कोटिरुद्रसंहिता - अध्यायः २६
शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.
सूत उवाच ॥
एवं कृते तु ऋषिणा सस्त्रीकेन द्विजाश्शिवः ॥
आविर्बभूव स शिवः प्रसन्नस्सगणस्तदा ॥१॥
अथ प्रसन्नस्स शिवो वरं ब्रूहि महामुने ॥
प्रसन्नोऽहं सुभक्त्या त इत्युवाच कृपानिधिः ॥२॥
तदा तत्सुंदरं रूपं दृष्ट्वा शंभोर्महात्मनः ॥
प्रणम्य शंकरं भक्त्या स्तुतिं चक्रे मुदान्वितः ॥३॥
स्तुत्वा बहु प्रणम्येशं बद्धाञ्जलिपुटः स्थितः ॥
निष्पापं कुरु मां देवाब्रवीदिति स गौतमः ॥४॥
सूत उवाच ॥
इत्याकर्ण्य वचस्तस्य गौतमस्य महात्मनः ॥
सुप्रसन्नतरो भूत्वा शिवो वाक्यमुपाददे ॥५॥
शिव उवाच ॥
धन्योऽसि कृतकृत्योऽसि निष्पापोऽसि सदा मुने ॥
एतैर्दुष्टैः किल त्वं च च्छलितोऽसि खिलात्मभिः ॥६॥
त्वदीयदर्शनाल्लोका निष्पापाश्च भवंति हि ॥
किं पुनस्त्वं सपापोऽसि मद्भक्तिनिरतस्सदा ॥७॥
उपद्रवस्त्वयि मुने यैः कृतस्तु दुरात्मभिः ॥
ते पापाश्च दुराचारा हत्यावंतस्त एव हि ॥८॥
एतेषां दर्शनादन्ये पापिष्ठाः संभवंतु च ॥
कृतघ्नाश्च तथा जाता नैतेषां निष्कृतिः क्वचित् ॥९॥
सूत उवाच ॥
इत्युक्त्वा शंकरस्तस्मै तेषां दुश्चरितं तदा ॥
बहूवाच प्रभुर्विप्राः सत्कदोऽसत्सु दंडदः ॥१०॥
शर्वोक्तमिति स श्रुत्वा सुविस्मितमना ऋषिः ॥
सुप्रणम्य शिवं भक्त्या सांजलिः पुनरब्रवीत् ॥११॥
गौतम उवाच ॥
ऋषिभिस्तैर्महेशान ह्युपकारः कृतो महान् ॥
यद्येवं न कृतं तैस्तु दर्शनं ते कुतो भवेत् ॥१२॥
धन्यास्ते ऋषयो यैस्तु मह्यं शुभतरं कृतम् ॥
तद्दुराचरणादेव मम स्वार्थो महानभूत् ॥१३॥
सूत उवाच ॥
इत्येवं तद्वचश्श्रुत्वा सुप्रसन्नो महेश्वरः ॥
गौतमं प्रत्युवाचाशु कृपादृष्ट्या विलोक्य च ॥१४॥
शिव उवाच ॥
ऋषि धन्योसि विप्रेंद्र ऋषे श्रेष्ठतरोऽसि वै ॥
ज्ञात्वा मां सुप्रसन्नं हि वृणु त्वं वरमुत्तमम् ॥१५॥
सूत उवाच ॥
गौतमोऽपि विचार्यैव लोके विश्रुतमित्युत ॥
अन्यथा न भवेदेव तस्मादुक्तं समाचरेत् ॥१६॥
निश्चित्यैवं मुनिश्रेष्ठो गौतमश्शिवभक्तिमान् ॥
सांजलिर्नतशीर्षो हि शंकरं वाक्यमब्रवीत् ॥१७॥
गौतम उवाच ॥
सत्यं नाथ ब्रवीषि त्वं तथापि पंचभिः कृतम् ॥
नान्यथा भवतीत्यत्र यज्जातं जायतां तु तत् ॥१८॥
यदि प्रसन्नो देवेश गंगा च दीयतां मम ॥
कुरु लोकोपकारं हि नमस्तेऽस्तु नमोऽस्तु ते ॥१९॥
सूत उवाच ॥
इत्युक्त्वा वचनं तस्य धृत्वा वै पादपंकजम् ॥
नमश्चकार देवेशं गौतमो लोककाम्यया ॥२०॥
ततस्तु शंकरो देवः पृथिव्याश्च दिवश्च सः ॥
सारं चैव समुद्धृत्य रक्षितं पूर्वमेव तत् २१॥
विवाहे ब्रह्मणा दत्तमवशिष्टं च किंचन ॥
तत्तस्मै दत्तवाञ्च्छंभुर्मुनये भक्तवत्सलः ॥२२॥
गंगाजलं तदा तत्र स्त्रीरूपमभवत्परम् ॥
तस्याश्चैव ऋषिश्रेष्ठः स्तुतिं कृत्वा नतिं व्यधात् ॥२३॥
गौतम उवाच ॥
धन्यासि कृतकृत्यासि पावितं भुवनं त्वया ॥
मां च पावय गंगे त्वं पततं निरये ध्रुवम् ॥२४॥
सूत उवाच ॥
शंभुश्चापि तदोवाच सर्वेषां हितकृच्छृणु ॥
गंगे गौतममेनं त्वं पावयस्व मदाज्ञया ॥२५॥
॥सूत उवाच ॥
इति श्रुत्वा वचस्तस्य शंभोश्च गौतमस्य च ॥
उवाचैव शिवं गंगा शिवभक्तिर्हि पावनी ॥२६॥
गंगोवाच ॥
ऋषिं तु पावयित्वाहं परिवारयुतं प्रभो ॥
गमिष्यामि निजस्थानं वचस्सत्यं ब्रवीमि ह ॥२७॥
सूत उवाच ॥
इत्युक्तो गंगया तत्र महेशो भक्तवत्सलः ॥
लोकोपकरणार्थाय पुनर्गगां वचोऽब्रवीत् ॥२८॥
शिव उवाच ॥
त्वया स्थातव्यमत्रैव व्रजेद्यावत्कलिर्युगः ॥
वैवस्वतो मनुर्देवि ह्यष्टाविंशत्तमो भवेत् ॥२९॥
सूत उवाच ॥
इति श्रुत्वा वचस्तस्य स्वामिनश्शंकरस्य तत् ॥
प्रत्युवाच पुनर्गंगा पावनी सा सरिद्वरा ॥३०॥
गंगोवाच ॥
माहात्म्यमधिकं चेत्स्यान्मम स्वामिन्महेश्वर ॥
सर्वेभ्यश्च तदा स्थास्ये धरायां त्रिपुरान्तकः ॥३१॥
किं चान्यच्च शृणु स्वामिन्वपुषा सुन्दरेण ह ॥
तिष्ठ त्वं मत्समीपे वै सगणसांबिकः प्रभो ॥३२॥
सूत उवाच ॥
एवं तस्या वचः श्रुत्वा शंकरो भक्तवत्सलः ॥
लोकोपकरणार्थाय पुनर्गंगां वचोब्रवीत् ॥३३॥
शिव उवाच ॥
धन्यासि श्रूयतां गंगे ह्यहं भिन्नस्त्वया न हि ॥
तथापि स्थीयते ह्यत्र स्थीयतां च त्वयापि हि ॥३४॥
सूत उवाच ॥
इत्येवं वचनं श्रुत्वा स्वामिनः परमेशितुः ॥
प्रसन्नमानसा भूत्वा गंगा च प्रत्यपूजयत् ॥३५॥
एतस्मिन्नंतरे देवा ऋषयश्च पुरातनाः ॥
सुतार्थान्यप्यनेकानि क्षेत्राणि विविधानि च ॥३६॥
आगत्य गौतमं सर्वे गंगां च गिरिशं तथा ॥
जयजयेति भाषंतः पूजयामासुरादरात् ॥३७॥
ततस्ते निर्जरा सर्वे तेषां चक्रुः स्तुतिं मुदा ॥
करान् बद्ध्वा नतस्कंधा हरिब्रह्मादयस्तदा ॥३८॥
गंगा प्रसन्ना तेभ्यश्च गिरिशश्चोचतुस्तदा ॥
वरं ब्रूत सुरश्रेष्ठा दद्वो वः प्रियकाम्यया ॥३९॥
देवा ऊचुः ॥
यदि प्रसन्नो देवेश प्रसन्ना त्वं सरिद्वरे ॥
स्थातव्यमत्र कृपया नः प्रियार्थं तथा नृणाम् ॥४०॥
॥गंगोवाच ॥
यूयं सर्वप्रियार्थं च तिष्ठथात्र न किं पुनः ॥
गौतमं क्षालयित्वाहं गमिष्यामि यथागतम् ॥४१॥
भवत्सु मे विशेषोत्र ज्ञेयश्चैव कथं सुराः ॥
तत्प्रमाणं कृतं चेत्स्यात्तदा तिष्ठाम्यसंशयम् ॥४२॥
॥सर्वे ऊचुः ॥
सिंहराशौ यदा स्याद्वै गुरुस्सर्वसुहृत्तमः ॥
तदा वयं च सर्वे त्वागमिष्यामो न संशयः ॥४३॥
एकादश च वर्षाणि लोकानां पातकं त्विह ॥
क्षालितं यद्भवेदेवं मलिनास्स्मः सरिद्वरे ॥४४॥
तस्यैव क्षालनाय त्वायास्यामस्सर्वथा प्रिये ॥
त्वत्सकाशं महादेवि प्रोच्यते सत्यमादरात् ॥४५॥
अनुग्रहाय लोकानामस्माकं प्रियकाम्यया ॥
स्थातव्यं शंकरेणापि त्वया चैव सरिद्वरे ॥४६॥
यावत्सिंहे गुरुश्चैव स्थास्यामस्तावदेव हि ॥
त्वयि स्नानं त्रिकालं च शंकरस्य च दर्शनम् ॥४७॥
कृत्वा स्वपापं निखिलं विमोक्ष्यामो न संशयः ॥
स्वदेशांश्च गमिष्यामो भवच्छासनतो वयम् ॥४८॥
सूत उवाच ॥
इत्येवं प्रार्थितस्तैस्तु गौतमेन महर्षिणा ॥
स्थितोऽसौ शंकरः प्रीत्या स्थिता सा च सरिद्वरा ॥४९॥
सा गंगा गौतमी नाम्ना लिंगं त्र्यंबकमीरितम् ॥
ख्याता ख्यातं बभूवाथ महापातकनाशनम् ॥५०॥
तद्दिनं हि समारभ्य सिंहस्थे च बृहस्पतौ ॥
आयांति सर्वतीर्थानि क्षेत्राणि देवतानि च ॥५१॥
सरांसि पुष्करादीनि गंगाद्यास्सरितस्तथा ॥
वासुदेवादयो देवाः संति वै गोतमीतटे ॥५२॥
यावत्तत्र स्थितानीह तावत्तेषां फलं न हि ॥
स्वप्रदेशे समायातास्तर्ह्येतेषां फलं भवेत् ॥५३॥
ज्योतिर्लिंगमिदं प्रोक्तं त्र्यंबकं नाम विश्रुतम् ॥
स्थितं तटे हि गौतम्या महापातकनाशनम् ॥५४॥
यः पश्येद्भक्तितो ज्योतिर्लिंगं त्र्यंबकनामकम् ॥
पूजयेत्प्रणमेत्स्तुत्वा सर्वपापैः प्रमुच्यते ॥५५॥
ज्योतिर्लिंगं त्र्यंबकं हि पूजितं गौतमेन ह ॥
सर्वकामप्रदं चात्र परत्र परमुक्तिदम् ॥५६॥
इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ॥
किमन्यदिच्छथ श्रोतुं तद् ब्रूयां वो न संशयः ॥५७॥
इति श्री शिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां
त्र्यंबकेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ॥२६॥
N/A
References : N/A
Last Updated : October 12, 2020
TOP