संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः ११

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः ॥
सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः ॥
महाबलस्य लिंगस्य श्रावितेयं कथाद्भुता ॥१॥
उत्तरस्यां दिशायां च शिवलिंगानि यानि च ॥
तेषां माहात्म्यमनघ वद त्वं पापनाशकम् ॥२॥
सूत उवाच ॥
शृणुतादरतो विप्रा औत्तराणां विशेषतः ॥
माहात्म्यं शिवलिंगानां प्रवदामि समासतः ॥३॥
गोकर्णं क्षेत्रमपरं महापातकनाशनम् ॥
महावनं च तत्रास्ति पवित्रमतिविस्तरम् ॥४॥
तत्रास्ति चन्द्रभालाख्यं शिवलिंगमनुत्तमम् ॥
रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम् ॥५॥
तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ॥
सर्वलोकहितार्थाय करुणासागरस्य च ॥६॥
स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ॥
शिवलोकमवाप्नोति सत्यंसत्यं न संशयः ॥७॥
चन्द्रभालस्य लिंगस्य महिमा परमाद्भुतः ॥
न शक्यो वर्णितुं व्यासाद्भक्तस्नेहितरस्य हि ॥८॥
चन्द्रभालमहादेव लिंगस्य महिमा महान् ॥
यथाकथंचित्संप्रोक्तः परलिंगस्य वै शृणु ॥९॥
दाधीचं शिवलिंगं तु मिश्रर्षिवरतीर्थके ॥
दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम् ॥१०॥
तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ॥
शिवलिंगं समर्चेद्वै दाधीचेश्वरमादरात् ॥११॥
दाधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ॥
शिवप्रीत्यर्थमेवाशु तीर्थयात्रा फलार्थिभिः ॥१२॥
एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥
इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात् ॥१३॥
नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ॥
ऋषीश्वरमिति ख्यातं शिवलिंगं सुखप्रदम् ॥१४॥
तद्दर्शनात्पूजनाच्च जनानां पापिनामपि ॥
भुक्तिमुक्तिश्च तेषां तु परत्रेह मुनीश्वराः ॥१५॥
हत्याहरणतीर्थे तु शिवलिंगमघापहम् ॥
पूजनीयं विशेषेण हत्याकोटिविनाशनम् ॥१६॥
देवप्रयागतीर्थे तु ललितेश्वरनामकम् ॥
शिवलिंगं सदा पूज्यं नरैस्सर्वाघनाशनम् ॥१७॥
नयपालाख्यपुर्य्यां तु प्रसिद्धायां महीतले ॥
लिंगं पशुपतीशाख्यं सर्वकामफलप्रदम् ॥१८॥
शिरोभागस्वरूपेण शिवलिंगं तदस्ति हि ॥
तत्कथां वर्णयिष्यामि केदारेश्वरवर्णने ॥१९॥
तदारान्मुक्तिनाथाख्यं शिवलिंगं महाद्भुतम् ॥
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते ॥२०॥
इति वश्च समाख्यातं लिंगवर्णनमुत्तमम् ॥
चतुर्दिक्षु मुनिश्रेष्ठाः किमन्यच्छ्रोतुमिच्छथ ॥२१॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चन्द्रभालपशुपतिनाथलिंगमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥११॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP