संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः २९

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः ॥
ज्योतीरूपं यथा जातं परमं लिंगमुत्तमम् ॥१॥
दारुका राक्षसी काचित्पार्वती वरदर्पिता ॥
दारुकश्च पतिस्तस्या बभूव बलवत्तरः ॥२॥
बहुभी राक्षसैस्तत्र चकार कदनं सताम् ॥
यज्ञध्वंसं च लोकानां धर्मध्वंसं तदाकरोत् ॥३॥
पश्चिमे सागरे तस्य वनं सर्वसमृद्धिमत् ॥
योजनानां षोडशभिर्विस्तृतं सर्वतो दिशम् ॥४॥
दारुका स्वविलासार्थं यत्र गच्छति तद्वनम् ॥
भूम्या च तरुभिस्तत्र सर्वोपकरणैर्युतम् ॥५॥
दारुकायै ददौ देवी तद्वनस्यावलोकनम् ॥
प्रयाति तद्वनं सा हि पत्या सह यदृच्छया ॥६॥
तत्र स्थित्वा तदा सोपि सर्वेषां च भयं ददौ ॥
दारुको राक्षसः पत्न्या तया दारुकया सह ॥७॥
ते सर्वे पीडिता लोका और्वस्य शरणं ययुः ॥
नत्वा प्रीत्या विशेषेण तमूचुर्नतमस्तकाः ॥८॥
लोका ऊचुः ॥
महर्षे शरणं देहि नो चेद्दुष्टैश्च मारिताः ॥
सर्वं कर्तुं समर्थोसि तेजसा दीप्तिमानसि ॥९॥
पृथ्व्यां न वर्तते कश्चित्त्वां विना शरणं च नः ॥
यामो यस्य समीपे तु स्थित्वा सुखमवाप्नुमः ॥१०॥
त्वां दृष्ट्वा राश्रसास्सर्वे पला यंते विदूरतः ॥
त्वयि शैवं सदा तेजो विभाति ज्वलनो यथा ॥११॥
सूत उवाच ॥
इत्येवं प्रार्थितो लोकैरौर्वो हि मुनिसत्तमः ॥
शोचमानः शरण्यश्च रक्षायै हि वचोऽब्रवीत् ॥१२॥
और्व उवाच ॥
पृथिव्यां यदि रक्षांसि हिंस्युर्वै प्राणिनस्तदा ॥
स्वयं प्राणैर्वियुज्येयू राक्षसा बलवत्तराः ॥१३॥
यदा यज्ञा न हन्येरंस्तदा प्राणैर्वियोजिताः ॥
भवंतु राक्षसास्सर्वे सत्यमेतन्मयोच्यते ॥१४॥
सूत उवाच ॥
इत्युक्त्वा वचनं तेभ्यस्समाश्वास्य प्रजाः पुनः ॥
तपश्चकार विविधमौर्वो लोकसुखावहः ॥१५॥
देवास्तदा ते विज्ञाय शापस्य कारणं हि तत् ॥
युद्धाय च समुद्योगं चक्रुर्देवारिभिस्सह ॥१६॥
सर्वैश्चैव प्रयत्नैश्च नानायुधधरास्सुराः ॥
सर्वे शक्रादयस्तत्र युद्धार्थं समुपागताः ॥१७॥
तान्दृष्ट्वा राक्षसास्तत्र विचारे तत्पराः पुनः ॥
बभूवुस्तेऽखिला दुष्टा मिथो ये यत्र संस्थिताः  १८॥
राक्षसा ऊचुः ॥
किं कर्तव्यं क्व गंतव्यं संकटं समुपागताः ॥
युद्ध्यते म्रियते चैव युद्ध्यते न विहन्यते ॥१९॥
तथैव स्थीयते चेद्वै भक्ष्यते किं परस्परम् ॥
दुःखं हि सर्वथा जातं क एनं विनिवारयेत् ॥२०॥
सूत उवाच ॥
विचार्येति च ते तत्र दारुकाद्याश्च राक्षसाः ॥
उपायं न विजानन्तो दुःखं प्राप्तास्सदा हि वै ॥२१॥
दारुका राक्षसी चापि ज्ञात्वा दुःखं समागतम् ॥
भवान्याश्च वरं तञ्च कथयामास सा तदा ॥२२॥
दारुकोवाच ॥
मया ह्याराधिता पूर्वं भवपत्नी वरं ददौ ॥
वनं गच्छ निजैः सार्धं यत्र गंतुं त्वमिच्छसि ॥२३॥
तद्वरश्च मया प्राप्तः कथं दुःखं विषह्यते ॥
जलं वनं च नीत्वा वै सुखं स्थेयं तु राक्षसैः ॥२४॥
भूत उवाच ॥
तस्यास्तद्वचनं श्रुत्वा राक्षस्या हर्षमागताः ॥
उचुस्सर्वे मिथस्ते हि राक्षसा निर्भयास्तदा ॥२५॥
धन्येयं कृतकृत्येयं राज्ञ्या वै जीवितास्स्वयम् ॥
नत्वा तस्यै च तत्सर्वं कथयामासुरादरात् ॥२६॥
यदि गंतुं भवेच्छक्तिर्गम्यतां किं विचार्यते ॥
