे सर्वेषामीश्वरेश्वरः ॥
प्रियो गणामग्रणीस्सर्वैः क्रियतां वचनं मम ॥३१॥
सर्वे प्रीत्याभिषिञ्चध्वं मद्गणानां गतिम्पतिम् ॥
अद्यप्रभृति युष्माकमयं नन्दीश्वरः प्रभुः ॥३२॥
नन्दीश्वर उवाच ॥
एवमुक्ताः शङ्करेण गणपास्सर्व्व एव ते ॥
एवमस्त्विति सम्प्रोच्य सम्भारानाहरँस्ततः ॥३३॥
ततो देवाश्च सेन्द्राश्च नारायणमुखास्तथा ॥
मुनयः सर्वतो लोका आजग्मुर्मुदिताननाः ॥३४॥
पितामहोपि भगवन्नियोगाच्छङ्करस्य वै ॥
चकार नंदिनस्सर्व्वमभिषेकं समाहितः ॥३५॥
ततो विष्णुस्ततश्शक्रो लोकपालास्तथैव च ॥
ऋषयस्तुष्टुवुश्चैव पितामहपुरोगमाः ॥३६॥
स्तुतिमत्सु ततस्तेषु विष्णुः सर्वजगत्पतिः ॥
शिरस्यञ्जलिमाधाय तुष्टाव च समाहितः ॥३७॥
प्राञ्जलिः प्रणतो भूत्वा जयशब्दं चकार च ॥
ततो गणाधिपास्सर्व्वे ततो देवास्ततोऽसुराः ॥३८॥
एवं स्तुतश्चाभिषिक्तो देवैस्स ब्रह्मकैस्तदा ॥
नन्दीश्वरोहं विप्रेन्द्र नियोगात्प रमेशितुः ॥३९॥
उद्वाहश्च कृतस्तत्र नियोगात्परमेष्ठिनः ॥
महोत्सवयुतः प्रीत्या विष्णुब्रह्मादिभिर्मम ॥४०॥
मरुतां च सुता देवी सुयशास्तु मनोहरा ॥
पत्नी सा मेऽभवद्दिव्या मनोनयननन्दिनी ॥४१॥
लब्धं शशिप्रभं छत्रं तया तत्र विभूषितम् ॥
चामरैश्चामरासक्तहस्ताग्रैः स्त्रीगणैर्युतम् ॥४२॥
सिंहासनं च परमं तया चाधिष्ठितं मया ॥
अलंकृतो महालक्ष्म्या मुकुटाद्यैस्सुभूषणैः ॥४३॥
लब्धो हारश्च परमो देव्याः कण्ठगतस्तथा ॥
वृषेन्द्रश्च शितो नागस्सिंहस्सिंहध्वजस्तथा ॥४४॥
रथश्च हेमहारश्च चन्द्रबिंबसमः शुभः ॥
अन्यान्यपि च वस्तूनि लब्धानि हि मया मुने ॥४५॥
एवं कृतविवाहोऽहं तया पत्न्या महामुने ॥
पादौ ववन्दे शम्भोश्च शिवाया ब्रह्मणो हरेः ॥४६॥
तथाविधं त्रिलोकेशस्सपत्नीकं च माम्प्रभुः ॥
प्रोवाच परया प्रीत्या स शिवो भक्तवत्सलः ॥४७॥
ईश्वर उवाच ॥
शृणु सत्पुत्र तातस्त्वं सुयशेयन्तव प्रिया ॥
ददामि ते वरम्प्रीत्या यत्ते मनसि वाञ्छितम् ॥४८॥
सदाहन्तव नन्दीश सन्तुष्टोऽस्मि गणेश्वर ॥
देव्या च सहितो वत्स शृणु मे परमं वचः ॥४९॥
सदेष्टश्च विशिष्टश्च परमैश्वर्य्यसंयुतः ॥
महायोगी महेष्वासः स पिता स पितामहः ॥५०॥
अजेयस्सर्वजेता च सदा पूज्यो महाबलः ॥
अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम् ॥५१॥
अयं च ते पिता पुत्र परमैश्वर्य्यसंयुतः ॥
भविष्यति गणाध्यक्षो मम भक्तो महाबलः ॥५२॥
पितामहोऽपि ते वत्स तथास्तु नियमा इमे ॥
मत्समीपं गमिष्यन्ति मया दत्तवरास्तथा ॥५३॥
नन्दीश्वर उवाच ॥
ततो देवी महाभागा नन्दिनं वरदाब्रवीत् ॥
वरं ब्रूहीति माम्पुत्र सर्व्वान्कामान्यथेसितान् ॥५४॥
तच्छ्रुत्वा वचनं देव्याः प्रावोचत्साञ्जलिस्तदा ॥
भक्तिर्भवतु मे देवि पादयोस्ते सदा वरा ॥५५॥
श्रुत्वा मम वचो देवी ह्येवमस्त्विति साब्रवीत् ॥
सुयशां ताञ्च सुप्रीत्या नन्दिप्रियतमां शिवाम् ॥५६॥
देव्युवाच ॥
वत्से वरं यथेष्टं हि त्रिनेत्रा जन्मवर्जिता ॥
पुत्रपौत्रेस्तु भक्तिर्मे तथा च भर्तुरेव हि ॥५७॥
नन्द्युवाच ॥
तदा ब्रह्मा च विष्णुश्च सर्व्वे देवगणाश्च वै ॥
ताभ्यां वरान्ददुः प्रीत्या सुप्रसन्नाश्शिवाज्ञया ॥५८॥
सान्वयं मां गृहीत्वेशस्ततस्सम्बन्धिबान्धवैः ॥
आरुह्य वृषमीशानो गतो देव्या निजं गृहम् ॥५९॥
विष्ण्वादयः सुरास्सर्व्वे प्रशंसन्तो ह्यमी तदा ॥
स्वधामानि ययुः प्रीत्या संस्तुवन्तः शिवं शिवम् ॥६०॥
इति ते कथितो वत्स स्वावतारो महामुने ॥
सदानन्दकरः पुंसां शिवभक्तिप्रवर्द्धनः ॥६१॥
य इदन्नन्दिनो जन्म वरदानन्तथा मम ॥
अभिषेकं विवाहं च शृणुयाच्छ्रावयेत्तथा ॥६२॥
पठेद्वा पाठयेद्वापि श्रद्धावान्भक्तिसंयुतः ॥
इह सर्व्वसुखम्भुक्त्वा परत्र लभते गतिम् ॥६३॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां नन्दिकेश्वरावताराभिषेकविवाह वर्णनं नाम सप्तमोऽध्यायः ॥७॥इति त्रिचत्वारिंशोवतारः ॥४३॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP