संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः १

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


 ॥श्रीगणेशाय नम. ॥

अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ॥

यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो
यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्ग्गाभिधौ ॥
प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिनस्तस्मै
शैलसुताञ्जितार्द्धवपुषे शश्वन्नमस्तेजसे ॥१॥
कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशांककलयोज्ज्वलं शमितघोरतापत्रयम् ॥
करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मंगलम् ॥२॥
ऋषय ऊचुः ॥
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ॥
शिवावतारमाहात्म्यं नानाख्यानसमन्वितम् ॥३॥
पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ॥
लिंगसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तमः ॥४॥
शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्तास्स्मो वयं प्रभो ॥
शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम् ॥५॥
पृथिव्यां यानि यानि लिंगानि तीर्थेतीर्थे शुभानि हि ॥
अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ॥६॥
तानि तानि च दिव्यानि लिंगानि परमेशितुः ॥
व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया ॥७॥
सूत उवाच ॥
साधुपृष्टमृषिश्रेष्ठ लोकानां हितकाम्यया ॥
कथयामि भवत्स्नेहात्तानि संक्षेपतो द्विजाः ॥८॥
सर्वेषां शिवलिंगानां मुने संख्या न विद्यते ॥
सर्वं लिंगमयी भूमिः सर्वलिंगमयं जगत् ॥९॥
लिंगमयानि तीर्थानि सर्वं लिंगे प्रतिष्ठितम् ॥
संख्या न विद्यते तेषां तानि किंचिद्ब्रवीम्यहम् ॥१०॥
यत्किंचिद्दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ॥
तत्सर्वं शिवरूपं हि नान्यदस्तीति किंचन ॥११॥
तथापि श्रूयताम्प्रीत्या कथयामि यथाश्रुतम् ॥
लिंगानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह ॥१२॥
पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ॥
सर्वत्र पूज्यते शम्भुः सदेवासुरमानुषैः ॥१३॥
त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम् ॥
अनुग्रहाय लोकानां लिंगरूपेण सत्तमाः ॥१४॥
अनुग्रहाय लोकानां लिंगानि च महेश्वरः ॥
दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा ॥१५॥
यत्रयत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ॥
तत्रतत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा ॥१६॥
लोकानामुपकारार्थं स्वलिंगं चाप्यकल्पयत् ॥
तल्लिंगं पूजयित्वा तु सिद्धिं समधिगच्छति ॥१७॥
पृथिब्यां यानि लिंगानि तेषां संख्या न विद्यते ॥
तथापि च प्रधानानि कथ्यते च मया द्विजाः ॥१८॥
प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम् ॥
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥१९॥
ज्योतिर्लिंगानि यानीह मुख्यमुख्यानि सत्तम ॥
तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति ॥२०॥
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ॥
उज्जयिन्यां महाकालमोंकारे परमेश्वरम् ॥२१॥
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम् ॥
वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥२२॥
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ॥
सेतुबंधे च रामेशं घुश्मेशं च शिवालये ॥२३॥
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥
सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ॥२४॥
यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ॥
प्राप्स्यंति कामं तं तं हि परत्रेव मुनीश्वराः ॥२५॥
ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ॥
तेषां च जननीगर्भे वासो नैव भविष्यति ॥२६॥
एतेषां पूजनेनैव वर्णानां दुःखना शनम् ॥
इह लोके परत्रापि मुक्तिर्भवति निश्चितम् ॥२७॥
ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ॥
तत्कर्तुः सर्व्वपापानि भस्मसाद् यान्ति वै क्षणात् ॥२८॥
ज्योतिषां चैव लिंगानां बह्मादिभिरलं द्विजाः ॥
विशेषतः फलं वक्तुं शक्यते न परैस्तथा ॥२९॥
एकं च पूजितं येन षण्मासं तन्निरन्तरम् ॥
तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम् ॥३०॥
हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ॥
तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः ॥३१॥
सत्कुले जन्म संप्राप्य धनाढ्यो वेदपारगः ॥
शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम् ॥३२॥
म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः ॥
द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत् ॥३३॥
ज्योतिषां चैव लिंगानां किंचित्प्रोक्तं फलं मया ॥
ज्योतिषां चोपलिंगानि श्रूयन्तामृषिसत्तमाः ॥३४॥
सोमेश्वरस्य यल्लिंगमन्तकेशमुदाहृतम् ॥
मह्यास्सागरसंयोगे तल्लिंगमुपलिङ्गकम् ॥३५॥
मल्लिकार्जुनसंभूतमुपलिंगमुदाहृतम् ॥
रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम् ॥३६॥
महाकालभवं लिंगं दुग्धेशमिति विश्रुतम् ॥
नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम् ॥३७॥
ॐकारजं च यल्लिंगं कर्दमेशमिति श्रुतम् ॥
प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम् ॥३८॥
केदारेश्वरसंजातं भूतेशं यमुना तटे ॥
महापापहरं प्रोक्तं पश्यतामर्चतान्तथा ॥३९॥
भीमशंकरसंभूतं भीमेश्वरमिति स्मृतम् ॥
सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम् ॥४०॥
नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम् ॥
मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम् ॥४१॥
रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ॥
घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम् ॥४२॥
ज्योतिर्लिंगोपलिंगानि प्रोक्तानीह मया द्विजाः ॥
दर्शनात्पापहारीणि सर्वकामप्रदानि च ॥४३॥
एतानि सुप्रधानानि मुख्यतां हि गतानि च ॥
अन्यानि चापि मुख्यानि श्रूयतामृषिसत्तमा ॥४४॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिगतदुपलिंग माहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP