शतरुद्रसंहिता - अध्यायः १४
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
नन्दीश्वर उवाच॥
स विप्रो गृहमागत्य महाहर्षसमन्वितः॥
प्रियायै कथयामास तद्वृत्तान्तमशेषतः ॥१॥
तच्छ्रुत्वा विप्रपत्नी सा मुदम्प्राप शुचिष्मती॥
अतीव प्रेमसंयुक्ता प्रशशंस विधिन्निजम् ॥२॥
अथ कालेन तद्योषिदन्तर्वत्नी बभूव ह॥
विधिवद्विहिते तेन गर्भाधानाख्यकर्मणि ॥३॥
ततः पुंसवनन्तेन स्यन्दनात्प्राग्विपश्चिता॥
गृह्योक्तविधिना सम्यक्कृतम्पुंस्त्वविवृद्धये ॥४॥
सीमन्तोऽथाष्टमे मासे गर्भरूपसमृद्धिकृत्॥
सुखप्रसवसिद्धौ च तेनाकरि कृपाविदा ॥५॥
अथातश्शुभतारासु ताराधिपवराननः॥
केन्द्रे गुरौ शुभे लग्ने सुग्रहेषु युगेषु च ॥६॥
अरिष्टदीपनिर्वाणस्सर्वारिष्टविनाशकृत्॥
तनयो नाम तस्यान्तु शुचिष्मत्याम्बभूव ह ॥७॥
शर्वस्समस्तसुखदो भूर्भुवः स्वर्न्निवासिनाम्॥
गन्धवाहनवाहाश्च दिग्वधूर्मुखवाससः ॥८॥
इष्टगन्धप्रसूनौघैर्ववृषुस्ते घनाघनाः॥
देवदुन्दुभयो नेदुः प्रसेदुस्सर्व्वतो दिशः ॥९॥
परितस्सरितस्स्वच्छा भूतानां मानसैस्सह॥
तमोऽताम्यत्तु नितरां रजोऽपि विरजोऽभवत् ॥१०॥
सत्त्वास्सत्त्वसमायुक्ताः सुधावृष्टिर्बभूव वै॥
कल्याणी सर्वथा वाणी प्राणिनः प्रियवत्यभूत् ॥११॥
रंभामुख्या अप्सरसो मङ्गलद्रव्यपाणयः॥
विद्याधर्यश्च किन्नर्य्यस्तथा मर्य्यस्सहस्रशः ॥१२॥
गन्धर्वोरगयक्षाणां सुमानियः शुभस्वराः॥
गायन्त्यो मंगलं गीतन्तत्राजग्मुरनेकशः ॥१३॥
मारीचिरत्रिः पुलहः पुलस्त्यः क्रतुरङ्गिराः॥
वसिष्ठः कश्यपोऽगस्त्यो विभाण्डो माण्डवीसुतः ॥१४॥
लोमशो रोमचरणो भरद्वाजोऽथ गौतमः॥
भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः ॥१५॥
आपस्तम्बो याज्ञवल्क्यो दक्षवाल्मीकिमुद्गलाः॥
शातातपश्च लिखितश्शिलादः शंख उञ्छभुक् ॥१६॥
जमदग्निश्च संवर्तो मतंगो भरतोंशुमान्॥
व्यासः कात्यायनः कुत्सः शौनकस्तु श्रुतश्शुकः ॥१७॥
ऋष्यशृङ्गोऽथ दुर्व्वासाश्शुचिर्नारद तुम्बुरुः॥
उत्तंको वामदेवश्च पवनोऽसितदेवलौ ॥१८॥
सालंकायनहारीतौ विश्वामित्रोऽथ भार्गवः॥
मृकण्डस्सह पुत्रेण पर्व्वतो दारुकस्तथा ॥१९॥
धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः॥
तच्छान्त्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम् ॥२०॥
ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः॥
नन्दिभृङ्गि समायुक्तो गौर्य्या सह वृषध्वजः ॥२१॥
महेन्द्रमुख्या गीर्वाणा नागाः पातालवासिनः॥
रत्नान्यादाय बहुशस्ससरित्का महाब्धयः ॥२२॥
स्थावरा जंगमं रूपं धृत्वा यातास्सहस्रशः॥
महामहोत्सवे तस्मिन्बभूवाकालकौमुदी ॥२३॥
जातकर्म स्वयं तस्य कृतवान्विधिरानतः॥
श्रुतिं विचार्य्य तद्रूपन्नाम्ना गृहपतिस्त्वयम् ॥२४॥
इति नाम ददौ तस्मै देयमेकादशेऽहनि॥
नामकर्मविधानेन तदर्थश्रुतिमुच्चरन् ॥२५॥
चतुर्निगममन्त्रोक्तैराशीर्भिरभिनन्द्य च॥
समयाद्धंसमारुह्य सर्वेषाञ्च पितामहः ॥२६॥
कृत्वा बालोचितां रक्षां लौकिकीं गतिमाश्रितः॥
आरुह्य यानं स्वन्धाम हरोऽपि हरिणा ययौ ॥२७॥
अहो रूपमहो तेजस्त्वहो सर्वांगलक्षणम्॥
अहो शुचिष्मती भाग्यमाविरासीत्स्वयं हरः ॥२८॥
अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो॥
स्वयमाविरभूद्रुद्रो ययो रुद्रस्तदर्चितः ॥२९॥
इति स्तुवन्तस्तेन्योन्यं सम्प्रहृष्टतनूरुहः॥
विश्वानरं समापृच्छ्य जग्मुः सर्वे यथागतम् ॥३०॥
अतः पुत्रं समीहन्ते गृहस्थाश्रमवासिनः॥
पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी ॥३१॥
अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा॥
अपुत्रस्य तपश्छिन्नं नो पवित्रत्यपुत्रतः ॥३२॥
न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम्॥
न पुत्रात्परमं मित्रम्परत्रेह च कुत्रचित् ॥३३॥
निष्क्रमोऽथ चतुर्थेऽस्य मासि पित्रा कृतो गृहात्॥
अन्नप्राशनमब्दार्द्धे चूडार्द्धे चार्थवत्कृता ॥३४॥
कर्णवेधन्ततः कृत्वा श्रवणर्क्षे स कर्मवित्॥
ब्रह्मतेजोभिवृद्ध्यर्थं पञ्चमेऽब्दे व्रतन्ददौ ॥३५॥
उपाकर्मं ततः कृत्वा वेदानध्यापयत्सुधीः॥
अब्दं वेदान्स विधिनाऽध्यैष्ट सांगपदक्रमान् ॥३६॥
विद्याजातं समस्तं च साक्षिमात्रं गुरोमुखात्॥
विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥३७॥
ततोऽथ नवमे वर्षे पित्रोश्शुश्रूषणे रतम्॥
वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः ॥३८॥
विश्वानरोटजम्प्राप्य देवर्षिस्तं तु कौतुकी॥
अपृच्छत्कुशलन्तत्र गृहीतार्धासनः क्रमात् ॥३९॥
ततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे॥
वैश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम् ॥४०॥
नन्दीश्वर उवाच॥
इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः॥
प्रणम्य नारदं श्रीमान् भक्त्या प्रह्व उपाविशत ॥४१॥
वैश्वानर समभ्येहि ममोत्संगे निषीद भोः॥
लक्षणानि परीक्षेऽहं पाणिन्दर्शय दक्षिणम् ॥४२॥
ततो दृष्ट्वा तु सर्वं हि तालुजिह्वादि नारदः॥
विश्वानरं समवदच्छिवप्रेरणया सुधीः ॥४३॥
नारद उवाच॥
विश्वानर मुने वच्मि शृणु पुत्रांकमादरात्॥
सर्वांगस्वंकवान्पुत्रो महालक्षणवानयम् ॥४४॥
किन्तु सर्वगुणोपेतं सर्वलक्षणलक्षितम्॥
सम्पूर्णनिर्मलकलं पालयेद्विधुवद्विधिः ॥४५॥
तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशु॥
गुणोऽपि दोषतां याति वक्रीभूते विधातरि ॥४६॥
शंकेऽस्य द्वादशे मासि प्रत्यूहो विद्युदग्नितः॥
इत्युक्त्वा नारदोऽगच्छद्देवलोकं यथागतम् ॥४७॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां गृहपत्यवतारोपाख्याने गृहपत्यवतारवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥
N/A
References : N/A
Last Updated : October 11, 2020
![Top](/portal/service/themes/silver/images/up.gif)
TOP