शतरुद्रसंहिता - अध्यायः २०
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
नन्दीश्वर उवाच ॥
अतः परं श्रुणु प्रीत्या हनुमच्चरितम्मुने ॥
यथा चकाराशु हरो लीलास्तद्रूपतो वराः ॥१॥
चकार सुहितं प्रीत्या रामस्य परमेश्वराः ॥
तत्सर्वं चरितं विप्र शृणु सर्वसुखावहम् ॥२॥
एकस्मिन्समये शम्भुरद्भुतोतिकरः प्रभुः ॥
ददर्श मोहिनीरूपं विष्णोस्स हि वसद्गुणः? ॥३॥
चक्रे स्वं क्षुभितं शम्भुः कामबाणहतो यथा ॥
स्वम्वीर्यम्पातयामास रामकार्यार्थमीश्वरः ॥४॥
तद्वीर्यं स्थापयामासुः पत्रे सप्तर्षयश्च ते ॥
प्रेरिता मनसा तेन रामकार्यार्थ मादरात ॥५॥
तैर्गौतमसुतायां तद्वीर्यं शम्भोर्महर्षिभिः ॥
कर्णद्वारा तथांजन्यां रामकार्यार्थमाहितम् ॥६॥
ततश्च समये तस्माद्धनूमा निति नामभाक् ॥
शम्भुर्जज्ञे कपितनुर्महाबलपराक्रमः ॥७॥
हनूमान्स कपीशानः शिशुरेव महाबलः ॥
रविबिम्बं बभक्षाशु ज्ञात्वा लघुफलम्प्रगे ॥८॥
देवप्रार्थनया तं सोऽत्यजज्ज्ञात्वा महाबलम् ॥
शिवावतारं च प्राप वरान्दत्तान्सुरर्षिभिः ॥९॥
स्वजनन्यन्तिकम्प्रागादथ सोतिप्रहर्षितः ॥
हनूमान्सर्वमाचख्यौ तस्यै तद्वृत्तमादरात् ॥१०॥
तदाज्ञया ततो धीरस्सर्वविद्यामयत्नतः ॥
सूर्यात्पपाठ स कपिर्गत्वा नित्यं तदान्तिकम् ॥११॥
सूर्याज्ञया तदंशत्य सुग्रीवस्यान्तिकं ययौ ॥
मातुराज्ञामनुप्राप्य रुद्रांशः कपिसत्तमः ॥१२॥
ज्येष्ठभ्रात्रा वालिना हि स्वस्त्रीभोक्त्रा तिरस्कृतः ॥
ऋष्यमृकगिरौ तेन न्यवसत्स हनूमता ॥१३॥
ततोऽभूत्स सुकण्ठस्य मन्त्री कपिवरस्सुधीः ॥
सर्वथा सुहितं चक्रे सुग्रीवस्य हरांशजः ॥१४॥
तत्रागतेन सभ्रात्रा हृतभार्येण दुःखिना ॥
कारयामास रामेण तस्य सख्यं सुखावहम् ॥१५॥
घातयामास रामश्च वालिनं कपिकुञ्जरम् ॥
भ्रातृपत्न्याश्च भोक्तारं पापिनम्वीरमानिनम् ॥१६॥
ततो रामाऽऽज्ञया तात हनूमान्वानरेश्वरः ॥
स सीतान्वेषणञ्चक्रे बहुभिर्वानरैस्सुधीः ॥१७॥
ज्ञात्वा लङ्कागतां सीतां गतस्तत्र कपीश्वरः ॥
द्रुतमुल्लंघ्य सिंधुन्तमनिस्तीर्य्यं परैस्स वै ॥१८॥
चक्रेऽद्भुतचरित्रं स तत्र विक्रमसंयुतम् ॥
अभिज्ञानन्ददौ प्रीत्या सीतायै स्वप्रभोर्वरम् ॥१९॥
सीताशोकं जहाराशु स वीरः कपिनायकः ॥
श्रावयित्वा रामवृत्तं तत्प्राणावनकारकम् ॥२०॥
तदभिज्ञानमादाय निवृत्तो रामसन्निधिम् ॥
रावणाऽऽराममाहत्य जघान बहुराक्षसान् ॥२१॥
तदेव रावणसुतं हत्वा सबहुराक्षसम् ॥
स महोपद्रवं चक्रे महोतिस्तत्र निर्भयः ॥२२॥
यदा दग्धो रावणेनावगुंठ्य वसनानि च ॥
तैलाभ्यक्तानि सुदृढं महाबलवता मुने ॥२३॥
उत्प्लुत्योत्प्लुत्य च तदा महादेवांशजः कपिः ॥
ददाह लंकां निखिलां कृत्वा व्याजन्तमेव हि ॥२४॥
दग्ध्वा लंकां वंचयित्वा विभीषणगृहं ततः ॥
अपतद्वारिधौ वीरस्ततस्स कपिकुञ्जरः ॥२५॥
स्वपुच्छ तत्र निर्वाप्य प्राप तस्य परन्तटम् ॥
अखिन्नस्स ययौ रामसन्निधिं गिरिशांशजः ॥२६॥
अविलंबेन सुजवो हनूमान् कपिसत्तमः ॥
रामोपकण्ठमागत्य ददौ सीताशिरोमणिम् ॥२७॥
ततस्तदाज्ञया वीरस्सिन्धौ सेतुमबन्धयत् ॥
वानरस्स समानीय बहून्गिरिवरान्बली ॥२८॥
गत्वा तत्र ततो रामस्तर्तुकामो यथा ततः ॥
शिवलिंगं समानर्च प्रतिष्ठाप्य जयेप्सया ॥२९॥
तद्वरात्स जयं प्राप्य वरं तीर्त्वोदधिं ततः ॥
लंकामावृत्य कपिभी रणं चक्रे स राक्षसैः ॥३०॥
जघानाथासुरान्वीरो रामसैन्यं ररक्ष सः ॥
शक्ति क्षतं लक्ष्मणं च संजीविन्या ह्यजीवयत् ॥३१॥
सर्वथा सुखिनं चक्रे सरामं लक्ष्मणं हि सः ॥
सर्वसैन्यं ररक्षासौ महादेवात्मजः प्रभुः ॥३२॥
रावणं परिवाराढ्यं नाशयामास विश्रमः ॥
सुखीचकार देवान्स महाबलग्रहः कपि ॥३३॥
महीरावणसंज्ञं स हत्वा रामं सलक्ष्मणम् ॥
तत्स्थानादानयामास स्वस्थानम्परिपाल्य च ॥३४॥
रामकार्यं चकाराशु सर्वथा कपिपुंगवः ॥
असुरान्नमयामास नानालीलां चकार च ॥३५॥
स्थापयामास भूलोके रामभक्तिं कपीश्वरः ॥
स्वयं भक्तवरो भूत्वा सीतारामसुखप्रदः ॥३६॥
लक्ष्मणप्राणदाता च सर्वदेवमदापहः ॥
रुद्रावतारो भगवान्भक्तोद्धारकरस्स वै ॥३७॥
हनुमान्स महावीरो रामकार्यकरस्सदा ॥
रामदूताभिधो लोके दैत्यघ्नो भक्तवत्सलः ॥३८॥
इति ते कथितं तात हनुमच्चरितम्वरम् ॥
धन्यं यशस्यमायुष्यं सर्वकामफलप्रदम् ॥३९॥
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥
स भुक्त्वेहाखिलान्कामानन्ते मोक्षं लभेत्परम् ॥४०॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां हनुमदवतारचरित्रवर्णनं नाम विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : October 11, 2020
TOP