तत्र गत्वा जले देवि सुखं स्थास्याम नित्यशः ॥२७॥
एतस्मिन्नंतरे लोका देवैस्सार्द्धं समागताः ॥
युद्धाय विविधैर्दुःखैः पीडिता राक्षसैः पुरा  २८॥
पीडिताश्च तदा तस्या भवान्या बलमाश्रिताः ॥
समग्रं नगरं नीत्वा जलस्थलसमन्वितम् ॥२९॥
जयजयेति देव्यास्तु स्तुतिमुच्चार्य राक्षसी ॥
तत उड्डीयनं कृत्वा सपक्षो गिरिराड्यथा ॥३०॥
समुद्रस्य च मध्ये सा संस्थिता निर्भया तदा ॥
सकलैः परिवारैश्च मुमुदेति शिवानुगा ॥३१॥
तत्र सिंधौ च ते स्थित्वा नगरे च विलासिनः ॥
राक्षसाश्च सुखं प्रापु्र्निर्भयाश्च विजह्रिरे ॥३२॥
राक्षसाश्च पृथिव्यां वै नाजग्मुश्च कदाचन ॥
मुनेश्शापभयादेव बभ्रमुस्ते चले तदा ॥३३॥
नौषु स्थिताञ्जनान्नीत्वा नगरे तत्र तांस्तदा ॥
चिक्षिपुर्बन्धनागारे कांश्चिज्जघ्नुस्तदा हि ते ॥३४॥
यथायथा पुनः पीडां चक्रुस्ते राक्षसास्तदा ॥
तत्रस्थिता भवान्याश्च वरदानाच्च निर्भयाः ॥३५॥
यथापूर्वं स्थले लोके भयं चासीन्निरन्तरम् ॥
तथा भयं जले तेषामासीन्नित्यं मुनीश्वराः ॥३६॥
कदाचिद्राक्षसी सा च निस्सृता नगराज्जले ॥
रुद्ध्वा मार्गं स्थिता लोकपीडार्थं धरणौ च हि ॥३७॥
एतस्मिन्नंतरे तत्र नावो बहुतराः शुभाः ॥
आगता बहुधा तत्र सर्वतो लोकसंवृताः ॥३८॥
ता नावश्च तदा दृष्ट्वा हर्षं संप्राप्य राक्षसाः ॥
द्रुतं गत्वा हि तत्रस्थान्वेगात्संदध्रिरे खलाः ॥३९॥
आजग्मुर्नगरं ते च तानादाय महाबलाः ॥
चिक्षिपुर्बन्धनागारे बद्ध्वा हि निगडैर्दृढैः ॥४०॥
बद्धास्ते निगडैर्लोका संस्थिता बंधनालये ॥
अतीव दुःखमाजग्मुर्भर्त्सितास्ते मुहुर्मुहुः ॥४१॥
तेषां मध्ये च योऽधीशस्स वैश्यस्सुप्रियाभिधः ॥
शिवप्रियश्शुभाचारश्शैवश्चासीत्सदातनः ॥४२॥
विना च शिवपूजां वै न तिष्ठति कदाचन ॥
सर्वथा शिवधर्मा हि भस्मरुद्राक्षभूषणः ॥४३॥
यदि पूजा न जाता चेन्न भुनक्ति तदा तु सः ॥
अतस्तत्रापि वैश्योऽसौ चकार शिवपूजनम् ॥४४॥
कारागृहगतस्सोपि बहूंश्चाशिक्षयत्तदा ॥
शिवमंत्रं च पूजां च पार्थिवीमृषिसत्तमाः ॥४५॥
ते सर्वे च तदा तत्र शिवपूजां स्वकामदाम् ॥
चक्रिरे विधिवत्तत्र यथादृष्टं यथाश्रुतम् ॥४६॥
केचित्तत्र स्थिता ध्याने बद्ध्वासनमनुत्तमम् ॥
मानसीं शिवपूजां च केचिच्चक्रुर्मुदान्विताः ॥४७॥
तदधीशेन तत्रैव प्रत्यक्षं शिवपूजनम् ॥
कृतं च पार्थिवस्यैव विधानेन मुनीश्वराः ॥४८॥
अन्ये च ये न जानन्ति विधानं स्मरणं परम् ॥
नमश्शिवाय मंत्रेण ध्यायंतश्शंकरं स्थिताः ॥४९॥
सुप्रियो नाम यश्चासीद्वैश्यवर्यश्शिवप्रियः ॥
ध्यायंश्च मनसा तत्र चकार शिवपूजनम् ॥५०॥
यथोक्तरूपी शंभुश्च प्रत्यक्षं सर्वमाददे ॥
सोपि स्वयं न जानाति गृह्यते न शिवेन वै ॥५१॥
एवं च क्रियमाणस्य वैश्यस्य शिवपूजनम् ॥
व्यतीयुस्तत्र षण्मासा निर्विघ्नेन मुनीश्वराः ॥५२॥
अतः परं च यज्जातं चरितं शशिमौलिनः ॥
तच्छृणुध्वमृषिश्रेष्ठाः सावधानेन चेतसा ॥५३॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्र संहितायां नागेश्वरज्योतिर्लिंगमाहात्म्ये दारुकावनराक्षसोपद्रववर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP